शुक्रवार, 10 जानेवारी 2025
  1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
Written By
Last Modified: गुरूवार, 9 जानेवारी 2025 (11:51 IST)

श्री कृष्ण कवच

krishna
प्रणम्य देवं विप्रेशं प्रणम्य च सरस्वतीम् ।
प्रणम्य च मुनीन् सर्वान् सर्वशास्त्रविशारदान् ॥ १॥
श्रीकृष्णकवचं वक्ष्ये श्रीकीर्तिविजयप्रदम् ।
कान्तारे पथि दुर्गे च सदा रक्षाकरं नृणाम्  ॥ २॥
स्मृत्वा नीलाम्बुदश्यामं नीलकुञ्चितकुन्तलम् ।
बर्हिपिञ्छलसन्मौलिं शरच्चन्द्रनिभाननम् ॥ ३॥
राजीवलोचनं राजद्वेणुना भूषिताधरम् ।
दीर्घपीनमहाबाहुं श्रीवत्साङ्कितवक्षसम् ॥ ४॥
भूभारहरणोद्युक्तं कृष्णं गीर्वाणवन्दितम् ।
निष्कलं देवदेवेशं नारदादिभिरर्चितम् ॥ ५॥
नारायणं जगन्नाथं मन्दस्मितविराजितम् ।
जपेदेवमिमं भक्त्या मन्त्रं सर्वार्थसिद्धये   ॥ ६॥
सरर्वदोषहरं पुण्यं सकलव्याधिनाशनम् ।
वसुदेवसुतः पातु मूर्धानं मम सरर्वदा  ॥ ७॥
ललाटं देवकीसूनुः भ्रूयुग्मं नन्दनन्दनः ।
नयनौ पूतनाहन्ता नासां शकटमर्द्दनः  ॥ ८॥
यमलार्जुनहृत्कर्णौकि कपोलौ नगमर्द्दनः ।
दन्तान् गोपालकः पोतु जिह्वां हय्यङ्गवीनभुक् ॥ ९॥
ओष्ठं धेनुकजित्पायादधरं केशिनाशनः ।
चिबुकं पातु गोविन्दो बलदेवानुजो मुखम् ॥ १०॥
अक्रूरसहितः कण्ठं कक्षौ दन्तिवरान्तकः ।
भुजौ चाणूरहारिर्मे करौ कंसनिषूदनः ॥ ११॥
वक्षो लक्ष्मीपतिः पातु हृदयं जगदीश्वरः ।
उदरं मधुरानाथो नाभिं द्वारवतीपतिः ॥ १२॥
रुग्मिणीवल्लभः पृष्ठं जघनं शिशुपालहा ।
ऊरू पाण्डवदूतो मे जानुनी पार्थसारथिः  ॥ १३॥
विश्वरूपधरो जङ्घे प्रपदे भूमिभारहृत् ।
चरणौ यादवः पातु पातु विघ्नोऽखिलं वपुः ॥ १४॥
दिवा पायाज्जगन्नाथो रात्रौ नारायणः स्वयम् ।
सरर्वकालमुपासीरिस्सर्वकामार्थसिद्धये ॥ १५॥
इदं कृष्णबलोपेतं यः पठेत् कवचं नरः ।
सर्वदाऽऽर्तिभयान्मुक्तः कृष्णभक्तिं समाप्नुयात् ॥ १६॥
इति श्रीकृष्णकवचं सम्पूर्णम् ।