मनीषिण ऊचुः -
उपेक्ष्य स खलः कस्माच्छिवं पुण्यपुरस्थितम् ।
वैराटमेव विषयं ययौ सेनासमन्वितः ॥१॥
कवींद्र उवाच -
साहंकारश्शिवं जेतुं स कालयवनद्युतिः ।
यवनोऽफजलस्तूर्णंझ प्रस्थितः स्वामिशासनात् ॥२॥
वैराटमेव विषयं प्राविशद्येन हेतुना ।
तमहं संप्रवक्ष्यामि शृणुध्वं भो मनीषिणः ॥३॥
निगृह्य बाजराजं तं कृष्णराजं च दुर्मदम् ।
जनकं च तयोश्चंद्रराजमाजौ महैजसम् ॥४॥
अव्यक्तवर्तनीयुक्ताः सह्यपर्यंतवर्तिनीम् ।
अटवीप्रायविषयां महादुर्गसमाश्रयाम् ॥५॥
उनिद्रसैनिकोदग्रामद्रिप्राकारमध्यगाम् ।
जयवल्लीं नाम पुरीं अग्रहीद्दुर्ग्रहां शिवः ॥६॥
ये येऽत्र चंद्रराजस्य सहायाश्च सनाभयः ।
तांस्तानशातयद्वीरः शिवः शक्तिमतां वरः ॥७॥
तदा प्रतापवर्मायश्चंद्रयाजस्य बांधवः ।
पलायितश्शिवभयाद्येदिलं प्रत्यपद्यत ॥८॥
चंद्रराजपदाकांक्षी मंत्रविन्मंत्रिभिर्युतम् ।
येदिलं प्रीणयामास चिरं स परिचर्यया ॥९॥
तं देशं चंद्रराजस्य महावनसमाश्रयम् ।
तस्मादाच्छिद्य नृपतेर्दास्यामि भवते ध्रुवम् ॥१०॥
येदिलस्येति वचसा तदा सोऽपहृतव्यथः ।
चकाराफजलस्याभिक्रमकर्म सहायताम् ॥११॥
ततोऽभिमानिना तेन चंद्रराजसनाभिना ।
भेदं निवेद्याफजलो वैराटं समनीयत ॥१२॥
जयवल्ली वशा यस्य वैराटं तस्य सर्वथा ।
तथा सह्याद्रिरखिलः सांतरीपश्च सागरः ॥१३॥
इति मत्वा स यवनस्तामेवादातुमादितः ।
समुद्यतो महाबाहुर्द्रुतं वैराटमाययौ ॥१४॥
ततस्समेत्य सैन्येन वैराटं राष्ट्रमास्थिते ।
यवनेऽफजले तूर्णं जयवल्लीं जिघृक्षति ॥१५॥
शिवराजः कृती तत्र प्रतीकारपरायणः ।
प्रभुः प्रभूतदर्पत्वादिदमात्मन्यचिंतयत् ॥१६॥
येदिलेन विसृष्टोऽसौ मयि रुष्टेन मानिना ।
अरिष्यत्यात्मसदृशं पौरुषं पौरुषक्रमः ॥१७॥
स एष यवनो यस्य दुर्नयेन गरीयसा ।
अहो कलियुगस्यास्य माहात्म्यमुपचीयते ॥१८॥
दुर्नयेन भृशं येन निशुंभसमतेजसा ।
अवाज्ञायत वै देवी तुलजापुरवासिनी ॥१९॥
यः सदैवानस्तिदयो रोषणो राशिरंहसाम् ।
द्विजानक्षिगतानक्षिगतानिव जिघांसति ॥२०॥
पर्वतः पातकस्येव सर्वतः सुमदोद्धतः ।
पद्धतिं वर्णधर्माणां रोध्दुं यो हि व्यवस्थितः ॥२१॥
निषेद्धा सर्वधर्माणामधर्माणां विवर्धकः ।
स मया हंत हंतव्यः स मया समुपागतः ॥२२॥
हविःप्रकृतयो गावः पयसा सर्पिषापि च ।
विधये सप्ततंतूनां विधिना विहिता भुवि ॥२३॥
तासामसौ तामसात्मा हंता हंत दिने दिने ।
विपर्यासयितुं धर्ममशेषमपि वांछति ॥२४॥
इयं वसुंधरा देवी धर्मेण खलु धार्यते ।
ध्रुवं स धार्यते देवैस्तेऽध्यार्यंत द्विजातिभिः ॥२५॥
अतस्सर्वस्य लोकस्य मूलमेते द्विजातयः ।
पालनीयाः प्रयत्नेन पूजनीयाश्च सर्वदा ॥२६॥
सुराणां भूसुराणांच सुरभीणां च पालनम् ।
विदधाम्यहमेवाद्धा भूत्वा भूत्वा युगे युगे ॥२७॥
येनोभोनिधिमाविश्य बिभ्रता मीनरूपताम् ।
हतः शंखासुरः संख्ये श्रुतयश्चाप्युपाह्लताः ॥२८॥
अधारिमंदरो येन पृष्ठे स्वे कमठात्मना ।
तथाचाधारतामेत्य व्यधायि वसुधा स्थिरा ॥२९॥
उधृत्य वसुधां सद्यः समुद्राद्दंष्ट्रया स्वया ।
येन वाराहरूपेण हिरण्याक्षो निषूदितः ॥३०॥
हरेर्यवीयसा येन हरिणा ह्रस्वरूपिणा ।
अलं छलं कलयता बलिर्नीतो रसातलम् ॥३१॥
आविर्भूय सभास्तंभान्नरसिंहत्वमीयुषा ।
व्यदारि करजैर्यैन हिरण्यकशिपोरुरः ॥३२॥
भृगुवंशावतंसेन रैणुकेयेन येन वै ।
कार्तवीर्यं निहत्याजौ कृता निःक्षत्रिया मही ॥३३॥
येन दाशरथीभूय निबद्धांभोधिसेतुना ।
दशकंठशिरः श्रेणि शरेणैकेन पातिता ॥३४॥
वृष्णिवंशावतंसेन येन शूरेण शौरिणा ।
धर्मं व्यवस्थापयता हताः कंसादयः खलाः ॥३५॥
स विष्णुस्सर्वदेवानां सर्वस्वमहमीश्वरः ।
हर्तुं भारमिमं भूमेराविर्भूतोस्मि भूतले ॥३६॥
यवनानाममी वंशाः सर्वेप्यंशास्सुरद्विषाम् ।
जगतीं निजधर्मेण निमज्जयितुमुद्यताः ॥३७॥
तस्मादेतान् हनिष्यामि दानवान् यवनाकृतीन् ।
प्रथयिष्यामि धर्मस्य पंथानमकुतोभयम् ॥३८॥
जयवल्लीवनं घोरं गृहं कंठीरवस्य मे ।
विशन्निधनमागंता द्विषन्नफजलो गजः ॥३९॥
समुत्पतन्पक्षबलादलक्षितनिजांतकः ।
पतंग इव मां लब्ध्वा स वै निधनमेष्यति ॥४०॥
इति चित्ते विनिश्चित्य स शिवः पुरुषोत्तमः ।
संदिश्य निजसेनान्यं रिपुराष्ट्रविकर्षणे ॥४१॥
नरानधिकृतास्तत्तत्कार्येष्ववहितान् हितान् ।
नियुज्य निजराष्ट्रस्य दुर्गाणां चाभिगुप्तये ॥४२॥
स्वयं षाड्गुण्यनिपुणः परवीरविमर्दनः ।
परीतः पत्तिसैन्येन जयवल्लीमुपागमत् ॥४३॥
अथ गुप्तेंगिताकारमपारभुजपौरुषम् ।
प्रतीतमन्यैरजितं शक्तित्रयसमन्वितम्॥४४॥
जयवल्लीमधिष्ठाय स्वयं योध्दुमवस्थितम् ।
सन्नद्धानीकनिवहं निशम्याफजलश्शिवम् ॥४५॥
व्यसृजद्वाचिकं तस्मै सर्वार्थविदुषे यथा ।
तथा निशम्यतां सर्वं विबुधां कथयामि वः ॥४६॥
अफजल उवाच
विदधाति यदौद्धत्यं भवानद्य पदे पदे ।
तद्येदिलस्य हृदये भजते शल्यरूपताम् ॥४७॥
गते निजामे विलयं गमितः स्वीयतां स्वयम् ।
येदिलेन वितीर्णोयस्ताम्रेभ्यः संधिकाम्यया ॥४८॥
स एष विषयस्तेषां गिरिदुर्गसमाश्रयः ।
गृहीतस्संगृहीतश्च शाहराजात्मज त्वया ॥४९॥
भवता सततं लाभवता तत्र पदे पदे ।
गृहीतविषयः क्रुद्धो रुद्धो राजपुरीश्वरः ॥५०॥
त्वयेदं चंडराजस्य गाढमन्यदुरासदम् ।
अभिक्रम्य च विक्रम्य प्राज्यं राज्यं हृतं हठात् ॥५१॥
त्वया गृहीत्वा कल्याणं तथा भीमपुरीमपि ।
यवनानां महासिद्धिनिलयाः किल पातिताः ॥५२॥
तुभ्यं कुप्यंति तेऽद्यापि यवनाः पवनाशनाः ।
अपहृत्यापि सर्वस्वं कृता येषां विडंबना ॥५३॥
निगृह्य यवनाचार्यानविचार्यात्मनो बलम् ।
प्रतिबध्नास्यविद्धानामध्वानमकुतोभयः ॥५४॥
यच्चक्रवर्तिचिह्नानि धत्से स्वयमभीतवत् ।
अध्यारोहसि च स्वर्णसिंहासनमनीतिमान् ॥५५॥
स्वयमेवानुगृह्णासि निगृह्णासि च मानवान् ।
अहो आत्मवशोगम्यान्ननमस्याभिमानवान् ॥५६॥
दुर्निवारगतिर्यस्माद्यस्मात् कस्माद्विभेषिन ।
तस्मादहं प्रेषितोस्मि येदिनेल प्रतापिता ॥५७॥
येइलस्य नियोगाद्यन्मयासह समागतम् ।
उद्योजयति सद्यो मां तदिदं षड्विधं बलम् ॥५८॥
मुसेखानादयो ह्येते त्वयासह युयुत्सवः ।
प्रोत्साहयंति मामत्र जयवल्लीं जिघृक्षवः ॥५९॥
तदद्यमन्नियोगेन संधिमेव महीपते ।
विधेहि देहि सकलानचलानचलामपि ॥६०॥
सिंहं लोहं महांतं च प्रबलं च शिलोच्चयम् ।
पुरंदरं गिरिं तद्वत् पुरीं चक्रावतीमपि ॥६१॥
विषयं च तथा नीराभीमरथ्यंतराश्रयम् ।
प्रणिपत्य प्रयच्छाशु दिल्लींद्रायामितौजसे ॥६२॥
या चंद्रराजादाच्छिद्य गृहीतानिग्रहात्त्वया ।
जयवल्लीमिमामल्लीशाहस्त्वां तां हि याचते ॥६३॥
उपनतमहितस्य पत्रलेखं
रहसि निशम्य तमेतमेकवीरः ।
स किल सकलराजलोकरत्नं
न्यधित निजे हृदि कंचिदेव यत्नम् ॥६४॥
स्मृत्वा मंत्रमथेप्सिताय जगतः सर्वस्य सर्वोत्तरं
यत्संप्रेषितवानसौ नरपतिः पत्रस्य तस्योत्तरम् ॥
यच्चागादभिमानवानफजलः सज्जस्य तस्याटवीं
तत् सर्वं कथयामि वः सुमतयः श्रेयस्करं श्रूयताम् ॥६५॥
इत्यनुपुराणे सूर्यवंशे कवींद्रपरमानंदप्रकाशितायां शतसाहस्र्यां संहितायां संदेशदेशनाम अष्टादशोऽध्यायः ॥१८॥