Marathi Biodata Maker

शिवभारत अध्याय सोळावा

Updated: सोमवार, 26 ऑगस्ट 2024 (16:43 IST)
शरधिद्वितयस्यैते तेजितास्संति सायकाः ॥१५॥
विजयाह्वपुरग्राहोत्सुकं संप्रति मन्मनः ।
अतोऽद्य नोद्यसे सद्यो नियुज्यंतां तुरंगिणः ॥१६॥
सुवर्णशर्मोवाच ।
दुरंतं बलवद्वैरं दुरंतः पापसंचयः ।
दुरंताभ्यर्हिता गर्हा दुरंता गुरुगर्हणा ॥१७॥
विधाय बलवद्वैरं तव तातः कृताग्रहः ।
नाभूदवहितो यर्हि तदर्हस्तर्हि निग्रहः ॥१८॥
स प्रभावी महाराजो मंत्रिणस्तस्य सुव्रताः ।
तेन यद्वलवद्वैरं कृतं सोपनयः कृतः ॥१९॥
तनुते यद्यलं वैरमबलीयान् बलीयसा ।
तर्हि तस्य पराभावे सर्वथा प्रभुरेव सः ॥२०॥
दानमभ्यधिके शत्रौ समे साम विधीयते ।
ऊने दंडविधिः प्रोक्तो भेदः साधारणः स्मृतः ॥२१॥
दिने दिने भवन्नूनः समः साम्यं विमुंचति ।
आधिक्यं चाधिको येन को भेदं न प्रशंसति ॥२२॥
नरेंद्र नूनमूनोपि द्वेषणो भेदमर्हति ।
ऊनस्याप्यूनतात्यर्थं हितायैव भवेद्युधि ॥२३॥
ऊनोपि यदि दूनोयमिति मत्वाऽनुनीयते ।
तर्ह्यंतः श्लाघ्यमानोऽसौ स्वमेव बहुमन्यते ॥२४॥
ऊनानामप्यनूनत्वमनूनानां तथोनता ।
दृश्यते मनुजाधीश समयांतरवैभवात् ॥२५॥
तस्मादूने नरेंद्रेण द्विषि दंडो विधीयते ।
मते पत्युरपां येन मनस्सम्यङ्निधीयते ॥२६॥
समर्थश्चासमर्थश्चेत्युपायो द्विविधो मतः ।
द्वितीयो ह्यवकेशी स्यात् प्रथमस्तु फलेग्रहिः ॥२७॥
योषितस्सारहारिण्यो मदिरा मोहदायिनी ।
दुरोदरं धनहरं कादर्यं कार्यहानिकृत् ॥२८॥
वाक्पारुष्यमलक्ष्मीकं मृगया पापकारिणी ।
नरेंद्र दंडपारुष्यमत्यर्थमयशस्करम् ॥२९॥
तस्मादेतानि सप्तानि व्यसनानि परित्यजेत् ।
बतान्यतममप्येषां मतिभ्रंशाय जायते ॥३०॥
येषामेकतरेणापि मतिभ्रंशो विधीयते ।
तान्यनेकानि संसेव्य कः पुमान्नप्रहीयते ॥३१॥
नीतिशास्त्रेषु विरसं निजकार्यभरालसम् ।
मानुषं विजहाति श्रीर्व्यसनापन्नमानसम् ॥३२॥
मुष्णंत्युच्चैः प्रमत्तेऽस्मिन् कोशं कोशाधिकारिणः ।
तुदंति च दुरात्मानो राष्ट्रं राष्ट्राधिकारिणः ॥३३॥
तत्तद्व्यसनसक्तस्य वैचित्यमुपचीयते ।
वैचित्योपचयादुचैरौचित्यमपचीयते ॥३४॥
औचित्यापचयादेनं जनस्सर्वोऽवमन्यते ।
विनियुक्ताश्च कार्येशु नव तान्याशु कुर्वते ॥३५॥
अथ क्रोधोद्धुरोत्युच्चैरुच्चरन् रुशतीं गिरम् ।
दिने दिने तुदत्येतान् समेतानपि संसदि ॥३६॥
ततो ह्यनुक्षणकृतासूर्क्षणक्षतचेतसः ।
परोक्षे परिभाषंते यथाचोपहसंत्यमुम् ॥३७॥
ततो मुंचंत्यमुं केऽपि केऽप्यमुष्मिन्नुदासते ।
केचिद्विपक्षपक्षांतर्निपत्य सुखमासते ॥३८॥
प्रकोपनममुं मत्वा शपंत्येव तु केचन ।
भजंति न यथापूर्वमत्यजंतोऽपि केचन ॥३९॥
सप्तव्यसनसक्तत्वादजानानच्छलं बलम् ।
मन्यते प्रभुमात्मानमहंकारेण केवलम् ॥४०॥
व्यसनासक्तचित्तेन येनेत्थं बत भूयते ।
जैत्रयात्रापरैस्सद्यः परैस्स परिभूयते ॥४१॥
गिरयो नैव गुरवो गुरुरेव गुरुर्मतः ।
भवतात्र प्रभवता दत्तः सिह्माचलस्ततः ॥४२॥
प्रदत्ते द्विषतेऽमुष्मिन् विमुक्तश्चेत् स पार्थिवः ।
तर्हि दत्तोपि भवता न दत्तः सिह्मपवर्तः ॥४३॥
यः सिह्मपर्वतः मेने समं शाहसुमेरुणा ।
विंगरूरं च नगरं किं कृतं तेन वैरिणा ॥४४॥
उपक्रांतमिदानीं तु त्वया विजयमंडलम् ।
सुविक्रांतस्य नृपतेः सर्वमेव महीतलम् ॥४५॥
राजा तावत्ततो मंत्री सुहृदो विपुलं धनम् ।
राष्ट्रं दुर्गाणि सैन्यानि राज्यस्यांगानि सप्त वै ॥४६॥
एतैरविकलैर्युक्तं राज्य्म सद्भिः प्रशस्यते ।
एकेनापि विहीनं तदितरैरुपहस्यते ॥४७॥
मौळिर्नृपो मुखं मंत्री धनसैन्ये भुजद्रयम् ।
राष्ट्रमन्यद्वपुस्सर्वं सुहृदस्संधयो दृढाः ॥४८॥
दुर्गाणि तु दृढान्युच्चैस्तदस्थीनि तदंतरा ।
एवमंगानि राज्यस्य सप्तोक्तानि मनीषिभिः ॥४९॥
सप्तांगस्यास्य राज्यस्य धर्म आत्माऽभिधीयते ।
मंत्रः प्राणो बलं नीतिरनीतिरसमर्थता ॥५०॥
दंडो यथोचितः शौर्यमधर्मो रिपुरुद्धतः ।
मदः परस्परं भेदो दीर्घमायुरभेद्यता ॥५१॥
जनरंजनमुत्कर्षो दर्शन दीर्घदर्शिता ।
प्रतापः प्रोज्वलं रूपं विमला बुद्धिरायुधम् ॥५२॥
तथैव बलवद्वैरमंतरायः प्रकीर्तितः ।
प्रमादस्तु भवेन्निद्रा प्रबोधः सावधानता ॥५३॥
समं च विषमं चेति वैरं द्विविधमुच्यते ।
प्रथमं तु समेनाहुर्द्वितीयमधिकेन चेत् ॥५४॥
समे समत्वादुभयोर्न भवेद्विजयः खलु ।
अधिकस्याधिकत्वेन विषमे विजयो ध्रुवम् ॥५५॥
फतेखानप्रभंगेन मुसेखानवधेन च ।
अहर्दिवं प्रभो तुभ्यं महमूदोऽभ्यसूयति ॥५६॥
पश्य येदिलदिल्लींद्रौ विषयानतंरौ तव ।
यवनौ बलिनौ तुभ्यं द्रुह्यतोऽहर्निशं नृप ॥५७॥
अमू उभयतो यस्य द्वेषणौ रोषणौ तव ।
तस्य नूनमिहस्थाने स्थितिः स्थाने न संप्रति ॥५८॥
अतोऽतिदुर्गमं स्थानमास्थाय जगतीपते ।
यतस्व जगतीं जेतुं किमजय्यं शिवस्य ते ॥५९॥
कंठेकालेन कैलासः स मेरुः शंबपाणिना ।
अभ्यंतरमपां पत्युः शिश्रिये दनुजारिणा ॥६०॥
न दुर्गं दुर्गमित्येव दुर्गमं मन्यते जनः ।
तस्व्य दुर्गमता सैव यत्प्रभुस्तस्य दुर्गमः ॥६१॥
प्रभुणा दुर्गमं दुर्गं प्रभुर्दुर्गेण दुर्गमः ।
अदुर्गमत्वादुभयोर्विद्विषन्नव दुर्गमः ॥६२॥
संति ते यानि दुर्गाणि तानि सर्वाणि सर्वथा ।
यथा सुदुर्गमाणि स्युस्तथा सद्यो विधीयताम् ॥६३॥
सुवर्णशर्मणोवाचमिमां श्रुत्वा नृपोत्तमः ।
माननीयोऽतिमहतां माननीयाममन्यत ॥६४॥
प्रभुत्वं बिभ्राणस्त्रिभुवनपरित्राणकरणे ।
पितृद्वेषिद्वेषी तदनुतनुजः शाहनृमणेः ।
निरातंकस्सक्तो यवनकदनायातिमहते ।
समयामप्युर्वीममनुत वसंतीं करतले ॥६५॥
इत्यनुपुराणे निवासकरकवींद्र परमानंदप्रकाशितायां षोडशोऽध्यायः ॥

सर्व पहा

आषाढी एकादशीच्या दिवशी 'या' ७ गोष्टी टाळाच; अन्यथा विठ्ठल पूजेचे फळ मिळणार नाही!

जळणाऱ्या नातेवाईकांपासून स्वतःचा बचाव कसा करावा? आचार्य चाणक्यांचे विचार जाणून घ्या

महाराष्ट्रातील सर्वात थंड गाव कोणतं? उत्तर ऐकून आश्चर्य वाटेल

वयाच्या ३५ नंतर मित्र अचानक कमी का होतात?

स्वयंपाकघरातील हा एक बदल वीजबिल कमी करू शकतो

सर्व पहा

तेनालीराम कहाणी : गोष्ट जादुई पाण्याची

आरोग्यासाठी अत्यंत गुणकारी आणि चवीला अप्रतिम असणारी 'जांभूळ स्मूदी'; एक उत्तम हेल्थ ड्रिंक

Ghost Lashes Trend डोळ्यांच्या मेकअपचा बदलता ट्रेंड: घरच्या घरी कसा मिळवाल 'घोस्ट लैशेज' लुक?

Lokmanya Bal Gangadhar Tilak Jayanti Abhivadan 2026 लोकमान्य बाळ गंगाधर टिळक जयंतीनिमित्त विनम्र अभिवादन

फक्त ३० सेकंदात ओळखा, समोरची व्यक्ती तुमच्यावर जळते का?

पुढील लेख
Show comments