Dharma Sangrah

शिवभारत अध्याय नववा

Updated: सोमवार, 26 ऑगस्ट 2024 (15:54 IST)
यो हन्तुं यवनानेतानेतां भुवमवातरत् ।
स एष भगवान् विष्णुः शिवसंज्ञः शिशुस्तव ॥१७॥
करिष्यत्यचिरेणैव तदेतत्त्वच्चिकीर्षितम् ।
तस्मादनेहसं कंचित् प्रतीक्षस्व महाभुज ॥१८॥
एवमुक्तवति प्रीतिमति देवे कपर्दिनि ।
प्राबुध्यत प्रसन्नात्मा प्रभाते पृथिवीपतिः ॥१९॥
ततो निजामविषयं शाहः स्वविषयं विना ।
दिल्लीन्द्राय ददौ कंचित् येदिलाय च कंचन ॥२०॥
हठशीलोऽपि तं शाहं प्रहाय हठमात्मनः ।
व्यधाद्येदिलताम्राभ्यां संधिं त्रिनयनाज्ञया ॥२१॥
ततो निजामविषयं संप्राप्य मुदितात्मसु ।
परावृत्तेषु ताम्नेषु पराक्रमणकारिषु ॥२२॥
असमर्थमिवात्वानं मन्यमानो महामतिः ।
तदिदं चिंतयामास येदिलो निजचेतसि ॥२३॥
समर्थैः समरांभोधौ निजामो यैर्निमज्जितः ।
तेऽमी ताम्राननाः प्रायो मज्जयिष्यन्ति मामपि ॥२४॥
तस्मादमुं महाबाहुं मालवर्मात्मजं नृपम् ।
साहाय्ये स्वे निधास्यामि विधास्यामि विधित्सितम् ॥२५॥
पूर्वमस्यैवावलंबादिभरामः पिता मम ।
विध्वस्तारातिरध्यास्त निर्विशंकः स्वमानसम् ॥२६॥
सहसावमतः सोऽयं मतिमंदतया मया ।
मामुपेक्ष्य गतो मानादिभरामादनंतरम् ॥२७॥
महामानी महाबाहुरसौ शाहमहीपतिः ।
कृत्वा मदधिकं महाबाहुरसौ वर्धितः ॥२८॥
इति चेतसि संचिन्त्य महमूदो महाद्युतिः ।
अमात्यान् प्रेषयामास सद्यः शाहनृपं प्रति ॥२९॥
अनुनीतः स तैस्तत्र मंत्रिभिर्मंत्रवेदिभिः ।
प्रतिजज्ञे महाबाहुर्येदिलस्य सहायताम् ॥३०॥
अथ शाहमहीपालमवलंब्यावलंबदम् ।
बत प्रतिपदं लेभे महमूदो महामुदम् ॥३१॥
अथो फरादखानस्य सुतं समरर्धूवहम् ।
निखिलानीकिनीमान्यं सेनान्यं रणदुलहम् ॥३२॥
बलिना शाहराजेन महाराजेन संयुतम् ।
प्रतापी प्रेषयामास जेतुं कर्णाटकीवृतम् ॥३३॥
तदा फरादखानेन याकुतेनांकुशेन च ।
हशेन्यंबरखानेन मसूदेन तथा पुनः ॥३४॥
प्रवारघांटिकेंगाळगाढघोरफटादिभिः ।
सुभटैस्सहितैस्तैस्तैः प्रतस्थे रणदूलहः ॥३५॥
अथ सेनाधिपतिना सार्धं तेन महामनाः ।
बली भृशबलो राजा प्राप कार्णाटमंडलम् ॥३६॥
ततो बिंदुपुराधीशं वीरभद्रं महौजसम् ।
वृषपत्तनपालं च प्रसिद्धं केंगनायकम् ॥३७॥
कावेरीपत्तनपतिं जगद्देवं महाभुजम् ।
श्रीरंगपत्तनेंद्रं च क्रूरं कंठीरवाभिधम् ॥३८॥
तंजापुरप्रभुं चापि वीरं विजयराघवम् ।
तथा तंजीपरिवृढं प्रौढं वेंकटनायकम् ॥३९॥
त्रिमल्लनायकाह्वं च मधुरानाथमुद्धतम् ।
पीलुगण्डाखंडलं च बिकटं वेंकटाह्वयम् ॥४०॥
धीरं श्रीरंगराजं च विद्यानगरनायकम् ।
प्रसिद्धं तम्मगौडं च हंसकूटपुरेश्वरम् ॥४१॥
वशीकृत्य प्रतापेन तथान्यानपि पार्थिवान् ।
शाहं संतोषयामास सेनान्यं रणदूलहम् ॥४२॥
कृत्वाऽथ वीरसंहारकारियुद्धमहर्दिवम् ।
युद्धशौण्डात् किंपगौंडात् गृहीतं सुमनोहरम् ॥४३॥
रणदूलहखानेन पारिबर्हमिवार्पितम् ।
सोऽध्यास्त विजयी राजा बिंगरूळाभिधं पुरम् ॥४४॥
अथ तस्मिन् पुरवरे पटुप्राकारगोपुरे ।
सुधावदातसौधाग्रपताकोल्लिखितांबरे ॥४५॥
तत्तत्कारुकलाकीर्नरम्यहर्म्यमयान्तरे ।
विटंकस्थितबंहिष्ठपारावतकृतस्वरे ॥४६॥
वातायनोत्पतन्नीलकंठकूजितपूजिते ।
विस्तीर्णापणविन्यस्तपण्यवस्तुसमन्विते ॥४७॥
प्रतिसद्योल्लसत्कूपे विकसद्दीर्घदीर्घिके ।
नैकशृंगाटकोदंचज्जलयंत्रोच्छल्लज्जले ॥४८॥
प्रफुल्लनिषुटकुटच्छायच्छन्नमहीतले ।
भित्तिविन्यस्तसच्चित्रलुभ्यल्लोकाविलोचने ॥४९॥
नानावर्णाश्मसंबद्धस्निग्धसुंदरमंदुरे ।
विसंकटपुरद्वारकूटकुट्टिममण्डिते ॥५०॥
चयाट्टमस्तकन्यस्तनालायंत्रसुदुर्गमे ।
समीकनिपुणानीकप्रकरप्रतिपालिते ॥५१॥
समन्तादतलस्पर्शपरिखाबारिभासुरे ।
अपारसागराकारकासारपरिशीलिते ॥५२॥
अनिलोल्लासितलताललितोद्यानमण्डले ।
कनकाचलसंकाशदेवतायतनांचिते ॥५३॥
संवसन् वासवसमः स एष नृपसत्तमः ।
निजैः परिजनैः सार्धं विविधं मुदमाददे ॥५४॥
स कदाचिन्मृगयया कदाचित् साधुसेवया ।
कदाचिदर्चया शंभोः कदाचित् काव्यचर्चया ॥५५॥
कदाचिन्नर्तकीनृत्यदर्शनोत्सर्वलीलया ।
कदाचिन्नैकविधया शरसंधानशिक्षया ॥५६॥
कदाचिदायुधागारविन्यस्तायुधवीक्षया ।
कदाचिदात्मसंग्राह्यतत्तत्सैन्यपरीक्षया ॥५७॥
कदाचित् पुष्पितोद्दामनगरोद्यानयात्रया ।
कदाचित् सारसाक्षीभिः शृंगाररसदीक्षया ॥५८॥
कदाचिद्योगशास्त्रोक्तकलया योगमुद्रया ।
प्रभुस्तत्तद्रसमयं समयं समनीनयत् ॥५९॥
जननी शंभुशिवयोस्तत्र यादवनंदिनी ।
जग्राह हृदयं पत्युः शुद्धान्ते सुमहत्यापि ॥६०॥
हलिना हरिणा चापि वसुदेवो यथान्वहम् ।
व्यराजत तथा शाहः शंभुना च शिवेन च ॥६१॥
स तु शंभोः कनीयांसं गरीयांसं गुणश्रिया ।
बहु मेने महाराजः शिवशर्माणमात्मजम् ॥६२॥
यदाप्रभृति संजातः स एष तनयः शिवः ।
तदाप्रभृति शाहस्य समृद्धाः सर्वसंपदः ॥६३॥
अतिष्ठन् द्वारि बहुशो मंदराचलसुंदराः ।
विजितांभोरुहरुचो मदवारिमुचो गजाः ॥६४॥
आसन् सहस्रशश्चापि मंदुरायां मनोहराः ।
वातो इवाशुगतयः सैंधवाः समरोध्दुराः ॥६५॥
ववृधे चाधिकं कोषस्तोषेण सह नित्यशः ।
प्रतापः पप्रथेऽत्यर्थं प्रभावश्च दिने दिने ॥६६॥
दुर्ग्रहाण्यपि दुर्गाणि सुग्रहत्वं प्रपेदिरे ।
विजयस्सर्वदैवासीत् स्वप्नेऽपि न पराभवः ॥६७॥
पुष्पाणां च फलानां च सस्यानां चाभिवृद्धयः ।
साधनेन विना सिद्धिमीयुस्सर्वाश्च सिद्धयः ॥६८॥
एवं समृद्धतां नीतः पुराणपुरुषात्मना ।
सुतेन तेन सुतरां मुमुदे मालनंदनः ॥६९॥
ततस्तं तनयं वीक्ष्य सगुणं सप्तहायनम् ।
लिपिग्रहणयोग्योऽयमिति भूपो व्यचिन्तयत् ॥७०॥
स तं पुत्रं मंत्रिपुत्रैः सवयोभिः समन्वितम् ।
न्यवेशयत गुर्वंके मेधाविनमलोहलम् ॥७१॥
आख्याति लिखितुं यावदाचार्यो वर्णमादिमम् ।
तावद् द्वितीयमप्येष विलिख्य तमदर्शयत् ॥७२॥
सर्वासामपि विद्यानां द्वारभावमुपागताम् ।
लिपिं यथावदखिलां ग्राहयामास तं गुरुः ॥७३॥
तमथ सहजमेधाशालिनं सुस्वाभावं ।
नृपमृगपतिशावं वागगम्यानुभावम् ।
गुरुरुपचितचित्तः शिक्षितानां समूहे ।
द्रुतधृतलिपिविद्यं वीक्ष्य वैलक्ष्यमूहे ॥७४॥
इत्यनुपुराणे निवासकरपरमानंदप्रकाशितायां संहितायां नवमोऽध्यायः ।

सर्व पहा

Ganesh Chaturthi 2026 Sthapana Shubh Muhurat: १४ सप्टेंबर रोजी गणपती स्थापना शुभ मुहूर्त

देवांना अत्यंत प्रिय असणाऱ्या या फुलांच्या माळा अर्पण करा; मिळवा विशेष आशीर्वाद!

गणपती बाप्पाच्या स्वागतासाठी ३ प्रकारच्या चॉकलेट मोदकांची रेसिपी

कॅल्शियमची कमतरता दूर करण्यासाठी रोजच्या आहारात हे पदार्थ खा; हाडे आणि दात राहतील मजबूत!

खाऊन योग करणे योग्य आहे की अयोग्य, जेवणानंतर योगा करण्याचे परिणाम जाणून घ्या

सर्व पहा

शतदा प्रेम करावे : मंगेश पाडगांवकर मराठी कविता

केस गळतीची ७ कारणे, उपाय आणि योग्य आहार: त्वचारोगतज्ज्ञांचा सल्ला

नात्यात जोडीदाराचा फोन तपासणे चुकीचे आहे का? समजून घ्या वैयक्तिक स्वातंत्र्य आणि विश्वासाची सीमारेषा

दुकानातील मिठाई आणणे टाळा! घरीच बेसन वापरून १० मिनिटात मोतीचूर लाडू बनवा

Jyeshtha Gauri Pujan Images Wishes in Marathi ज्येष्ठा गौरी पूजन शुभेच्छा फोटो

पुढील लेख
Show comments