नारद उवाच ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः। धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम॥१॥
शिरो में भास्करिः पातु भालं छायासुतोऽवतु। कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती॥२॥
घ्राणं मे भीषणः पातु मुखं बलिमुखोऽवतु। स्कन्धौ संवर्तकः पातु भुजौ मे भयदोऽवतु॥३॥
सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु। ग्रहराजः कटिं पातु सर्वतो रविनन्दनः॥४॥
पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः। रक्षामेतां पठेन्नित्यं सौरेर्नामबलैर्युताम्॥५॥
सुखी पुत्री चिरायुश्च स भवेन्नात्र संशयः। ॐ शौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः॥६॥
शुष्कोदरो विशालाक्षो दुर्निरीक्ष्यो विभीषणः। शितिकण्ठनिभो नीलश्छायाहृदयनन्दनः॥७॥
कालदृष्टिः कोटराक्षः स्थूलरोमा वलीमुखः। दीर्घो निर्मांसगात्रस्तु शुष्को घोरो भयानकः॥८॥
नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुर्जटाधरः। मन्दो मन्दगतिः खंजोऽतृप्तः संवर्तको यमः॥९॥
ग्रहराजः कराली च सूर्यपुत्रो रविः शशी। कुजो बुधो गुरुः काव्यो भानुजः सिंहिकासुतः॥१०॥
केतुर्देवपतिर्बाहुः कृतान्तो नैऋतस्तथा। शशी मरुत्कुबेरश्च ईशानः सुर आत्मभूः॥११॥
विष्णुर्हरो गणपतिः कुमारः काम ईश्वरः। कर्ता हर्ता पालयिता राज्यभुग् राज्यदायकः॥१२॥
छायासुतः श्यामः लांगो धनहर्ता धनप्रदः। क्रूरकर्मविधाता च सर्वकर्मावरोधकः॥१३॥
तुष्टो रुष्टः कामरूपः कामदो रविनन्दनः। ग्रहपीडाहरः शान्तो नक्षत्रेशो ग्रहेश्वरः॥१४॥
स्थिरासनः स्थिरगतिर्महाकायो महाबलः। महाप्रभो महाकालः कालात्मा कालकालकः॥१५॥
आदित्यभयदाता च मृत्युरादित्यनंदनः। शतभिद्रुक्षदयिता त्रयोदशितिथिप्रियः॥१६॥
तिथ्यात्मा तिथिगणनो नक्षत्रगणनायक। योगराशिर्मुहूर्तात्मा कर्ता दिनपतिः प्रभुः॥१७॥
शमीपुष्पप्रियः श्यामस्रैलोक्याभावदायकः। नीलवासाः क्रियासिन्धुर्नीलांजनचयच्छविः॥१८॥
सर्वरोगहरो देवः सिद्धो देवगुणस्तुतः। अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः॥१९॥
पठेन्नित्यं तस्य पीडा समस्ता नश्यति ध्रुवम्। कृत्वा पूजां पठेन्मर्त्यो भक्तिमान्यः स्तवं सदा॥२०॥
विशेषतः शनिदिने पीडा तस्य विनश्यति। जन्मलग्ने स्थितिर्वापि गोचरे क्रूरराशिगे॥२१॥
दशासु च गते सौरे तदा स्तवमिमं पठेत्। पूजयेद्यः शनि भक्त्या शमीपुष्पाक्षताम्बरैः॥२२॥
विधाय लोहप्रतिमां नरो दुःखाद्विमुच्यते। वाधा धान्यग्रहाणां च यः पठेत्तस्य नश्यति॥२३॥
भीतो भयाद्विमुच्येत बद्धो मुच्येत बन्धनात्। रोगी रोगाद्विमुच्येत नरः स्तवमिमं पठेत्॥२४॥
पुत्रवान्धनवान् श्री मांजायते नात्र संशयः॥२५॥
नारद उवाच स्तवं निशम्य पार्थस्य प्रत्यक्षोऽभूच्छनैश्चरः। दत्त्वा राज्ञे वरःकामं शनि श्चान्तर्दधे तदा॥२६॥
॥ इति श्री भविष्यपुराणे शनैश्चरस्तवराजः समाप्त॥
|