Dharma Sangrah

शिवभारत अध्याय सहावा

Updated: सोमवार, 26 ऑगस्ट 2024 (15:15 IST)
दिव्य - तेजोमयी देवी दिव्यरूपा व्यराजत ॥२५॥
भूबाणप्राणचन्द्राद्वैः सम्मिते शालिवाहने ।
शके संवत्सरे शुक्ले प्रवृत्तेचोत्तरायणे ॥२६॥
शिशिरर्तौ वर्तमाने प्रशस्ते मासि फाल्गुने ।
कृष्णपक्षे तृतीयायां निशि लग्ने सुशोभने ॥२७॥
अनुकूलतरैस्तुंगसंश्रयैः पञ्चभिर्ग्रहैः ।
व्यंजिताशेषजगतीस्थिरसाम्राज्यवैभवम् ॥२८॥
अपारलावण्यमयं स्वर्णवर्णमनामयः ।
कमनीयतमग्रीवमुन्नतस्कन्धमण्डलम् ॥२९॥
अलिकान्तमिलत्कान्तकुन्तलाग्रविराजितम् ।
सरोजसुन्दरदृशं नवकिंशुकनासिकम् ॥३०॥
सहजस्मेरवदनं घनगंभीरनिस्वनम् ।
महोरस्कं महाबाहुं सुषुवे साभ्दुतं सुतम् ॥३१॥
तदा मुदा मानुषाणां सुराणां च सहस्रशः ।
समं दुन्दुभयस्तस्य नादेन नदतोऽभवन् ॥३२॥
वादित्राण्यप्यवाद्यन्त विविधानि गृहे गृहे ।
प्रसीदन्ति स्म हरितः समस्ताः सरितस्तथा ॥३३॥
शनैः शनैस्तथा वाता वाताः सुरभिशीतलाः ।
हुतं हविरुपादत्त प्रसन्नश्च हुताशनः ॥३४॥
श्रुतिस्मृतिर्धृतिर्मेधाः कान्तिः शान्तिक्षमादया ।
नीतिः प्रीतिः कृतिः कीर्तिः सिद्धिः श्रीश्च सरस्वती ॥३५॥
तुष्टिः पुष्टिश्च शक्तिश्च ह्रीश्च विद्या च सन्नतिः ।
तं देवं देवता एताः समेताः पर्यवारयन् ॥३६॥
योद्धुमद्धापठानेन दर्याखानेन मानिता ।
शाहराजे महाराजे प्रयाते विषयान्तरम् ॥३७॥
अनुग्रहाय देवानां दैत्यानां निग्रहाय च ।
प्रभुःस जगतां प्रादुरभूद् भृशबलान्वये ॥३८॥
अतोऽजस्यापि जातस्य जातकर्म तदंजसा ।
व्यधीयत विधिज्ञेन यथाविहि पुरोधसा ॥३९॥
यः स्वयं सर्वलोकस्य स्थित्यर्थमभवद्विभुः ।
सूक्तैः सूक्तविदस्तस्याप्याचरन् स्वस्तिवाचनम् ॥४०॥
तदा तत्रावतीर्णस्य विष्णोर्मानुषवर्ष्मणः ।
तेजोभरेण महता निशापि दिवसायिता ॥४१॥
आदित्या वसवो विश्वे रुद्राश्च समरुद्गणाः ।
यक्षाः साध्याश्च गन्धर्वास्तथा विद्याधरा अपि ॥४२॥
नन्दिनी प्रमुखा गावो नागाश्चैरावतादयः ।
सुरर्षयो नारदाद्याः संभूयाप्सरसस्तथा ॥४३॥
इन्द्रोऽग्निर्धमराजश्च नैरृतश्चजलेश्वरः ।
पृषदश्वो धनेशश्च महेशश्च दिगीश्वराः ॥४४॥
अष्टाविमेऽश्विनौ देवौ सूर्याचन्द्रमसौ तथा ।
अन्येऽपि च सनक्षत्रा ग्रहाः सुभगविग्रहाः ॥४५॥
घटीमुहूर्ताहोरात्रपक्षमासर्तुवत्सराः ।
युगानिदिव्यादिव्यानि तथा मन्वन्तराणि च ॥४६॥
भुवो भारमपाकर्तुमवतीर्णे जगत्पातौ ।
संनिधाय स्वयं तत्र स्वस्तिवाचनमाचरन् ॥४७॥
गणेशं जन्मदां षष्ठीं देवीं जीवन्तिकामपि ।
स्कन्दं नारायणं वंशं बलदेवं च लांगलम् ॥४८॥
शरासनं शरान् खङ्गं विविधान्यायुधानि च ।
तत्तन्मन्त्रैः समभ्यर्च्य सूतिकागृहमन्तरा ॥४९॥
प्रयतः पंचमे षष्ठेऽप्यष्टमे नवमेऽहनि ।
रक्षन्तु बालमित्युक्त्वा प्रणम्य च पुरोहितः ॥५०॥
क्षेत्रपालाय भूतेभ्यो राक्षसेभ्यो गृहाद्बहिः ।
बलीनदाद्योगिनीभ्यो दिक्पालेभ्योऽप्यनेकधा ॥५१॥
त्रिजगज्जागरूकस्य जाते षष्ठी प्रजागरे ।
जने जनिविशेषेण दशमेह्नि महात्मनः ॥५२॥
ताम्रपर्ण्यथ कावेरी तुंगभद्रा मलापहा ।
कृष्णा ककुद्मती वेणा नीरा भीमरथी तथा ॥५३॥
गोदावरी च गायत्री प्रवरा वंजुला पुनः ।
पूर्णा पयोष्णी तापी च नर्मदा च महानदी ॥५४॥
क्षिप्रा चर्मण्वती मद्रा यमुना वेत्रवत्त्यपि ।
भागीरथी चन्द्रभागा गोमती गण्डकी तथा ॥५५॥
इरावती विपाशा च शतद्रुश्च सरस्वती ।
वितस्ता सरयूश्चापि तमसाच वधूसरा ॥५६॥
सिन्धघर्घरशोणाद्यैर्नदौर्निश्रेयसःप्रदैः ।
पुष्कराद्यैः सरोभिश्च सागरैश्च समन्विताः ॥५७॥
अलक्षितेन रूपेण नद्यः पुण्यतमा इमाः ।
तदा तस्या भिषेकाय सोत्सवाः समुपागमन ॥५८॥
देवसेना शची स्वाहा समृद्धिः सर्व मंगळा ।
आदितिर्विनता संज्ञा सावित्री चाप्यरुन्धती ॥५९॥
तां युक्तां तत्र बालेन तेनाप्रतिममूर्तिना ।
प्रसूतिकामस्नपयन् मिलिताः कुलयोषितः ॥६०॥
जननीं रजनीरागरंजितांशुकधारिणीम् ।
अलंकारवतीमंकविनिवेशितबालकाम् ॥६१॥
दिनश्रियमिवोदारां नवोदितदिवाकराम् ।
नीराजनाभिः सुभगाः सुभ्रुवः समभावयन् ॥६२॥
यतःशिवगिरेंर्मूर्ध्नि जातःस पुरुषोत्तमः ।
ततः प्रसिद्धा लोकेऽस्य शिव इत्याभिधाऽभवत् ॥६३॥
करिष्यत्येष बलवानिह कर्मातिमानुषम् ।
म्लेच्छान्निहत्य महतीं कीएर्तिं विस्तारयिष्यति ॥६४॥
जित्वावाच्यांश्च पाश्चात्यान् प्राच्यांश्च भुजतेजसा ।
तथोदीत्यांश्च विजयी स्वराज्यं संविधास्यति ॥६५॥
साहसी सागरमपि वश्यतामानयिष्यति ।
बली बलैर्दिगन्तेभ्यो वलीनानाययिष्यति ॥६६॥
प्रभावी गिरिदुर्गाणि वनदुर्गाणिचाप्ययम् ।
तथा सलिलदुर्गाणि स्थलदुर्गाणि गोप्स्याति ॥६७॥
बत दिल्लीपतेर्मूध्रिप्रतापेन तपन्नसम् ।
निजं चरणमाधाय जगदाज्ञापयिष्यति ॥६८॥
सुदुर्गमेषु मार्गेषु गहनेषु गिरिष्वपि ।
सरित्सुच समुद्रेषु यस्याप्रतिहता गतिः ॥६९॥
स एष पाण्ड्यद्रविड लाटकर्णाटकेरळान् ।
करहाटवैराटान्ध्रमालवाभीरगुर्जरान् ॥७०॥
आर्यावर्ताश्च दुर्म्लेंच्छकृतावर्त्माननेकशः ।
कुरुजांगलसौवीरधन्वसौराष्टकोसलान् ॥७१॥
वाह्लीकमद्रगान्धारत्रिगर्तानर्तसैन्धवान् ।
कलिंगकामरोपांगवंगकाम्बोजकेकयान् ॥७२॥
पारसीकान् शिबीन् शाल्वान्पुलिंदारदृबर्बरान् ।
काश्मीरमत्स्यमगधविदेहोत्कलटंकणान् ॥७३॥
किरातकाशिपाञ्चालचेदीनपि च कुन्तलान् ।
खशांश्चशूरसेनांश्च हूणान् हैमवतानपि ॥७४॥
उंड्रान्पुंड्रान् ललित्थांश्च महितेन स्वतेजसा ।
चिरजीवी विनिर्जित्य महाराजो भविष्यति ॥७५॥
यथा पृथुरभूत्पूर्वं यथा राजा पुरूरवाः ।
अम्बरीषोऽपि च यथा शिबिश्चौशीनरो यथा ॥७६॥
यथा जनिष्ट मांधाता यथा च निषधाधिपः ।
यथा बभूव भरतो यथा भूपो भगीरथः ॥७७॥
हरिश्चन्द्रः स च यथा रामो दाशरथिर्यथा ।
यथा च मिथिलाधीशो ययातिर्नहुषो यथा ॥७८॥
यथा धर्मधनोराजा धर्मराजो युधिष्ठिरः ।
भविष्यति तथैवायं शाहराजसुतः शिवः ॥७९॥
मध्येसभं दैवविदः सर्वसिद्धान्तपारगाः ।
एवमस्य कुमारस्य जन्मवेलामवविदन् ॥८०॥
प्रचीयमानावयवव्यक्तविग्रहभूषणम् ।
स्थितिप्रवीणलावण्यलब्धसौभाग्यवैभवम् ॥८१॥
विचित्रमणियुक्ताभिर्मुक्ताभिर्मंजुळात्मना ।
विभ्राजमानं हैमेन मुकुटेन शिरःस्पृशा ॥८२॥
लीलाचलाचलं भाले हैमं चलदलच्छदम् ।
दधानं विस्फुरन्मुक्तामणिसूत्रान्तलम्बितम् ॥८३॥
अनर्घ्यहीरकिम्मीरपद्मरागमरीचिभिः ।
संभृतश्रीभरोदग्रे बिभ्राणं भुजभूषणे ॥८४॥
गुरुत्मद्रन्तसंपृक्तसाग्रव्याघ्रनखश्रिया ।
विन्यस्तयाभ्राजमानं कृष्णकाचमणिस्रजा ॥८५॥
सद्रत्ननिकरोदंचत् कांचनप्रतिमात्मिकाम् ।
देवीं जीवन्तिकानाम्नीमाबिभ्राणं भुजान्तरे ॥८६॥
प्रवाळनीळसंमिश्रसुवर्णमणिनिर्मिते ।
वलये ललिताकारे कलयन्तं करद्वये ॥८७॥
बतानन्दमयं दिव्यसूत्रसंबद्धमध्यमम् ।
विस्फुरद्गुल्फवलयं विलसन्मणिनूपुरम् ॥८८॥
विदग्धभिःस्वयं स्निन्धलोचकांचितलोचनम् ।
भालान्तराळविन्यस्त चित्रकज्जलचित्रकं ॥८९॥
कमनीयतमस्वर्णकंचुकावृतविग्रहम् ।
धात्र्यःस्मेरमुखं प्रीतास्तंबालं पर्यपालयन् ॥९०॥
अन्तर्बहिश्चरोप्येष बहिर्विहितानिष्क्रमः ।
व्यधादसूर्यं पश्यायाह शिशुः सूर्यस्य दर्शनम् ॥९१॥
उपवेशनमप्यन्नप्राशनं च यथाविधि ।
अस्य राजकुमारस्य क्रमेण समजायत ॥९२॥
दर्याखानं शरैर्भित्वा नीत्वा निरवलेपताम् ।
विजयी शहराजोऽपि शिवंगिरिमथाव्रजत् ॥९३॥
स तत्र सोदरं शंभोरंभोजस्यमलोचनम् ।
व्यलोकत मुदोपेतः सदोदितपराक्रमः ॥९४॥
गाः काञ्चनानिकरिणस्तुरगांश्च राजा ।
रत्नानि च प्रमुदितो व्यतरत्तदानीम् ॥
सद्यो यथात्र निरमुच्यत भूरि कालम् ।
सर्वोऽर्थिनामपि जनोऽन्यजनार्थनाभ्यः ॥९५॥
अथ धराणिमघोनः सूनुरुच्चैर्धरित्रीम् ।
अधि सरसिजहस्तः संचरल्लोकबन्धुः ॥
निखिलतिमिरहारी बालसूर्योपमानः ।
प्रसभमभ्रुतशोभां वर्धमानः क्रमेण ॥९६॥
इत्यनुपुराणे सूर्यवंशे निधिवासकरकवीन्द्रपरमानन्द प्रकाशितायां संहितायां शिवराजप्रभवो नाम षष्ठोऽध्यायः ॥

सर्व पहा

आषाढी एकादशीच्या दिवशी 'या' ७ गोष्टी टाळाच; अन्यथा विठ्ठल पूजेचे फळ मिळणार नाही!

जळणाऱ्या नातेवाईकांपासून स्वतःचा बचाव कसा करावा? आचार्य चाणक्यांचे विचार जाणून घ्या

महाराष्ट्रातील सर्वात थंड गाव कोणतं? उत्तर ऐकून आश्चर्य वाटेल

वयाच्या ३५ नंतर मित्र अचानक कमी का होतात?

स्वयंपाकघरातील हा एक बदल वीजबिल कमी करू शकतो

सर्व पहा

15 मिनिटांत तयार होणारे फराळी थालीपीठ; आषाढी एकादशीसाठी हेल्दी आणि चविष्ट रेसिपी

मान्सून हेल्थ टिप्स : पावसाळ्यात खा या भाज्या आणि आजारांपासून राहा दूर

Union Bank Recruitment 2026: युनियन बँकेत ३९५ अधिकारी पदांसाठी भरती, पात्रता जाणून घ्या

ब्लीचिंग करण्यापूर्वी या ९ महत्त्वाच्या गोष्टी जाणून घ्या

किडनी निकामी होण्यापूर्वी शरीर हे ८ संकेत देते

पुढील लेख
Show comments