॥ गुरुतत्वविवेचनम् ॥ अन्धेनाऽन्धीकृतं विश्वं सचक्षुस्तु सचक्षुषम्। दिदृक्षा चेद्भज त्वं तु देशिकेन्द्रं सचश्रुषम्॥१॥
अन्धस्य गुरुरेकाक्षस्तस्य द्व्यक्षो गुरुर्मतः। द्व्यक्षाणामपि सर्वेषां गुरुस्त्र्यक्षो न तत्समः॥२॥
सहस्राक्षादयः सर्वे द्व्यक्षा एव हि केवलम्। कार्यध्येय-दृशो यस्मात् त्र्यक्षशिष्यपदे स्थिताः॥३॥
त्र्यक्षस्तु भगवानादिपुरुषः शंकरो भवः। सृष्ट्वा सर्वाणि भूतानि कायमध्येऽथ सदिशन्॥४॥
उभयातीतममलं तृतीयांक्षस्य गोचरम्। ददाति प्रार्थितस्तुष्टः श्रीगुरुः परमेश्वरः॥५॥
स आदिनाथो भगवाननादिर्ज्ञानाम्बुधिः स्वात्मरतिर्महात्मा। श्रीदेशिकेन्द्रः करुणाम्बुराशिर्नानास्वरूपैश्चरतीह लोके॥६॥
क्वचिच्च किंचित् कुरुते मनस्वी क्वचिन्न किंचित् कुरुते प्रमत्तः। बालो यथा क्रीडति सर्वलोके तथैव स क्रीडति पामरेषु॥७॥
स लभ्यते केनचिदेव पुंसा विज्ञायते केनचिदेव पुंसा। प्रस्तूयते केनचिदेव पुंसा श्रृणोति वा तं स नरोऽपि धन्या॥८॥
॥ इति श्रीकृष्णानन्दयतिविरचितं गुरुतत्वविवेचनं सम्पूर्णम् ॥
|