testwebdunia1
testwebdunia0
testwebdunia2
Widgets Magazine
Widgets Magazine

शिवमहिम्न स्तोत्र

वेबदुनिया|
श्री पुष्पदन्त उवाच-
महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।

अथवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्‌
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥१॥

अतीतः पन्थानं तब च महिमा वांगमनसयो-
रतद्व्‌यावुत्त्या यं चकितमभिधत्ते श्रुतिरपि ।

स कस्य स्तोत्व्यः कतिविधिगुणः कस्य विषयः
पदे त्वर्वाचीने पतित न मनःकस्य न वचः ॥२॥

धुस्फीता वाचः परममृतं निर्मितवत-
स्तव ब्रह्मन्‌ किं वागपि सुरगुरोर्विस्मयपदम्‌ ।

मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेस्मिन्त पुरमथन बुद्धिर्व्यवसिता ॥३॥

तवैश्वर्य यत्तज्जगदुदयरक्षाप्रलयकृत्‌
त्रयीवस्तु व्यस्तं तिसृषु गुण्तनुषु ।

अभव्यानामस्मिन्वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जड़धियाः ॥४॥

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च।

अतर्क्यश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्को ऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥५॥

अजन्मानो लोकाः किमवयववन्तोऽपि जगता-
मधिष्ठातारं किं भवधिरनादृत्य भवति ।

अनीशो वा कुर्याद्भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥६॥

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति चः

रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥७॥

महोक्षः खट्वांगं परशुरजिनं भस्मफणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम्‌ ।

सुरास्तांतामृद्धिं विदधति भवद्भू्र प्रणिहितां ।
नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥८॥

धु्रवं कश्चित्‌ सर्वं सकलमपरस्त्व धु्रवमिदं
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।

समस्तेऽप्येतस्मिन्‌ पुरमथन तैर्विस्मित इव
स्तुवन्‌ जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥९॥

तवैश्वर्य यत्नाद्यदुपरि विरिंचो हरिरधः
परिच्छेत्तुं यातावनलमनिलस्कन्धवपुषः

ततो भक्ति श्रद्धा भरगुरुगृणद्भ्‌यां गिरिश यत्‌
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥१०॥

अयत्नादासाद्य त्रिभुवनमवैरिव्यतिकरं
दशास्यो यद्वाहूनभूत रणकण्डूपरवशान्‌ ।

शिरः पद्मश्रेणीरचितचरणाम्भोरुहबलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्‌ ॥११॥

अमुष्य त्वत्सेवासमधिगतसारं भुजवन
बलात्‌ कैलासेऽसि त्वदधिवसतौ विक्रमयतः ।

अलभ्या पातालेऽप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः ॥१२॥

यदृद्धि सुत्राम्णो वरद परमोच्चैरपि सती-
मधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः ।

न तच्चित्रं तस्मिन्‌ वरिवसितरि त्वच्चरणयो-
र्नकस्याप्युन्नत्यैभवतिशिर सस्त्वय्यवनतिः ॥१३॥

अकाण्डब्रह्माण्ड क्षयचकितदेवासुरकृपा-
विधेयस्यासीद्यस्त्रिनयन विषं संहृतवतः ।

स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाध्यो भुवनभयभंगव्यसनिनः ॥१४॥

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।

स पश्यन्नीश त्वामितरसुरसाधारणमभूत्‌
स्मरः स्मर्त्तव्यात्मा नहि वशिषु पथ्यः परिभवः ॥१५॥

मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम्‌ ।

मुहुर्द्यौर्दोस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुतः ॥१६॥

वियद्वयापीतारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते

जगद्द्वीपाकारं जलधिवलयं तेन कृतमि-
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥१७॥

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथांगे चन्द्राकों रथचरण पाणिः शर इति ।

दिधक्षोस्ते कोयं त्रिपुरतृणमाडम्बरविधि-
विधेर्यः क्रीडन्त्यो न खलुपरतन्त्राः प्रभुधियः ॥१८॥

हरिस्ते साहस्रं कमलबलिमाधाय पदयो-
र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम्‌

गतो भवत्त्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहरजागति जगताम्‌ ॥१९॥

क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते

अतस्त्वां संप्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्ध्वा दृढ़परिकरः कर्मसु जनः ॥२०॥


यावर अधिक वाचा :