Marathi Biodata Maker

शिवभारत अध्याय सतरावा

Updated: मंगळवार, 27 ऑगस्ट 2024 (12:33 IST)
यवनानवजानाति जाग्रदुग्रपराक्रमः ॥२१॥
आक्रम्य ताम्रवक्त्राणां नगराण्युरुविक्रमः ।
नगरप्रभृतीन्येष चण्डचण्डमदण्डयत् ॥२२॥
स्थैर्यं निजामराष्ट्रस्य गृहीतस्यापि यत्नतः ।
अपि दिल्लीपतिर्नैव मनुतेऽस्माद्विशंकितः ॥२३॥
पितामहेन मे पूर्वं पिता तस्य विवर्धितः ।
शाहराजो दुर्विनीतं तं न शिक्षयितुं क्षमः ॥२४॥
अयं विगृह्य पित्रा मे निगृहीतं प्रतापिना ।
शाहराजं महाबाहुर्बलनैव व्यमोचयत् ॥२५॥
नो दूयते परभयादयमल्पवया अपि ।
अतिक्रामति चाप्यस्मान् विस्मापकपराक्रमः ॥२६॥
दिने दिने वर्धमानः प्रतापेन सह श्रिया ।
अयमाश्रीयते भूपैराकांक्षितसमृद्धिभिः ॥२७॥
शनैः शनैरेष बली पदं कुर्वन् पुरः पुरः ।
अस्मद्राज्यं समाच्छिद्य करिष्यति किमात्मसात् ॥२८॥
तज्जयाय पुरा वीरान् यान्यान्प्रास्थापयं मुहुः ।
न प्राप्ताः पुनरावृत्तिं ते तं प्रप्य प्रतापिनम् ॥२९॥
निर्वाणमरिवीराणां कुर्वाणमकुतोभयम् ।
त्वां विना तस्य जेतारं नान्यं पश्यामि कंचन ॥३०॥
तस्मात्वमेव गत्वा तं कृतदुर्गपरिग्रहम् ।
सविग्रहं ग्रहमिव निगृह्यानय दुर्गहम् ॥३१॥
कवीन्द्र उवाच
एवमुक्तोऽतिविश्रंभादल्लीशाहेन मानिना ।
प्रोवाचाफजलः प्रीत्या प्रस्तुतार्थमयं वचः ॥३२॥
अफजल उवाच
विश्रंभेणापि च प्रेम्णा यदाज्ञापयति प्रभुः ।
तस्य कर्ता स एव स्यात् गुणीभूतस्तु किंकरः ॥३३॥
द्विषद्वर्गक्षयकरी जागर्ति किल या मयि ।
कार्यमादिशता साद्य शक्तिरुत्तेजिता त्वया ॥३४॥
उग्राय विग्रहायास्मै त्वया प्रेषयता ह्यमुम् ।
अवैम्यनुग्रहेणैष संगृहीतोऽनुगः स्वयम् ॥३५॥
कर्तव्यं भृत्यवर्गाय स्वामी चेन्नसमादिशेत् ।
अस्ति नास्तीति कस्तर्हि तस्य ज्ञास्यति पौरुषम् ॥३६॥
अहमद्धा भृशं बद्ध्वा स्पर्धाकरमहर्निशम् ।
तमन्तकमिवोद्वृत्तमानयिष्ये तवान्तिकम् ॥३७॥
प्रविश्य देशं कार्णाटं निर्जिता शतशो नृपाः ।
स जयस्तमनिर्जित्य जीवतो मे निरर्थकः ॥३८॥
कवीन्द्र उवाच
इत्युक्तवन्तमत्यर्थं समर्थबलदर्पितम् ।
कर्तुं प्रतिश्रुतं कर्म सद्य एव समुद्यतम् ॥३९॥
येदिलोऽफजलं तत्र प्रस्थापयितुमादृतः ।
तदा संभावयामास बहुभिः पारितोषिकैः ॥४०॥
ततः सरत्नपर्याणपृष्ठानुष्ट्रांस्तुरंगमान् ।
तथैवाभरणोपेतान् भद्रजातीन्मतंगजान् ॥४१॥
तनुत्राणि शिरस्त्राणि शस्त्राणि विविधानि च ।
विचित्राणि च वस्त्राणि निजानि बिरुदानि च ॥४२॥
तिरस्कृतविमानानि याप्ययानान्यनेकधा ।
रौप्यान् रौक्मांश्च पर्यंकान् करंकांश्च पतद्ग्रहान् ॥४३॥
रत्नोत्तंसानथोमुक्तास्रजोहीरांगदानि च ।
कटकान्यूर्मिकश्चापि चित्ररत्नचयांकिताः ॥४४॥
तथा द्वीपान्तरोत्थानि जातिश्रेष्ठन्यनेकशः ।
अल्लीशाहादफजलः प्रापत्कोषांश्च कोटिशः ॥४५॥
वज्रधारामिव शितां रत्नकोषनिवेषिताम् ।
निजां पाणिस्थितां प्रादात्प्रभुस्तस्मै कृपाणिकाम् ॥४६॥
स्वामिनैवाथ विन्यस्तां प्रेम्णा सारसनान्तरे ।
सरत्नकोषाभरणां स बभार कटारिकाम् ॥४७॥
ततः पुनः पुनस्तस्मै प्रीत्या प्रास्थानकालिकीः ।
कृत्वा नतीरफजलः प्रचचालाचलोपमः ॥४८॥
प्रचलन्तममुं तावत् प्रणमन्तं मुहुर्मुहुः ।
पदे पदेऽनुजग्राह दिशन्नीशो दयादृशम् ॥४९॥
तं वीरमान्यं सेनान्यं स विधाय महामनाः ।
अन्यानमूंश्चमूनाथांस्तत्साहाय्ये समादिशत् ॥५०॥
अम्बरः शम्बरसमः प्रतापी याकुतः पुनः ।
महामानी मुखेखानः पठानो हसनोऽपि च ॥५१॥
रणदूलहसूनुश्च रणदूलहसंज्ञकः ।
तथैवांकुशखानोऽपि निरंकुशगजक्रमः ॥५२॥
बर्बरः खेलकर्णस्य प्राप्तो यः क्रीतपुत्रताम् ।
स हिलालो महाबाहुः प्रत्यर्थुद्रुमकुंजरः ॥५३॥
इत्येतेऽन्ये च यवनाः ससैन्याःससुहृद्गणाः ।
सद्यः स्वामिसमादिष्टाः तं सेनापतिमन्वयुः ॥५४॥
जितानेकप्रतिभटाः प्रसभं समरोद्भटाः ।
घोरकर्मकृतो घोरफटा अपि तमन्वयुः ॥५५॥
पांडरो नायकश्चैव खराटोऽपि च नायकः ।
कल्याणयादवश्चापि नैकसैनिकनायकः ॥५६॥
समुद्यद्युद्धसंरंभो मंबो भृशबलस्तथा ।
विश्वविश्रुतकर्माणो घांटिकाः कांटिका अपि ॥५७॥
इत्येतेऽन्ये च राजानः सामंताश्च सहस्रशः ।
चतुरंगचमूयुक्तास्तं सेनापतिमन्वयुः ॥५८॥
ततः कार्तान्तिकादिष्टे समये तस्य गच्छतः ।
अभव्यशंसीन्यभवन्दुर्निमित्तान्यनेकशः ॥५९॥
स पक्षपातं क्रोशन्तः प्रकामं वामगामिनः ।
वृथेति कथयामासुर्वायसास्तस्य साहसम् ॥६०॥
बत भेजे दिनार्धेऽपि भानुरस्पष्टभानुताम् ।
प्रजज्वालेवान्तरिक्षं बभूवुर्धूसरा दिशः ॥६१॥
सहसैव महत्युल्का निपपात दिवस्तटात् ।
घनं विनैव च व्योम्नि बभूवाशनिनिस्वनः ॥६२॥
ववाशिरे प्रतिभयं दिशमैन्द्रीं श्रिताः शिवाः ।
भंगमाप ध्वजो यानान्यप्रहृष्टानि चाभवन् ॥६३॥
अवाप सदृशद्रेणु वर्षीवातः प्रतीपताम् ।
बभ्रामाग्रे प्रणुन्नोऽपि वारणः पृतनाग्रणीः ॥६४॥
यद्यप्येतानि चान्यानि तन्निमित्तान्यवारयन् ।
तथापि सरतोत्वाहं नामुंचन्नमुचिर्यथा ॥६५॥
ततः स प्रस्थितस्तस्मात्पत्तनाद्विजयाह्वयात् ।
योजनार्धमिते देशे वसतिं स्वामकल्पयत् ॥६६॥
तत्रागताभिरभितो वाहिनीभिः समन्वितः ।
स निवेशोन्मुखः सैन्यव्यूहोंभोधिरिवावभौ ॥६७॥
महार्हवर्णैरुच्छ्रायच्छ्रादितव्योममण्डलैः ।
नवैरुत्तंभितस्तंभैर्मण्डितं पटमण्डपैः ॥६८॥
प्रोल्लसत्काण्डपटकप्राकारमयमण्डपम् ।
विचित्रासनविस्तारप्रस्तारितसभांतरम् ॥६९॥
पुंजीकृतेष्टभूयिष्टवस्तुसंभारभासुरम् ।
उच्चैरुत्तानितोल्लोचप्रच्छायांचितचत्वरम् ॥७०॥
अविदूरपुरोदेशद्वयीनद्धतुरंगमम् ।
समदद्विरदव्यूहबृंहितस्पृष्टदिक्ततम् ॥७१॥
जागरूकैरहोरात्रं गुटिकायन्त्रधारिभिः ।
कोदंडिभिस्तथान्यैश्च खङ्गखेटकपाणिभिः ॥७२॥
अपारैश्च तथा पारश्वधिकैः शक्तिहेतिकैः ।
अभिगुप्ताष्टदिग्भागमभितस्थितिशालिभिः ॥७३॥
तदनेकानकोदग्रवाद्यनिर्घोषभीषणम् ।
तत्तत्कार्यविधिव्यग्रजनकोलाहलाकुलम् ॥७४॥
यथास्थानस्थिताशेषजनलब्धसुखोदयम् ।
सैन्यं सैन्यपतिः सर्वं गुरुगर्वं व्यलाकत ॥७५॥
संग्रामे साभिमानः स भृशमफजलः स्वामिनो लब्धमानः ।
शौर्यश्रीशोभमानः सपदि भृशबलं भूपतिं जेतुकामः ।
दुर्दैवाकृष्टचित्तः पथि पथि परितो दुर्निमित्तानि पश्यन् ।
वैराटं राष्ट्रमन्तर्गतगुरुनिकृतिः क्षिप्रमभ्याससाद ॥७६॥
इत्यनुपुराणे सूर्यवंशे निधिवासकरपरमानन्दकवीन्द्र प्रकाशितायांशतसाहस्यां संहितायां अफजलभ्यागमो नाम सप्तदशोऽध्यायः ॥१७॥

सर्व पहा

आषाढी एकादशीच्या दिवशी 'या' ७ गोष्टी टाळाच; अन्यथा विठ्ठल पूजेचे फळ मिळणार नाही!

जळणाऱ्या नातेवाईकांपासून स्वतःचा बचाव कसा करावा? आचार्य चाणक्यांचे विचार जाणून घ्या

महाराष्ट्रातील सर्वात थंड गाव कोणतं? उत्तर ऐकून आश्चर्य वाटेल

वयाच्या ३५ नंतर मित्र अचानक कमी का होतात?

स्वयंपाकघरातील हा एक बदल वीजबिल कमी करू शकतो

सर्व पहा

तेनालीराम कहाणी : गोष्ट जादुई पाण्याची

आरोग्यासाठी अत्यंत गुणकारी आणि चवीला अप्रतिम असणारी 'जांभूळ स्मूदी'; एक उत्तम हेल्थ ड्रिंक

Ghost Lashes Trend डोळ्यांच्या मेकअपचा बदलता ट्रेंड: घरच्या घरी कसा मिळवाल 'घोस्ट लैशेज' लुक?

Lokmanya Bal Gangadhar Tilak Jayanti Abhivadan 2026 लोकमान्य बाळ गंगाधर टिळक जयंतीनिमित्त विनम्र अभिवादन

फक्त ३० सेकंदात ओळखा, समोरची व्यक्ती तुमच्यावर जळते का?

पुढील लेख
Show comments