1. धर्म
  2. सण-उत्सव
  3. श्रीरामनवमी
Written By
Last Modified: रविवार, 14 एप्रिल 2024 (04:00 IST)

श्रीरामाष्टकम्

कृतार्तदेववंदनं दिनेशवंशनंदनम् । सुशोभिभालनंदनं नमामि राममीश्‍वरम् ॥ १ ॥
मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् । महाधनुर्विदारकं नमाभि राममीश्‍वरम् ॥ २ ॥
स्वतातवाक्यकारिणं तपोवने विहारिणम् । करुषुचापधारिणं नमामि राममीश्‍वरम् ॥ ३ ॥
कुरङ्गमुक्तसायकं जटायुमोक्षदायकम् । प्रविद्धकीशनायकं नमामि राममीश्‍वरम् ॥ ४ ॥
प्लवंगसंघसंमतिं निबद्धनिम्नगापतिम् । दशास्यवंशसंक्षतिं नमामि राममीश्‍वरम् ॥ ५ ॥
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् । स्वबंधुशोककर्षणं नमामि राममीश्‍वरम् ॥ ६ ॥
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् । कृतास्तमोहलक्षणं नमामि राममीश्‍वरम् ॥ ७ ॥
ह्रताखिलाचलाभरं स्वधामनीतनागरम् । जगत्तमोदिवाकरं नमामि राममीश्‍वरम् ॥ ८ ॥
इदं समाहितात्मना नरो रघूत्तमाष्टकम् । पठन्निरन्तरं भयं भवोद्भवं न विंदते ॥ ९ ॥
इति श्रीपरमहंसस्वामिब्रह्मानंदविरचितं श्रीरामाष्टकं संपूर्णम् ।
 
*******************
 
भजे विशेषसुन्दरं समस्तपापखण्डनम् । स्वभक्तचित्तरञ्जनं सदैव राममद्वयम् ॥ १ ॥
जटाकलापशोभितं समस्तपापनाशकम् । स्वभक्तभीतिभंजनं भजे ह राममद्वयम् ॥ २ ॥
निजस्वरूपबोधकं कृपाकरं भवापहम् । समं शिवं निरंजनं भजे ह राममद्वयम् ॥ ३ ॥
सदाप्रञ्चकल्पितं ह्यनामरूपवास्तवम् । निराकृतिं निरामयं भजे ह राममद्वयम् ॥ ४ ॥
निष्प्रपञ्चनिर्विकल्पनिर्मलं निरामयम् ॥ चिदेकरूपसंततं भजे ह राममद्वयम् ॥ ५ ॥
भवाब्धिपोतरूपकं ह्यशेषदेहकल्पितम् । गुणाकरं कृपाकरं भजे ह राममद्वयम् ॥ ६ ॥
महावाक्यबोधकैर्विराजमनवाक्पदैः । परब्रह्म व्यापकं भजे ह राममद्वयम् ॥ ७ ॥
शिवप्रदं सुखप्रदं भवच्छिदं भ्रमापहम् । विराजमानदैशिकं भजे ह राममद्वयम् ॥ ८ ॥
रामाष्टकं पठति यः सुकरं सुपुण्यं व्यासेन भाषितमिदं श्रृणुते मनुष्यः ।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्ति सम्प्राप्य देहविलये लभते च मोक्षम् ॥ ९ ॥
इति श्रीव्यासविरचितं रामाष्टकं संपूर्णम् ।