- धर्म
- सण-उत्सव
- श्रीरामनवमी
इन्द्रकृतं रामस्तोत्रम्
इन्द्र उवाचः
भजेऽहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिघानम् ।
भवानीहृदा भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥१॥
सुरानीकदुःखौघनाशैकहेतुं नराकारदेहं निराकारमीडयम् ।
परेशं परानन्दरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥२॥
प्रपन्नाखिलानन्ददोहं प्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम् ।
तपोयोगयोगीशभावानुभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥३॥
सदा भोगाभाजां सुदूरे विभातं सदा योगभाजामदूरे विभातम् ।
चिदानन्द कन्दं सदा राघवेशं विदेहात्मजानन्दरूपं प्रपद्ये ॥४॥
महायोगमायाविशेषानुयुक्तो विभासीश लीलानराकारवृत्तिः ।
त्वदानन्दलीलाकथापूर्णकर्णाः सदानन्दरूपाभवन्तीह लोके ॥५॥
अहं मानपानाभिमत्तप्रमत्तो न वेदाखिलेशाभिमानाभिमानः ।
इदानीं भवत्पादपद्मप्रसादात्त्रिलोकाधिपत्याभिमानो विनष्टः ॥६॥
स्फुरद्रत्नकेयूरहाराभिरामं धराभारभूतासुरानीकदावम् ।
शरच्चन्द्रवक्त्रं लसत्पद्मनेत्रं दुरावारपारं भजे राघवेशम् ॥७॥
सुराधीशनीलाभ्रनीलांगकान्तिं विराधादिरक्षोवघाल्लोकशान्तिम् ।
किरीटादिशोभं पुरारातिलाभं भजे रामचन्द्रं रघूणामधीशम् ॥८॥
लस-चन्द्रकोटिप्रकाशादिपीठे समासीनमेकं समाधाय सीताम् ॥
स्फुरद्धेमवर्णां तडित्पुंजभासां भजे रामचन्द्रं निवृत्तार्तितन्द्रम् ॥९॥
॥ इति श्रीमदध्यात्मरामायणे इन्द्रकृतं रामस्तोत्रं सम्पूर्णम् ॥