शुक्रवार, 29 मार्च 2024
  1. धर्म
  2. सण-उत्सव
  3. श्रीरामनवमी
Written By वेबदुनिया|

रामषट्पदी

तरणिकुलजलतरणे तरुणतरणितेजसा विभातरणे ।
कृतविदशदशमुखमुखतिमिरगणेऽन्तस्तमो नुद मे ॥१॥
शयविधृतशरशरासन निखिलखलोज्जासनप्रतिथसुयशाः ।
मथितहृदयान्तरालं दुष्कृतिजालं ममापनय ॥२॥
सुरुचिरमरीचिनिचयांश्चरणनखेन्दूनुदाय मम हृदये ।
हृदयेश विकलतापं स्वसकलतापं किलापहर ॥३॥
इन्दीवरदल सुन्दर वरदलसद्वामजानकीजाने ।
जाने त्वामखिलेशं लेशलसल्लोकलोकेशम्‌ ॥४॥
शंकुरु शंकरवल्लभ यल्लभतामाश्वयं त्वदंघ्रियुगे ।
अनुरक्तिदृढां भक्तिं चिरस्य चिन्ताब्धिभवभक्तिम्‌ ॥५॥
वैराजराजराजोऽप्यभूत्सुसाकेतराजनरराजः ।
वानरराजसहायो लीलाकैवल्यमेतद्धि ॥६॥
जगदसुसुतासुपरवसुमुदे यदेषा स्तुतिः कृता स्फीता ।
सा रामषट्पदीयं विलसतु तत्पादजलजाते ॥७॥

॥ श्री मन्मालवीयशुक्लश्रीमन्मथुरानाथप्रणीता रामषट्पदी समाप्त ॥