ganesh chaturthi

शिवभारत अध्याय तिसरा

Updated: सोमवार, 26 ऑगस्ट 2024 (14:56 IST)
मर्दयन्नन्यसैन्यानि प्रचचाल बलाद्बली ॥१५॥
पदे पदेंकुशाघातैर्निषिद्धोपि निषादिना ।
स सिन्धुरः सैनिकानां चकार कदनं महत् ॥१६॥
तं मृन्दन्तमनीकानि गर्जन्तमकुतोभयम् ।
प्रलयांभोधरनिभं रोध्दुं शेकुर्न केचन ॥१७॥
अथ यादवराजस्य दत्तवर्मादिभिस्सुतैः ।
न सेहे गर्जतस्तस्य गर्जः प्रतिगजैरिव ॥१८॥
ततो दत्तसमादिष्टाः सुभटास्तं मदोत्कटम् ।
निजघ्नुश्शरनिस्रिंशकुन्ततोमरशक्तिभिः ॥१९॥
स भिन्नवर्मा बहुभिर्घोरकर्मा मदद्विपः ।
विकर्षन् पुष्करेणोच्चैः सहसा हयसादिनः ॥२०॥
करेण कांश्चिदादाय क्षिपन् कांश्चिदपातयत् ।
कांश्चिन्निपात्य चरणैस्तत्तलैर्न्निष्पिपेष च ॥२१॥
दत्तवर्माऽथ तं दृष्ट्वा स्वसैन्यस्य पराभवम् ।
तं दन्तिनमभीयाय हर्य्क्ष इव लक्षयन् ॥२२॥
तदा तेनातिरभसात्स बतायुधसादितः ।
विधुन्वानः स्वमूर्धानं रराण रणमूर्धनि ॥२३॥
ततो विठ्ठलराजस्य संभखेलावुभौ सुतौ ।
खण्डार्गळस्य साहाय्यं विधातुं समुपस्थितौ ॥२४॥
तौ तं लोहितलिप्तागं धातुमन्तमिवाचलम् ।
पर्यपालयतां तत्र दत्तराजवशं गतम् ॥२५॥
दत्तराजस्तु तं हित्वा विहस्तं मदहस्तिनम् ।
अनुजं प्रतिजग्राह संभराजं महाभुजम् ॥२६॥
तयोः गुपितयोस्तत्र द्वन्द्वयुद्धे समुद्यते ।
आवर्तस्सुमहानासीत् योधानामभिधावताम् ॥२७॥
हस्ताहस्ति ततो युद्धमुभयोः सेनयोरभूत् ।
दत्तवर्माणमभ्येते संभे जंभारितेजसि ॥२८॥
यादवानां तदद्धापि सांबंधिकमलक्षयन् ।
ररक्ष पक्षं संभस्य भ्राता शाहमहीपतिः ॥२९॥
ततश्चर्मधरस्तत्र दत्तराजः प्रतापवान् ।
व्यधत्त मण्डलाग्रेण परिवेषमिवात्मनः ॥३०॥
तस्मिन्नाकस्मिके युद्धे शूराणां सन्निपेतुषाम् ।
क्ष्वेडितास्फोटितभरैर्बभूर्वुर्बधिरा दिशः ॥३१॥
तदा स्वमन्डलाग्रेण मन्डलानि वितन्वता ।
ननृते तेन वीरेण रणरंगे महीयसि ॥३२॥
लुठत्सु वरवीराणां सकिरीटेषु मूर्धसु ।
असिभिः खण्ड्यमानेषु सकोदण्डेषु बाहुषु ॥३३॥
कृपाणबाणपरशुप्रासभिन्नेषु वर्मसु ।
शितचक्रनिकृत्तेषु सशरेषु करेषु च ॥३४॥
तुरंगमत्तमातंगपत्रिसंघातजन्मभिः ।
स्फुटं रुधिरधाराभिः शान्तेषु रणरेणुषु ॥३५॥
ध्वजांशुकपरीतासु समराजिरभूमिषु ।
शराचितशरीरेषु नरेषु निपतत्सु च ॥३६॥
तेन यादववीरेण धीरेणामित्रघातिना ।
संभराजं समासाद्य बिभिदे मित्रमण्डलम् ॥३७॥
तमप्रतिमकर्माणं दत्तवर्माणमाहवे ।
शृण्वानस्संभनिहतं यादवेन्द्रस्स्वमात्मजम् ॥३८॥
पुरोगच्छन्नर्धपथादतिरोषारुषेक्षणः ।
परावृत्तो महाराजः संभराजजिघांसया ॥३९॥
तस्मिन् रोषसमाविष्टे यादवानामधीश्वरे ।
सपर्वतवनद्वीपा वसुधा समकंपत ॥४०॥
असुतोप्याधिको येन हतो जाल्मेन मे सुतः ।
तमहं निहनिश्यामि करिष्यामि समीहितम् ॥४१॥
इत्यमर्षवशीभूतं श्वशुरं सुरविक्रमम् ।
स्वपक्षरक्षणाकांक्षी शाहराजोऽभ्ययुध्यत ॥४२॥
युध्यमानममुं वीक्ष्य जामातरमरिन्दमः ।
जघान साहसी शाहं भुजगेन्द्रसमे भुजे ॥४३॥
शाहस्तेनासिपातेन श्रयन् मूर्च्छां महीयसीम् ।
कथंचिदपि धैर्येण धारयामास जीवितम् ॥४४॥
ततः खेलं पराभूय न्यक्कृत्यान्यांश्च पार्थिवान् ।
निर्जिंत्य च निजामस्य श्यामाननमयीं चमूम् ॥४५॥
गाढमुष्टीर्गाढमुष्टिं समुद्यम्य स यादवः ।
संरब्धोभ्यपतत्तूर्णं संभं समरदुर्जयम् ॥४६॥
ततस्संभः प्रसन्नात्मा परं परिहसन्निव ।
अरं व्यापारयामास करं कौक्षेयके निजे ॥४७॥
तयोस्तदाभवद्युद्धं मिथो विस्पर्धमानयोः ।
साध्वसावहमन्येषां मत्तयोर्द्विपयोरिव ॥४८॥
ततोऽसिपातान् बहुशः सोढ्वा संभस्य यादवः ।
तं जगत्यां जितारातिरसिनैव न्यपातयत् ॥४९॥
तं सुतस्य निहंतारं निपात्य वसुधातले ।
तेन यादववीरेण वैरनिर्यातनं कृतम् ॥५०॥
तदा यादवराजेन महाराजेन संयति ।
सुते विठ्ठलराजस्य बत ज्येष्ठे निपातिते ॥५१॥
तत्र प्रतिक्रियां कांचिदपि कर्तुमशक्नुवत् ।
निजामस्याखिलं सैन्यमवसन्नमजायत ॥५२॥
स्वामिनाथ निजामेन सांत्वयित्वा निवारिते ।
ते सेने प्रसभोद्वृत्ते निवृत्ते कलहान्मिथः ॥५३॥
रणांगणादुपादाय वर्ष्मणी संभदत्तयोः ।
शोचमाने हतोत्साहं स्वं स्वं शिबिरमीयतुः ॥५४॥
विषष्णमनसस्सर्वे खेलकर्णादयोऽनुजाः ।
ततस्तमन्वशोचंत ज्येष्ठं भ्रातरमात्मनः ॥५५॥
सुतस्य कारयामास यादवः कार्यमुत्तरम् ।
भ्रातुर्ज्येंष्ठस्य विधिवत् खेलकर्णस्तदुत्तरम् ॥५६॥
सांबंधिकस्य महतः सुतरां विरुद्धं ।
स्पर्धिष्णुभिर्भृशबलै यदभूद्धि युद्धम् ।
तदादवेन सुधिया हृदि सावलेपे ।
जानीमहे किमपि चिन्तयतानुतेपे ॥५७॥
इत्युनुपुराणे सूर्यवंशे निधिवासकरपरमानन्दकवीन्द्रप्रकाशितायामाकस्मिकास्कन्दनो नाम तृतीयोध्यायः ॥३॥

सर्व पहा

Ganesh Chaturthi 2026 Sthapana Shubh Muhurat: १४ सप्टेंबर रोजी गणपती स्थापना शुभ मुहूर्त

देवांना अत्यंत प्रिय असणाऱ्या या फुलांच्या माळा अर्पण करा; मिळवा विशेष आशीर्वाद!

गणपती बाप्पाच्या स्वागतासाठी ३ प्रकारच्या चॉकलेट मोदकांची रेसिपी

कॅल्शियमची कमतरता दूर करण्यासाठी रोजच्या आहारात हे पदार्थ खा; हाडे आणि दात राहतील मजबूत!

खाऊन योग करणे योग्य आहे की अयोग्य, जेवणानंतर योगा करण्याचे परिणाम जाणून घ्या

सर्व पहा

श्री गणेशाच्या नैवेद्यासाठी केशरी खव्याचे लाडू, गणपती उत्सवामध्ये नक्की ट्राय करा

या पानांचे पाणी आरोग्यासाठी फायदेशीर? उकळून पिण्यापूर्वी जाणून घ्या संभाव्य फायदे

Jyeshtha Gauri Pujan Images Wishes in Marathi ज्येष्ठा गौरी पूजन शुभेच्छा फोटो

ISRO Recruitment : ISRO मध्ये नोकरीची सुवर्णसंधी! ITI उत्तीर्ण तरुणांसाठी भरती, ५ ऑक्टोबरपर्यंत करा अर्ज

Jyeshtha Gauri Pujan Wishes in Marathi 2026 ज्येष्ठा गौरी पूजन शुभेच्छा

पुढील लेख
Show comments