नीलम्बरो नीलवपुः कीरीटी गृध्रस्थितस्त्रासकरो धनुष्मान्। चतुर्भजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः॥१॥
ब्रह्मा उवाच श्रृणुध्वमृषयः सर्वे शनिपीडाहरं महत्। कवचं शनिराजस्य सौरेदिमनुत्तमम्॥२॥
कवचं देवतावासं वज्रपंजरसंज्ञकम्। शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम्॥३॥
ॐ श्रीशनैश्चतरः पातु भालं मे सूर्यनन्दनः । नेत्रे छायात्मजः पातु पातु कणौं यमानुजः॥४॥
नासां वैवस्वतः पातु मुखं मे भास्करः सदा । स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः॥५॥
स्कन्धौ पातु शनिश्चैव करौ पातु-शुभप्रदः। वक्षः पातु यमभ्राता कुक्षिं पात्वसित्स्तथा॥६॥
नाभिं ग्रहपतिः पातु मन्दः पातु मटिं तथा। ऊरू ममाऽन्तकः पातु यमो जानुयुगं तथा॥७॥
पदौ मन्दगतिः पातु सर्वांगन् पातु पिप्पलः । अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दनः॥८॥
इत्येतत् कवचं दिव्यं पठत् सूर्यसुतस्य यः। न तस्य जायते पीडा प्रीतो भवति सूर्यजः॥९॥
व्यय-जन्म-द्वितीयस्थो मृत्युस्थानगतोऽपि वा । कलत्रस्थो गतो वाऽपि सुप्रीतस्तु सदा शनिः॥१०॥
अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे। कवचं पठते नित्यं न पीडा जायते क्वचित्॥११॥
इत्येत् कवचं दिव्यं सौर्रेर्यन्निर्मितं पुरा। द्वादशा-ऽष्टम् -जन्मस्थ-दोषान्नाशयते सदा ।
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥१२॥
॥इति श्री ब्रह्माण्डपुराणे ब्रह्म-नारदसंवादे शनिवज्रपंजरकवचम् सम्पूर्णम्॥
|