testwebdunia1
testwebdunia0
testwebdunia2
Widgets Magazine
Widgets Magazine

श्री शिवरात्री व्रत-कथा (संस्कृत)

mahadev
वेबदुनिया|
WD
लोमश उवाच
आसीत्‌ पुरा महारौद्रश्चण्डो नाम दुरात्मवान्‌।
क्रूरसंगो निष्कृतिको भूतानां भयवाहकः ॥१॥

जालेन मत्स्यान्‌ दुष्टात्मा घातयत्यनिशं खलु।
भल्लैर्मृगाञ्छ्वापदांश्च कृष्णसारांश्च सल्लकान्‌ ॥२॥

खड्गांश्चैव च दुष्टात्मा दृष्टवा कांश्चिच्च पापवान्‌।
पक्षिणोऽघातयत्‌ क्रुद्धो ब्राह्मणांश्च विशेषतः ॥३॥
लुब्धको हि महापापो दुष्टो दुष्जनप्रियः।
भार्या तथाविधा तस्य पुष्कसस्य महाभया ॥४॥

एवं विहरतस्तस्य बहुकालोऽत्यवर्तत।
गते बहुतिथे काले पापौघनिरतस्य च ॥५॥

निषंगे जलमादाय क्षुत्पिपासार्द्दितो भृशम्‌।
एकदा निशि पापीयाञ्च्छ्रीवृक्षोपरि संस्थितः ॥६॥
कोलं हन्तुं धनुष्पाणिर्जाग्रच्चानिमिषेण हि।
माघमासेऽसितायां वै चतुर्दश्यामथाग्रतः ॥७॥

मृगमार्गावलोकार्थी बिल्वपत्राण्यपातयत्‌ ॥८॥

श्री वृक्षपर्णानि बहूनि तत्र स छेदयामास रुषान्वितोऽपि।
श्रीवृक्षमूले परिवर्त्तमानो लिंगं च तस्योपरि दुष्टभावः ॥९॥
ववर्ष गण्डूषजलं दुरात्मा यदृच्छया तानि शिवे पतन्ति।
श्रीवृक्षपर्णानि च दैवयोगा- ज्जातं च सर्वं शिवपूजनं तत्‌ ॥१०॥

गण्डूषवारिणा तेन स्त्रपनं च कृतं महत्‌।
बिल्वपत्रैरसंख्यातैरर्चनं च महत्‌ कृतम्‌ ॥११॥

अज्ञानेनापि भो विप्राः पुष्कसेन दुरात्मना।माघमासेऽसिते पक्षे चतुर्दश्यां विधूदये ॥१२॥

पुष्कसोऽथ दुराचारो वृक्षादवततार सः।
आगत्य जलसंकाशं मत्स्यान्‌ हन्तुं प्रचक्रमे ॥१३॥

लुब्धकस्यापि भार्याभून्नाम्ना चैव घनोदरी।
दुष्टासा पापनिरता परद्रव्यापहारिणी ॥१४॥
गृहान्निर्गत्य सायाह्ने पुरद्वारबहिःस्थिता।
वनमार्गं प्रपश्यन्ती पत्युरागमनेच्छया ॥१५॥

चिराद् भर्तरि नायाते चिन्तयामास लुब्धकी।
अद्य सायाह्नवेलायामागताः सर्वलुब्धकाः ॥१६॥

तमःस्तोमेन संच्छन्नाश्चतस्त्रो विदिशो दिशः।
रात्रौ यामद्वयं यातं किं मतंगः समागतः ॥१७॥
किं वा केसरलोभेन सिंहेनैव विदारितः ।
किं भुजंगफणारत्नहारी सर्पविषार्दितः ॥१८॥

किं वा वराहद्रंष्ट्राग्रघातैः पञ्चत्वमागः।
मधुलोभेन वृक्षाग्रात्‌ स वै प्रपतितो भुवि ॥१९॥

का वान्वेषयामि पृच्छामि क्व गच्छामि च कं प्रति।एवं विलप्य बहुधा निवृत्ता स्वं गृहं प्रति ॥२०॥

नैवान्नं नो जलं किंचिन्न भुक्तं तद्दिने तया।
चिन्तयन्ती पतिं चापि लुब्धकी त्वनयन्निशाम्‌ ॥२१॥

अथ प्रभाते विमले पुष्कसी वनमाययौ।
अशनार्थं चल तस्यान्नमादाय त्वरिता सती ॥२२॥
भ्रममाणा वने तस्मिन्‌ ददर्श महतीं नदीम्‌।
तस्यास्तीरे समासीनं स्वपतिं प्रेक्ष्य हर्षिता ॥२३॥

तदन्नं कूलतः स्थाप्य नदीं तर्तुं प्रचक्रमे।
निरीक्ष्य चाथ मत्स्यान्‌ स जालप्रोतान्‌ समानयत्‌ ॥२४॥

तावत्‌ तयोक्तश्चण्डोऽसावेहि शीघ्रं च भक्षय।अन्नं त्वदर्थमानीतमुपोष्य दिवसं मया ॥२५॥

कृतं किमद्य रे मन्द गतेऽहनि च किं कृतम्‌।
नाशितं च त्वया मूढ लंघितेनाद्य पापिना ॥२६॥

नद्यां स्नात्रौ तथा तौ च दम्पती च शुचिव्रतौ।
यावद् गतश्च भोक्तुं स तावच्छ्वा स्वयंमागतः ॥२७॥
तेन सर्वं भक्षितं च तदन्नं स्वयमेव हि।
चण्डी प्रकुपिता चैव श्वानं हन्तुमुपस्थिता ॥२८॥

आवयोर्भक्षितं चान्नमनेनैव च पापिना।
किं च भक्षयसे मूढ भविताद्य बुभुक्षितः ॥२९॥

एवं तयोक्तश्चण्डोऽसौ बभाषे तां शिवप्रियः।
यच्छुना भक्षितं चान्नं तेनाहं परितोषितः ॥३०॥
किमनेन शरीरेण नश्वरेण गतायुषा।
शरीरं दुर्लभं लोके पूज्यते क्षणभंगुरम्‌ ॥३१॥

ये पुष्णन्ति निजं देहं सर्वभोवेन चाहताः।
मूढास्ते पापिनो ज्ञेया लोकद्वयबहिष्कृताः ॥३२॥

तस्मान्मानं परित्यज्य क्रोधं च दुरवग्रहम्‌।स्वस्था भव विमर्शेन तत्त्वबुद्धद्या स्थिरा भव ॥३३॥

बोधिता तेन चण्डी सा पुष्कसेन तदा भृशम्‌।
जागरादि च सम्प्राप्तः पुष्कसोऽपि चतुर्दशीम्‌ ॥३४॥

शिवरात्रिप्रसंगाच्च जायते यद्धद्यसंशयम्‌।
तज्ज्ञानं परमं प्राप्तः शिवरात्रिप्रसंगतः ॥३५॥
यामद्वयं च संजातममावस्यां तु तत्र वै।
आगताश्च गणास्तत्र बहवः शिवनोदिताः ॥३६॥

विमानानि बहून्यत्र आगतानि तदन्तिकम्‌।
दृष्टानितेन तान्येव विमानानि गणास्तथा ॥३७॥

उवाच परया भक्त्या पुष्कसोऽपि च तान्‌ प्रति।
कस्मात्‌ समागता यूयं सर्वे रुद्राक्षधारिणः ॥३८॥
विमानस्थाश्च केचिच्च वृषारूढाश्च केचन।
सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्धशेखराः ॥३९॥

कपर्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः।
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतात्मनोचितम्‌ ॥४०॥

पुष्कसेन तदा पृष्टा ऊचुः सर्वे च पार्षदाः।रुद्रस्य देवदेवस्य संनम्राः कमलेक्षणाः ॥४१॥


यावर अधिक वाचा :

कोकिलाव्रत: कसे करावे?

national news
ज्या वर्षी आषाढ अधिकमास येईल त्यानंतरच्या शुद्ध आषाढ पौणिमेपासून श्रावण पौर्णिमेपर्यंत ...

अक्कलकोट स्वामी समर्थांची आरती

national news
जयदेव जयदेव श्री स्वामी समर्था आरती ओवाळू चरणी ठेवूनिया माथा !! जयदेव जयदेव..!! छेली ...

रुद्राक्ष आणि आरोग्य

national news
'रुद्राक्ष' तन आणि मनाचे आजार दूर करण्‍यासाठी महत्त्वपूर्ण आहे. रूद्राक्ष धारण केल्याने ...

मरणापूर्वी नेमके काय दिसते?

national news
अनेकांच्या मते जीवनातले अंतिम सत्य हे मृत्यू असते, पण मृत्यूनंतर काय? हा प्रश्न अनेकांना ...

चावू नाही तुळशीची पानं, हे करणेही टाळा

national news
तुळशीचे पानं चावू नाही. तुळस सेवन केल्याने अनेक रोग दूर होत असतील तरी यात पारा धातूचे घटक ...

राशिभविष्य