1. धर्म
  2. सण-उत्सव
  3. श्रीरामनवमी
Written By
Last Modified: शनिवार, 13 एप्रिल 2024 (19:33 IST)

अक्षररामायणम्

ॐ रामलक्ष्मणौ भ्रातरौ नमस्कृत्वा सितासितौ ।
वने तस्मिन् विचरन्तौ सीतां च जनकात्मजाम् ॥१॥
 
श्रीः धन्यं मंगल्यमायुष्यं अलक्ष्मीकलिनाशनम् ।
रामायणं प्रवक्ष्यामि मातृकाक्षरयोजितम् ॥२॥
 
अ अयोध्यधिपतेः पुत्राः चत्वारस्सूर्यवर्चसः ।
राम-लक्ष्मण-शत्रुघ्नाः भरतश्च महाबलः ॥३॥
 
आ आचारविनयोपेताः सत्यसन्धा दृढव्रताः ।
शूरास्सत्यप्रतिज्ञाश्च सर्वे दशरथात्मजाः ॥४॥
 
इ इङ्गितेन तु कैकेय्याः स्वपुत्रहितकाम्यया ।
दृढव्रतो राज्ञ इष्टो रामस्संप्रस्थितो वनम् ॥५॥
 
ई ईहितेनाभिषेकेन रामस्संप्रस्थितो वनम् ।
सीता चानुगता साध्वी लक्ष्मणश्च महाबलः ॥६॥
 
उ उपवासपरो रामः तपस्वी दण्डके वने ।
सभार्यस्सभ्रातृकश्च चचार मुनिभिस्स्तुतः ॥७॥
 
ऊ ऊनशूर्पणखादोषात् रामस्य च पराक्रमात् ।
तत्र पाराभवः कालो राक्षसानामुपस्थितः ॥८॥
 
ऊ२ ऊनस्तु रामवीर्येण रावणो नाम राक्षसः ।
तेन दुष्टात्मना सीता छलेनापहृता वने ॥९॥
 
ऋ ऋषिधर्मसमायुक्तं मारीचं नाम मातुलम् ।
आगम्य रावणः पापः ततस्तद्वाक्यमब्रवीत् ॥१०॥
 
ॠ कॄतिं कृत्वा छलेन त्वं दूरं गच्छ वनेषु मे ।
दशरथात्मजं हत्वाऽरामं तत्र करोम्यहम् ॥११॥
 
ॡ लोम्ना काञ्चनरूपेण मृगो भूत्वा स शृङ्गलृः ।
लोभयित्वा तु वैदेहीं व्यहरद् दण्डकावने ॥१२॥
 
ॡ सीतां कमलपत्राक्षीं उपासीनां वने तदा ।
ॡकारकुटिलो हृत्वा रावणोऽगान्नभस्तलम् ॥१३॥
 
ए एतस्मिन्नन्तरे गृध्रो जटायुर्नाम धार्मिकः ।
तेन ताभ्यां समाख्यातं सीतायाः परिमार्गणे ॥१४॥
 
ऐ ऐश्वर्य-मद-मत्तेन रावणेन खगाधिपम् ।
हत्वा तस्मिन् वने गृध्रं सीता लङ्कां प्रवेशिता ॥१५॥
 
ओ ओघशोकनिमग्नस्सः सीतावत्सलराघवः ।
कपिना हरिराज्येन सुग्रीवेण समागतः ॥१६॥
 
औ औषधं परमं प्राप्तः सुग्रीवो रामदर्शनात् ।
हत्वा च वालिनं रामः सुग्रीवं चाभिषेचयत् ॥१७॥
 
अम् महाकपिं हनूमन्तं सत्यसन्धं दृढव्रतम् ।
सुग्रीवः प्रेषयामास सीतायाः परिमार्गणे ॥१८॥
 
अः हनूमान् वानरश्रेष्ठो जाम्बवान् कृतनिश्चयः ।
तारेयः कपिभिस्सार्धं भ्रमन्तो दक्षिणां दिशम् ॥१९॥
 
क कथयन्तस्स्ववृत्तान्तं कुत्रचित् कालपर्ययात् ।
अलब्ध्वाऽन्तश्च वैदेहीं चक्रुः प्रायोपवेशनम् ॥२०॥
 
ख खगस्तु सिद्धकार्यार्थः सम्पातो नाम धार्मिकः ।
तेन तेषां समाख्यातं सीतायाः परिमार्गणे ॥२१॥
 
ग गत्वा पारं समुद्रस्य वेगेन गरुडो यथा ।
दृष्ट्वा लङ्कां च नगरीं सीतां च जनकात्मजाम् ॥२२॥
 
घ घनेऽशोकवने देशे समागम्य च मैथिलीम् ।
हनूमान् लब्धसन्देशो राक्षसान् विन्यसूदयत् ॥२३॥
 
ङ ङकारसदृशीं कृत्वा ललाटे भृकुटिं तथा ।
क्रुद्धेनेन्द्रजिता धीरो गृहीतो हनूमान् कपिः ॥२४॥
 
च चन्द्रमण्डलसंकाशं लांगुलं तस्य राक्षसाः ।
शुक्लैरावेष्टितं वस्त्रैः तैलाभ्यङ्गमदीपयन् ॥२५॥
 
छ छलयित्वा ततस्सर्वान् राक्षसान् विपुलो हरिः ।
लांगूलेन प्रदीप्तेन लंकामादीपयत् पुरीम् ॥२६॥
 
ज जलमध्ये स निर्वाप्य लाङ्गूलं प्लवगेश्वरः ।
कृतामयं पुरं दग्ध्वा पुनरागमनोत्सुकः ॥२७॥
 
झ झषालयं समुत्प्लुत्य हरिरुत्तम आगतः ।
सिद्धकार्योऽतित्वरितः प्रदेशं यत्र राघवः ॥२८॥
 
ञ ञकारवदनो भूत्वा हनूमान् स हरीश्वरः ।
न्यवेदयदशेषेण राघवाय महात्मने ॥२९॥
 
ट टकारसदृशं चापं सशरं रघुनन्दनः ।
गृहीत्वा प्रस्थितस्तूर्णं सीतायाः परिमार्गणे ॥३०॥
 
ठ ठकाराकारनेत्राणां हरीणामयुतव्रताः ।
सुग्रीवस्याग्रतो यान्ति प्रीताः कर्तव्यलालसाः ॥३१॥
 
ड डयन्त इव वेगेन गत्वा पारं महोदधेः ।
राघवश्शरमुद्यम्य पश्चात्तत्रोपयाचितः ॥३२॥
 
ढ ढकारसदृशीं कृत्वा ललाटे भ्रुकुटीं तदा ।
हनूमानग्रतो याति राघवस्य हिते रतः ॥३३॥
 
ण णकारसदृशैः पद्मैः प्राञ्जलिः प्रत्युपस्थितः ।
उवाच सागरो रामं सेतुं मम जले कुरु ॥३४॥
 
त तस्य तद्वचनं श्रुत्वा सुग्रीवो नळमब्रवीत् ।
नळ ! भद्रं कुरुष्व त्वं सेतुं तत्र महार्णवे ॥३५॥
 
थ स्थूलं मृष्टोपमं दिव्यं विश्वकर्मसुतो नलः ।
चकार सेतुं धर्मात्मा सागरे मकरालये ॥३६॥
 
द दशयोजनविस्तीर्णं आयतं शतयोजनम् ।
येन वानरसेनाऽगात् समुत्पत्य महोदधिम् ॥३७॥
 
ध धनुर्वीर्यं समाश्रित्य राघवस्सह वानरैः ।
राक्षसान् योधयामास क्रोधसंरक्तलोचनः ॥३८॥
 
न नगर्यां मोघयुद्धायां रावणस्सह राक्षसैः ।
ततो द्वाराद् विनिष्क्रम्य चकारायोधनं महत् ॥३९॥
 
प पनसश्शरभो मैन्दो नीलो मारुतिरङ्गदः ।
नानावृक्षैश्शिलाभिश्च राक्षसान् विन्यसूदयन् ॥४०॥
 
फ फलितैः पादपैः कूले रोषिताश्शक्तितोमरैः ।
राक्षसाः खण्डनं चक्रुः वानराणां चमूमुखे ॥४१॥
 
ब बलवान् राघवश्श्रीमान् दशग्रीवं जघान सः ।
निहतं रावणं दृष्ट्वा विभीषणमथाब्रवीत् ॥४२॥
 
भ भक्तोसि मयि रक्षेन्द्र धार्मिकश्चापि सुव्रतः ।
अराक्षसमिदं कर्म कृतं तुष्टोऽस्मि ते विभो ! ॥४३॥
 
म मया दत्तं राज्यमिदं भुङ्क्ष्व पूलस्त्यनन्दन ! ।
सपुत्रभृत्यानुचरो भुङ्क्ष्व राज्यमकण्टकम् ॥४४॥
 
य यदर्थमयमारम्भः कृतो मे राक्षसेश्वर ।
तामहं द्रष्टुमिच्छामि गच्छ त्वं सहलक्ष्मणः ॥४५॥
 
र रक्तः प्रियहिते युक्तो लक्ष्मणेन विभीषणः ।
आरोचयच्च वैदेहीं काकुत्स्थाय महात्मने ॥४६॥
 
ल लङ्कां प्रविश्य नगरीं ददर्श जनकात्मजाम् ।
कृशां विवर्णां मलिनां दर्शयामास सुप्रियाम् ॥४७॥
 
व वरारोहां तदा दृष्ट्वा रामश्चिन्तासमन्वितः ।
अग्नौ विशुद्धामादाय पुष्पकेण ययौ ततः ॥४८॥
 
श शत्रून् हत्वाऽतिवेगेन पूर्वमागम्य राघवः ।
नन्दिग्रामे समादाय भरतं मित्रवत्सलम् ॥४९॥
 
ष षाड्गुण्य सुगतिश्श्रीमान् राघवस्सह सीतया ।
सङ्गतो भ्रातृभिस्सार्धं मातृभिस्स समागतः ॥५०॥
 
स समेत्य हृष्टहृदयः पौरजानपदैस्सह ।
गवां शतसहस्राणि ब्राह्मणेभ्यः प्रदत्तवान् ॥५१॥
 
ह हतशत्रुर्महेन्द्राण्या शतक्रतुरिवापरः ।
शतं वर्षसहस्राणां रामो राज्यमवासयत् ॥५२॥
--------------------
अनुबन्धः
 
क्ष क्षत्रं ब्रह्माच्युतं जीयात् जीवनं जगतां परम् ।
ज्ञानानन्दमयं ज्योतिः ईळे तन्मातृकाक्षरम् ॥१॥
 
सपञ्चशतसाहस्रसंवत्सरसनातनम् ।
प्राङ्मातृकाक्षरैश्श्लोकैः सार्धपञ्चाशतां स्थितम् ॥२॥
 
बलिद्वीपान्तरे लब्धं जानकीकविनिर्मितम् ।
रामेण संस्कृतं जीयात् श्रीरामायणमक्षरम् ॥३॥
 
इदं बरोडानगरे राज्ञा मुद्रापितं पुरा ।
स्वीकृतं बालबोधार्थं बालिद्वीपप्रबन्धगम् ॥४॥
 
नष्टवर्ण-विसंवादं शमयन् वर्णसङ्करम् ।
ऊप्लुतं ॡविकाराङ्कं अभेदं रलयोदशन् ॥५॥
 
व्युदस्यन् क्वचिदेवात्र श्लोकलक्षणभञ्जनम् ।
ओं श्रीमदक्षरं रामायणमित्यभिधां दिशन् ॥६॥
 
प्रथमाक्षरयोगेन मातृकाक्षरयोजनात् ।
षष्टिवर्णपरीवर्तात् नवत्यक्षरयोजनात् ॥७॥
 
तत्र तत्र च संरक्षन् साभिप्रायं वचः कवेः ।
अष्टश्लोकीं ततः कुर्वन् रामस्संस्कृतवानिदम् ॥८॥
 
शुभमस्तु ॥