1. धर्म
  2. सण-उत्सव
  3. दीपावली
Written By

दीपज्योतिः प्रार्थना

deep dan
कल्याणानामाकरं कल्मषघ्नं
कम्राकारं कान्तिधूतान्धकारम् ।
सन्ध्यालक्ष्मीकण्ठसूत्रैकरत्नं
दीपज्योतिर्मङ्गलं नस्तनोतु ॥१॥
 
सायं भास्करविन्यस्तकिरणात् करभास्कर ।
दीपज्योतिर्नमस्तुभ्यं सुप्रभातं कुरुष्व मे ॥२॥
 
सर्वार्थदायकं सर्वमङ्गलापत्तिरूपकम् ।
दृष्टं प्रभातवेलायां दुःस्वप्नादिप्रशामकम् ॥३॥
 
सर्वमङ्गलजातानां आकरं ज्ञानदायकं ।
नमो मङ्गलरूपाय नमो ज्ञानस्वरूपिणे ।
नमो मोहविघाताय ज्योतिषे शंभुचक्षुषे ॥४॥