गुरूवार, 25 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. श्रीरामनवमी
Written By वेबदुनिया|

जटायुकृतं रामस्तोत्रम्‌

जुटायुरुवाचः
अगणितगुणमप्रमेयमाद्यं सकल जगत्स्थितिसंयमादिहेतुम्‌ ।
उपरमपरमं परात्मभूतं सततमहं प्रणतोऽस्मि रामचंद्रम ॥१॥
निरवधिसुखमिन्दिराकटाक्षं क्षपितसुरेन्द्रचतुर्मुखादिदुःखम्‌ ।
नरवरमनिशं नतोऽस्मि रामं वरदमहं वरचापबाणहस्तम्‌ ॥२॥
त्रिभुवनकमनीयरूपमीड्यं रविशतभासुरमीहितप्रदानम्‌ ।
शरणदमनिशं सुरागमूले कृतनिलयं रघुनंदनं प्रपद्ये ॥३॥
भवविपिनदवाग्निनामधेयं भवमुखदैवतदैवतं दयालुम्‌ ।
दनुजपतिसहस्रकोटिनाशं रवितनयासदृशं हरिं प्रपद्ये ॥४॥
अविरतभवभावनातिदूरं भवविमुखैर्मुनिभिः सदैव दृश्यम्‌ ॥
भवजलधिसुतारणांघ्रिपोतं शरणमहं रघुनन्दनं प्रपद्ये ॥५॥
गिरिशगिरिसुतामनोनिवासं गिरिवरधारिणमीहिताभिरामम्‌ ॥
सुरवरदनुजेन्द्रसेवितांघ्र सुरवरदं रघुनायकं प्रपद्ये ॥६॥
परधनपरदारवर्जितानां परगुणभूतिषु तुष्टमानसानाम्‌ ।
परहितनिरतात्मनां सुसेव्यं रघुवरमंबुजलोचनं प्रपद्ये ॥७॥
स्मितरुचिरविकासिताननाब्जमतिसुलभं सुरराजनीलनीलम्‌ ।
सितजलरुहचारुनेत्रशोभं रघुपतिमीशगुरोर्गुरुं प्रपद्ये ॥८॥
हरिकमलजशम्भुरूप भेदात्वमिह विभासि गुणत्रयानुवृत्तः ।
रविरिव जलपूरितोदपात्रेष्वमरपतिस्तुतिपात्रमीशमीडे ॥९॥
रतिपति शतकोटिसुन्दरांगं शतपथगोचरभावनाविदूरम्‌ ।
यतिपतिहृदये सदा विभातं रघुपतिमार्तिहरं प्रभुं प्रपद्ये ॥१०॥
इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्रघूत्तमः ।
उवाच गच्छ भद्रं ते मम विष्णोः परं पदम्‌ ॥११॥
श्रृणोति य इदं स्तोत्रं लिखेद्वा नियतः पठेत्‌ ।
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत्‌ ॥१२॥
इति राघवभाषितं तदा श्रुतवान्‌ हर्षसमाकुलो द्विजः ॥
रघुनन्दनसाम्यमास्थितः प्रययौ ब्रह्मसुपूजितं पदम्‌ ॥१३॥

॥ श्री मद्ध्यात्मरामायणान्तर्गतं जटायुकृतं रामस्तोत्रम्‌ ॥