अस्य श्रीशनैश्चरस्तोत्रस्य दशरथ ऋषिः। श्री शनैश्चरो देवता। त्रिष्टुप् छन्दः। शनैश्चरप्रीत्यर्थे जपे विनियोगः।
दशरथ उवाच कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिंगलमन्दसौरिः। नित्यं स्मृतो या हरते च पीडां तस्मै नमः श्रीरविनन्दनाय॥१॥
सुरासुराः किंपुरुषोरगेन्द्रा गन्धर्वविद्याधर पन्नगाश्च। पीड्यन्ति सर्वे विषमस्थितेन तस्मै...॥२॥
नरा नरेन्द्राः पशवो मृगेन्द्रा वन्याश्च ये कीटपतंगभृंगाः। पीड्यन्ति सर्वे विषमस्थितेन तस्मै...॥३॥
देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुरपत्तनानि। पीड्यन्ति सर्वे विषमस्थितेन तस्मै...॥४॥
तिलैर्यवैर्माषगुडान्नदानैर्लोहेन नीलाम्बरदानतो वा। प्रीणाति मन्त्रैर्निजवासरे च तस्मै...॥५॥
प्रयागकूले यमुनातटे च सरस्वतीपुण्य जले गुहायाम्। यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै...॥६॥
अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यात्। गृहाद्गतो यो न पुनः प्रयाति तस्मै...॥७॥
स्रष्टा स्वयंभूर्भुवनत्रयस्य त्राता हरीशो हरते पिनाकी। एकस्रिधा ऋग्यजुःसाममूर्तिस्तस्मै...॥८॥
शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्च। पठेत्तु सौख्यं भुविभोगयुक्तः प्राप्नोति निर्वाणपदं तदन्ते॥९॥
कोणस्थः पिंगलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः। सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः॥१०॥
एतानि दश नामानि प्रातरुत्थाय यः पठेत्। शनैश्चरकृता पीडा न कदाचिद्भविष्यति॥११॥
॥ इति श्रीशनैश्चरस्तोत्रं संपूर्णम् ॥
|