Dharma Sangrah

शिवभारत अध्याय बारावा

Updated: सोमवार, 26 ऑगस्ट 2024 (16:36 IST)
खण्डशः खण्डशः क्रोधात् तेन भल्लभृता कृताः ॥३१॥
कुप्यता पविहस्तेन पर्वता इव पातिताः ।
प्रतिप्रतीकं त्रुट्यन्तः पेतुरुर्ब्यामनेकशः ॥३२॥
रोषदष्टाधरैर्द्धीरैरायोधनपरैः परैः ।
प्रसभं प्रहृतोप्येष पौरुषं स्वमदर्शयत् ॥३३॥
स ततः स्वेन भल्लेन निशितेनायतेन च ।
जहार कस्यचित्तस्य शिरोऽद्रिशिखिरोपमम् ॥३४॥
तथैव कस्यचिद्वक्षः शिलातलमिवायतम् ।
अभेद्यमपि संरंभात् बिभेद बलिनां वरः ॥३५॥
सभल्लफलकाघात पतिताश्वस्य कस्यचित् ।
कुंभि कुंभोपमं सद्यः स्कंधकूटमपातयत् ॥३६॥
कस्यचिच्चरणद्वंद्वं वलग्नं चापि कस्यचित् ।
कस्यचित् कंठनालंच चिच्छेद किल खंडजित् ॥३७॥
उत्पत्योप्तत्य भल्लेन पातायन् परितः परान् ।
एकोपि पाटलः प्राप तत्र चित्रमनेकताम् ॥३८॥
अभियातारि संघात शातहेति शताहतः ।
स भिन्नवारबाणोरिवारणान् प्रत्यवारयत् ॥३९॥
सविपक्षविनिर्मुक्तविशिखक्षतविग्रहः ।
शुशुभे लोहितार्द्रांगो लोहितांग इव ग्रहः ॥४०॥
युध्यतः पाटलस्यास्य दृष्ट्वा पाटवमद्भुतम् ।
क्ष्वेडितास्फोटितं चक्रुर्बाजराजादयो भटाः ॥४१॥
परमानजिता मानजिता भल्लभृता युधि ।
भिन्नभल्लस्य जग्राह करे क्रूरां कृपाणिकाम् ॥४२॥
कृतहस्तं खङ्गहस्तं ततस्तं प्रेक्ष्यसस्मितः ।
बाजराजो महाबाहुराजुहाव महाहवे ॥४३॥
कालदंडकरालेन करवालेन पाटलः ।
तदा प्रहारमकरोत् बालराजस्य वक्षसि ॥४४॥
तेनाघातेन महता प्रहतायतवक्षसि ।
बाजराजे महाबाहौ मोहमुद्रामुपेयुषि ॥४५॥
अंबुजित् परिघं घोरं मानजिन्मुद्गरं तथा ।
मल्लजिच्च सितां शक्तिं शिखां शेखावतीमिव ॥४६॥
बलजित् भल्लमतुलं जसवन्तश्च सायकम् ।
खंडजिच्च प्रचिक्षेप खङ्गं खंडजितं प्रति ॥४७॥
स भीमेन समस्तानि समस्तानि समंततः ।
आपतंत्यायुधीयानामायुधानि समंततः ॥४८॥
द्विधा चक्रेऽसिना स्वेन कानिचिच्च त्रिधा त्रिधा ।
कानिचित् पंचधा चापि नवधा दशधा तथा ॥४९॥
बाजराजः क्षणं मूर्छां क्षणं सर्वविलक्षणम् ।
अनुभूय स्वयं भूयः प्रत्ययुध्यत पाटलम् ॥५०॥
अथ स्वया प्रतिभया परप्रतिभयाकृतिम् ।
बाजराजो गदामुर्वीं पातयामास पाटले ॥५१॥
क्रूरया कार्तिकेयस्य शक्त्येव क्रौंचपर्वते ।
बाजराजस्य गदया तया भित्वा निपातिते ॥५२॥
त्रिदशस्यंदनारूढे सुभटे खंडपाटले ।
हन्यमानेन सैन्येन स्वसैन्ये चाति - विव्हले ॥५३॥
हतसंबध्दशीर्षण्यस्रस्तोष्णीषपटांचलः ।
चर्मवान् वर्मवानुच्चः शरासनवतां वरः ॥५४॥
कुन्तयोधी मंडलाग्रमंडलीकारपारगः ।
शाहराजो महाबाहुर्महाराजो महाहवः ॥५५॥
अधिरुह्य महावाहमंबुवाहमिवांबुदः ।
सपदि प्रतिजग्राह बाजराजं जिघांसया ॥५६॥
आभीरराजो दशजिद्दशदिग्जकारकः ।
योगजिच्च धनुःकाण्डधरो भाण्डकरान्वयः ॥५७॥
गुंजावटकरः सन्तो मेघजिट्टक्कुरस्तथा ।
भ्राता त्र्यंबकराजश्च दत्तराजश्च दर्पितः ॥५८॥
अन्ये‍ऽप्यनीकपतयः शाहराजं समंततः ।
जुगुपुः शतशस्तत्र पृष्ठगोपाश्च भूरिशः ॥५९॥
तमथाकृष्टकोदंडटंकारोट्टंकितांबरम् ।
वीरं कण्ठीरवग्रीवं वृषस्कंन्धं महौजसम् ॥६०॥
दत्तत्र्यंबकराजाभ्यां भ्रातृभ्यां परिवारितम् ।
सैनिकैः स्वैः परिवृत्तं सुरैरिव शतक्रतुम् ॥६१॥
मरुता प्रतिकूलेन सपदि प्रतिवारितम् ।
ददृशुश्शाहनृपतिं बाजराजादयो नृपाः ॥६२॥
शाहराजोभ्यभिप्रेक्ष्य प्रतिपक्षानुदायुधान् ।
नादयन् मेहिनीं द्यां च सिंहनादमनीनदत् ॥६३॥
शाहस्य तेन नादेन पूरिताः ककुभोऽभवन् ।
प्रतिदध्या न चांभोधिः सपदि क्षुभितोऽभवत् ॥६४॥
न सेहे बाजराजेन शाहराजस्य गर्जितम् ।
प्रमत्तेन द्विपेनेव प्रमत्तद्विपबृंहितम् ॥६५॥
अथ घोरपटैर्घोरवज्रनिर्घोषघोषिभिः ।
अभ्येत्य ज्ञापितस्वस्वनामभिः प्रौढधामभिः ॥६६॥
चारुचर्मभिरामुक्तवर्मभिः कृतकर्मभिः ।
परिवव्रेतरां शाहस्तोयदैरिव चंद्रमाः ॥६७॥
तदा त्र्यंबकदत्ताह्वौ राजानौ दशजित्तथा ।
मेघजिच्चमहाबाहुर्महासेनसमप्रभः ॥६८॥
योगजिच्च तथान्येऽपि गुंजावटकरादयः ।
प्रत्यगृह्णन् प्रतिभटान् शाहराजपरीप्सया ॥६९॥
ततख्यंबकराजेन चापहस्तेन मानजित् ।
खलखंडजिता दत्तराजेनापि च खंडजित् ॥७०॥
प्रतिमल्लजिता योगजिता च सहमल्लजित् ।
तथा मेघजिता मेघनादसाम्यभृतांबुजित् ॥७१॥
युयुधे शाहराजेन बाजराजः पराक्रमी ।
अन्ये चान्यैश्च बहवो बहुभिर्दीर्घबाहुभिः ॥७२॥
टंकार्य चापमन्योन्यं जीगीषंतो मदोत्कटाः ।
रणरंगे नटंति स्म वटा इव महाभटाः ॥७३॥
पत्तिभिः पत्तयस्तत्र सप्तिभिस्सप्तयस्तथा ।
द्विपैर्द्विपाश्च बहवः ससंजुर्विजिगीषया ॥७४॥
शक्तिभिश्शक्तयो गाढमुष्टिभिर्गाढमुष्टयः ।
परिघाः परिघैर्घोरैर्मुद्गरैर्मुद्गरास्तथा ॥७५॥
पट्टिशाः पट्टिशैस्तीव्रैस्तोमरैरपितोमराः ।
गदाभिश्च गदाश्चक्रैंश्चक्राणि च सहस्रशः ॥७६॥
सायकाः सायकैस्तीक्ष्णैः कटारैश्च कटारकाः ।
तमानीमभ्यहन्यंत भल्लैर्भल्लाश्च भूरिशः ॥७७॥
शिरांसि सशिरस्त्राणि सतनुत्राण्युरांसि च ।
पाणयस्सतलत्राश्च सकेयूराश्च बाहवः ॥७८॥
सपताको ध्वजश्चापि सशरं च शरासनम् ।
हयश्च सहयारोहः करी च सनियंतृकः ॥७९॥
इमानि द्विषदुन्मुक्तशस्त्रच्छिन्नान्यनेकशः ।
तदानीमपतन् भूमौ पक्षयोरुभयोरपि ॥८०॥
शरासनानि कर्षंतः सांगुलीयकपाणयः ।
पृथुस्कंधाः कबंधाश्च प्रत्यधावन्नितस्ततः ॥८१॥
यस्य येन शिरश्र्छिन्नं यद्यदंगमपात्यत ।
तस्य तत्तत्तदोत्पत्य बत तं प्रत्यधावत ॥८२॥
अथाश्वेभ्यः करिभ्यश्च नरेभ्यश्च शितैश्शरैः ।
कर्त्यमानशरीरेभ्यः प्रवृत्ते रुधिरह्रदे ॥८३॥
मज्जामांसवसामेदोमेदुरे मेदिनीतले ।
नटंतीभिः पिशाचीभिः प्रहृष्टे डाकिनीकुले ॥८४॥
तत्तत्पताकिनीपालकपालकृतकुंडले ।
भैरवीभिस्समं भूरिमत्ते भैरवमंडले ॥८५॥
चंडदीधितिभिर्वीरमुंडमालामनोहरे ।
भूतैस्समुदिते चातिमुदिते चंद्रशेखरे ॥८६॥
राज्ञा खंडजिता तत्र दत्तराजे विहस्तिते ।
बत त्र्यंबकराजे च राज्ञा मानजिता जिते ॥८७॥
तद्वदंबुजिदुन्मुक्त हेतिपातपराहते ।
भीते मेघजिति द्वी(?)ते दशजित्यपि विद्रुते ॥८८॥
अन्यस्मिन्नपि सैन्ये स्वे हीयमाने भयाकूले ।
कुंभोद्भवेन मुनिना पीयमान इवार्णवे ॥८९॥
तथा मल्लजितः काम्डकुलैर्भांडकरेर्दिते ।
शाहराजश्शितैर्बाणैर्बाजराजमवाकिरत् ॥९०॥
बाजराजस्तु विक्रांतस्तैर्नितांतशितैश्शरैः ।
शीर्यमाणशरीरोपि न मुमोह महोर्मिभिः ॥९१॥
ततस्स तत्र संप्रेक्ष्य प्रस्फुरद्वर्म सांतरम् ।
ताडयामास भल्लेन शाहराजभुजांतरम् ॥९२॥
कुशलो युद्धविद्यायां कुलिशाभेद्यविग्रहः ।
तेन मल्लाभिघातेन शाहराजो न विव्यथे ॥९३॥
अथ प्रकटितक्रोधैर्योधैर्मानजिदादिभिः ।
शरशक्तिगदाखङ्गभल्लाद्यायुधधारिभिः ॥९४॥
बाजराजं पालयद्भिर्दर्शयद्भिस्सपौरुषम् ।
परिवव्रे महाराजः शाहराजः पराक्रमी ॥९५॥
तत्र कालानलज्वालासमस्पर्शधरैश्शरैः ।
तापयामास तान् सर्वान् प्रतापी स महीपतिः ॥९६॥
तदानीं शाहराजेन शरैः स्वैः शकलीकृताः ।
स्रस्तबाहुलतास्तत्र स्रवल्लोहितलोहिताः ॥९७॥
चंडवाताहतास्सद्यः पुष्पिता इव किंशुका ।
शतशस्सैनिकाः पेतुः बाजराजस्य पश्यतः ॥९८॥
उत्पतत्तुरगारुढो यत्र यत्रोत्पपात सः ।
तत्र तत्र परित्रस्य प्रतिवीरास्सहस्रशः ॥९९॥
पर्वता इव संशीर्णाः पविपातपराहताः ।
समजायंत दशधा शतधा च सहस्रधा ॥१००॥
ततः परिचरं कश्चित् कश्चित् सहचरं पुनः ।
वर्म चाप्रतिमं कश्चित् कश्चिच्चर्म सचंद्रकम् ॥१०१॥
ततो घोरपटः कश्चिदिषुधिं च शरासनम् ।
चिच्छेद शाहराजस्य कश्चिच्च ध्वजमुन्नतम् ॥१०२॥
अथारिपातितापारहेतिपातपतापतान् ।
तूर्णमुत्पत्य तुरगादुरगारातिचेष्टिते ॥१०३॥
शराचितशरीरोत्थलोहितद्रवलोहिते ।
प्रभूतप्रधनोद्भूतपरिश्रमविमोहिते ॥१०४॥
महाराजे महाबाहौ परिरब्धमहीतले ।
क्ष्वेडितास्फोटितावेशपरे च परमंडले ॥१०५॥
हाहाकारस्तदात्युच्चैरभूद्भार्शबले बले ।
तत्र धर्मधनं धीरं धर्मराजसमश्रियम् ॥१०६॥
सर्वस्वमिव लोकस्य सर्वस्यापि समाश्रयम् ।
तं महीतलसंलग्नं मग्नं मोहमहोर्मिंषु ॥१०७॥
दैवाद्दिवस्तटाद्देवं दिवाकरमिव च्युतम् ।
रयाद्धयादवप्लुत्य बांधवत्वं प्रकाशयन् ॥१०८॥
फलकेन स्वकीयेन ररक्ष बलजिद्बली ।
अथ शाहं महाबाहुं बाजराजः स्मयं तथा ॥१०९॥
निश्वसंतं निजग्राह नागं जांगुलिको यथा ।
ततो हस्तिनमारोप्य नीयमानमरातिभिः ॥११०॥
श्रितमूर्छासुखं शुष्कमुखं मुद्रितचक्षुषम् ।
पंचाननमिवानीय पंचराभ्यंतरेऽर्पितम् ॥१११॥
निकृतं निकृतिज्ञेय मुस्तुफेन दुरात्मना ।
शाहभूभृतमालोक्य भृशमाचुक्रुशुर्जनाः ॥११२॥
प्यधत्त यवनः स्वेन कपटेन पटेन यम् ।
नयं न वेद तं विद्मः शाहं सर्वविदप्ययम् ॥११३॥
मुस्तुफः स्वामिकार्यार्थी पस्पर्श सुतमातशम् ।
अहो विश्रंभणायास्य ललंघे च स्वपुस्तकम् ॥११४॥
इति तं यवनं तत्र जगर्हे जनताभितः ।
स तु स्वस्वामिकार्यार्थी कृतकृत्योभवत्ततः ॥११५॥
न पल्याणं न तुरगो न करो न क्रमेलकः ।
नायुधं नायुधीयश्च न वाद्यं न च वादकः ॥११६॥
न मंचको न चोल्लोचो न पताका न च ध्वजः ।
न विक्रेयं न विक्रेता नेंधने न च कीलकः ॥११७॥
न कांडपटकस्त्यत्र न चासीत्पंटमंडपः ।
तथाभवत् क्षणार्धेन शाहस्य शिबिरं तदा ॥११८॥
अमीभिः संवर्तानलनिभबलैर्मुस्तुफमुखैः
चमूपालैः कालैरिव युधि निलिंपाधिपबलम् ।
अमुं शाहं साहंकृतिमितिनितान्तं नियमितं
स्वदूतेभ्यः श्रुत्वा महसि महमूदेन मुमुदे ॥११९॥
इत्यनुपुराने कवींन्द्रपरमानंदप्रकाशितायां संहितायां द्वादशोध्यायः ॥१२॥

सर्व पहा

आषाढी एकादशीच्या दिवशी 'या' ७ गोष्टी टाळाच; अन्यथा विठ्ठल पूजेचे फळ मिळणार नाही!

जळणाऱ्या नातेवाईकांपासून स्वतःचा बचाव कसा करावा? आचार्य चाणक्यांचे विचार जाणून घ्या

महाराष्ट्रातील सर्वात थंड गाव कोणतं? उत्तर ऐकून आश्चर्य वाटेल

वयाच्या ३५ नंतर मित्र अचानक कमी का होतात?

स्वयंपाकघरातील हा एक बदल वीजबिल कमी करू शकतो

सर्व पहा

तेनालीराम कहाणी : गोष्ट जादुई पाण्याची

आरोग्यासाठी अत्यंत गुणकारी आणि चवीला अप्रतिम असणारी 'जांभूळ स्मूदी'; एक उत्तम हेल्थ ड्रिंक

Ghost Lashes Trend डोळ्यांच्या मेकअपचा बदलता ट्रेंड: घरच्या घरी कसा मिळवाल 'घोस्ट लैशेज' लुक?

Lokmanya Bal Gangadhar Tilak Jayanti Abhivadan 2026 लोकमान्य बाळ गंगाधर टिळक जयंतीनिमित्त विनम्र अभिवादन

फक्त ३० सेकंदात ओळखा, समोरची व्यक्ती तुमच्यावर जळते का?

पुढील लेख
Show comments