Dharma Sangrah

शिवभारत अध्याय तेरावा

Updated: सोमवार, 26 ऑगस्ट 2024 (16:38 IST)
हितानामहितो भूत्वा महितोपि स्वया श्रिया ।
अहो येदिलशाहोयं न सीदति निराश्रयः ॥३५॥
रुद्धः फरादखानाद्यैर्विरुध्दैरुध्दतस्मयः ।
योत्स्यते तत्र मे भ्राता बिंगरूरपुराश्रयः ॥३६॥
इमानि गिरिदुर्गाणि पालयन्नातिनिर्वृतः ।
योत्स्येहमहितैरत्न सन्नध्दानीकसंयुतः ॥३७॥
अहमत्र स्वयं तत्र शंभुराजः पराक्रमी ।
मोचयिष्यावहे तातं युध्यमानावुभावपि ॥३८॥
अथास्मदभिभूतात्मा महमूदः सुंदुर्मदः ।
सहैव स्वेन दर्पेण महाराजं विमोक्ष्यति ॥३९॥
स्वेन धर्मेण सहितं महितं तातमावयोः ।
महमूदो न चेन्मोक्ता तर्हि भोक्ता स्वकर्म तत् ॥४०॥
यर्हि मोहान्महाराजं येदिलः प्रहरिष्यति ।
तर्हि तं सहितं सद्यस्तात एव हनिष्यति ॥४१॥
अनारतं मनो येषां धर्मपाशनिबंधनम् ।
अलं न तेषां बंधाय कारागारादिबंधनम् ॥४२॥
गृहीता महिता लोके जयवल्ली मया पुरा ।
स्थापितश्चंद्रराजश्च तस्यां तदभिलाषुकः ॥४३॥
घोरात्मनो घोरफटाः कुपिता इव पन्नगाः ।
मां जांगुलिकमालोक्य महतीं शांतिमागताः ॥४४॥
प्रस्थाय प्रथनाय द्राक् मया विद्रावितः पुरा ।
जीवन्नादाय मुक्तश्च फलस्थानपुरेश्वरः ॥४५॥
एतेऽधुना समुदिताः फतेखानादयो भटाः ।
योत्स्यन्तेऽ‍स्मान् समासाद्य द्विपा इव मदोत्कटाः ॥४६॥
बलीयानेष बल्लाळः पालयन् प्रबलं बलम् ।
मन्यते बहुमात्मानं समादाय शिरोबलम् ॥४७॥
अतो द्रुतमितो गत्वा तमेव बलिनां वरम् ।
विनिगृह्य भवन्तोऽद्य मोचयंतु शिरोबलम् ॥४८॥
अथ श्वोवा परश्वोवा फतेखानं महाबलम् ।
अत्र वा तत्र वा वीक्ष्य प्रतियोत्स्यामहे वयम् ॥४९॥
कवींद्र उवाच ।
शिवस्येति वचः श्रुत्वा सैनिकास्ते सहस्रशः ।
पुष्करं पूरयामासुः सिंहनादेन भूयसा ॥५०॥
अथारातिप्रमथनो जगत्स्थापकवंशजः ।
प्रवृध्दप्रथनामोदो गोदोनाम महायुधः ॥५१॥
व्याघ्रान्वयस्तथा भीमो भीमो भीम इवापरः ।
दलितद्वेषिदो‍ःस्तंभदंभस्संभश्च कांटिकः ॥५२॥
शृंगारस्संगरांगानामिंगालकुलसंभवः ।
शिवश्चोत्तालकुंताग्रः करालः कालसन्निभः ॥५३॥
परवीरश्रियां चोरश्चोरवंश्यो गणाग्रणीः ।
भीकोऽतिभीषणानीकोऽत्यभीको रणकर्मणि ॥५४॥
वैरिवित्रासजननो युधि भैरवभैरवः ।
सभाभिर्भासमानोऽस्य सनाभिरपि भैरवः ॥५५॥
अमी शैलपतेश्शूराः सूरा इव सतेजसः ।
स्वया स्वया श्रिया रम्याः प्रणम्यामुं प्रतस्थिते ॥५६॥
आध्यक्ष्ये शिव एतेषां न्ययोजयत कावुकम् ।
सर्वेषां वृष्णिवीराणां वासुदेव इवाहुकम् ॥५७॥
सन्नाहैः स्वैः समाकीर्णास्तेऽवतीर्णाः पुरंदरात् ।
अंबुदा इव गर्जतः सन्नध्दतरसैंधवाः ॥५८॥
तामतीत्य निशां तत्र प्रतीपविजिगीषया ।
प्रयाणाभिमुखीभूय कारयामासुरानकान् ॥५९॥
अथ पद्भिः पदातीनां भिन्दंत इव भूतलम् ।
कर्तयंत इवाश्वीयवर्तकैर्व्योममंडलम् ॥६०॥
प्रकिरन्त इवारीणामुपरि प्रलयानलम् ।
शूरास्ते ददृशुस्सद्यो विकुर्वाणाश्शिरोबलम् ॥६१॥
परस्तु बलवद्वीक्ष्य शिवसैन्यमुपागतम् ।
निजगाद निजानीकपत्तीनतिमतीनिदम् ॥६२॥
बल्लाळ उवाच
मा भैष्ट स्मयबंहिष्ठमवलोक्य द्विषद्वलम् ।
प्रधने निधनं श्रेष्ठमश्रेष्ठं हि पलायनम् ॥६३॥
फतेखानमतेनैते वयं प्राप्ताश्शिरोबलम् ।
अवस्थानमिहास्माकं ध्रुवस्थानमिव ध्रुवम् ॥६४॥
यदि वो भयमेतर्हि तर्हि सद्यो ममाज्ञया ।
द्वितीयमिवमामत्र वप्रमालंब्य तिष्ठत ॥६५॥
न ह्यस्मन्निधनेनैव स्वामिकार्यं प्रसिध्यति ।
अतो युध्दाय महते वप्रमेवाश्रयामहे ॥६६॥
क्षोदिष्ठमपि दिष्टेन दिष्टेऽमुष्मिन् सुदुर्गमे ॥
दुर्गमेतध्दि सिधिन्नो युध्दस्यास्य विधास्यति ॥६७॥
साभिमानैस्साभिमानं युध्यमानैश्शिरोबले ।
इहास्माभिश्शिरोदेयं न तु देयं यशो रणे ॥६८॥
यशसे दयितां स्वीयां दशास्यदमनो जहौ ।
यशसे दानवाधीशो बलिः पातालमाययौ ॥६९॥
यशसे दानवारातिः कामठीं तनुमाददे ।
यशसे स्वयमुत्कृत्योत्कृत्य मांसं शिबिर्ददौ ॥७०॥
यशसे खंडपरशुः सद्यो हालाहलं पपौ ।
यशसेऽस्थीन्यहोत्कृत्य दधीचिस्सद्गतिं ययौ ॥७१॥
यशसे काश्यपीं सर्वामत्यजज्जमदग्निजः ।
यशसे शरशय्यायामशेत स्वर्णदीसुतः ॥७२॥
तदद्य यशसेऽर्थाय प्रतियोत्स्यामहे परान् ।
यावन्न प्रहरन्त्येते वीक्ष्य वीक्ष्य वरान् वरान् ॥७३॥
इत्युक्तवति बल्लाळे योधास्तस्य सहस्रशः ।
सद्यस्तद्दुर्गमास्थाय विनेदुर्द्विरदा इव ॥७४॥
अथ प्रतिभटान् दृष्ट्वा कृतवप्रावलंबनान् ।
कावुकस्समराकांक्षी स्वान् सैन्यानिदमब्रवीत् ॥७५॥
कावुक उवाच
अहो शिवस्य विषयं संप्राप्तो विजिगीषया ।
बलवानेष बल्लाळो वप्रमाश्रित्य तिष्ठति ॥७६॥
अस्मदीयमिदं ह्येष समाश्रित्य शिरोबलम् ।
अहो दर्शयते मन्दमतिरात्मशिरोबलम् ॥७७॥
न सन्त्यट्टास्तथा चास्य नह्यस्ति परिखा तथा ।
अतो न दुर्गमं दुर्गमदो जानीत सैनिकाः ॥७८॥
क्रियतां परिवेषोऽस्य परितोऽध्वा निरुध्यताम् ।
क्षणेनैकेन निखिला परिखापि प्रपूर्यताम् ॥७९॥
विहंगमानिवोदग्रक्रमानात्मतुरंगमान् ।
उत्पात्यादीयतामेतत् कुद्दालैर्वा विदार्यताम् ॥८०॥
उत्खन्यतामदः सद्यो मूळमस्य निखन्यताम् ।
किमु दुर्गमिदं लंका येनातंकाय जायताम् ॥८१॥
इत्युक्ताः कावुकेनोच्चैः सैनिकाः समरोध्दताः ।
सद्यस्तद्दुर्गमादातुमुपचक्रमिरेऽभितः ॥८२॥
परेप्यमून् पुरो वीक्ष्य सुरोध्दुरपराक्रमान् ।
मन्वानाः प्रधनारंभं धन्वान्यादुधुवुस्तमाम् ॥८३॥
उपरिष्टादिमान् द्रष्टुं यश्चकारोन्नतं शिरः ।
स सद्यच्छिन्नमूर्धत्वादभूत् केतुग्रहो यथा ॥८४॥
शाखाभ्य इव वृक्षाणां चंचरीकपरंपराः ।
शरासनेभ्यश्शूराणां निरीयुर्निशिताश्शराः ॥८५॥
क्रूराः कार्मुकमाकर्ण समाकृष्य महौजसः ।
शूराश्शिरांसि शूराणां निचकर्तुश्शितैश्शरैः ॥८६॥
कृतहस्तविनिर्मुक्ताः सायकाः पातुकाः क्षितिम् ।
विविशुस्तत्तलं चोच्चैः ददृशुश्च फणीश्वरम् ॥८७॥
रथांगैर्लागलैरक्षैर्मुसलैरप्युलूखलैः ।
उपलैश्च घरट्टैश्च प्रज्वलद्भिस्तथोल्मुकैः ॥८८॥
खादिरांगारपुंजैश्च तप्तैस्तैलैश्च भूरिशः ।
तैस्तैश्शस्त्रैश्च वप्रस्थाः प्रतिवीरानवाकिरन् ॥८९॥
हन्यमानैरपि परैः शिवसैन्यैरुदायुधैः ।
परिमंडलितं दुर्गमिदमभ्यधिकं बभो ॥९०॥
ततो गदाभिर्दिर्घाभिः परिघैरप्यनेकधा ।
तद्दुर्गं दारयामासुरुध्दताः केपि सैनिकाः ॥९१॥
केपि कुंताभिघातेन सुषिराणि प्रचक्रिरे ।
निश्रेणीरधिरुह्यान्ये तद्भित्तीः परिरेभिरे ॥९२॥
आरूढास्तुरगान् केपि गरूडानिव रंहसा ।
तदुत्पतितुमैहन्त हंत संप्रेक्ष्य सर्वतः ॥९३॥
कावुकस्तु गदादीनामायुधानामनेकधा ।
अभिघातेन महता दारयामास गोपुरम् ॥९४॥
स भिन्नगोपुरं वीरः प्राकारं प्राविशद्यदा ।
अभ्येत्य युयुधे तत्र येदिलानीकिनी तदा ॥९५॥
वडवाग्नीनिवाग्राह्यतमानभ्यागतानिमान् ।
प्रतिगृह्य प्रतिग्राह्यान् बल्लालो बलवान् बभौ ॥९६॥
दर्शनीयतमः प्रांशुः पिनध्दकवचो युवा ।
कुंतधारी धन्वधरो धीरः सैनिकसंवृतः ॥९७॥
तुंगं तुरंगमारूढः स तदाभ्यधिकं तथा ।
दिदीपे किल निर्वाणवेलायां दीपको यथा ॥९८॥
अथ भीकश्च मीमश्च तुको गोदः सदस्तथा ।
संभश्चान्येच सुभटाः पुरोविहितकावुकाह ॥९९॥
द्रुतमुत्पातितोदग्रतुरगास्तरलायुधाः ।
प्रहरंति स्म बल्लालप्रभृतींस्तीव्रया क्रुधा ॥१००॥
ततस्तेषां च तेषां च द्वेषांधतमसांतरे ।
आयुधान्यायुधीयानामन्योन्यं परिरेभिरे ॥१०१॥
समरारंभसंरभादन्योन्यमभियायिनाम् ।
तार्क्ष्यस्फुरत्तरतरतुरगस्थितिशालिनाम् ॥१०२॥
प्रत्यहन्यंत शतशः शस्त्रैः शस्त्राणि शस्त्रिणाम् ।
विद्युतामिव तेजोभिर्दिवि तेजांसि विद्युताम् ॥१०३॥
कुंतपाणिः कुंतधरं धन्वधारी धनुर्धरम् ।
गदी जघान गदिनं तदानीं शकलीभवन् ॥१०४॥
न चर्मिणं विना चर्मी न वर्मी वर्मिणं विना ।
युयुधे प्रधनेऽमुष्मिन्न धन्वी धन्विनं विना ॥१०५॥
उरच्छदमनिर्भिद्य द्रुतमुत्पातिताः शराः ।
क्षणं नभस्यभासंत यथा वैभाकराः कराः ॥१०६॥
भटान् सारेच्छदान् भित्वा वसुधां विविशुः शराः ।
ततो रुधिरधाराणामाविरासुः परंपराः ॥१०७॥
क्रुद्धहस्तवदुन्मुक्तपृषत्कोत्कृत्तमस्तकाः ।
क्षरद्रुधिरदिग्धांङ्गाः कबंधास्तत्र चुक्रुधुः ॥१०८॥
ततो धरातले पेतुर्मातंगानां तताः कराः ।
शरैश्शकलितांगानं तुरंगाणांच कंधराः ॥१०९॥
शरासनधरैश्शूरैः शरच्छिन्नान्यनेकशः ।
परितस्तरिरेऽरीणां शिरांसि समराजिरे ॥११०॥
कंचित्प्रसभमभ्येत्य गदापाणिमुपागतम् ।
संग्रामसागरग्राहमभिजग्राह कश्चन ॥१११॥
तत्रान्यच्छिभमेकं यः स्वं हस्तं नावबुद्धवान् ।
स एकेनैव हस्तेन हस्तीवाभिययौ परान् ॥११२॥
पंचविंशतिमिंगालः पोलः पंच च सप्त च ॥
चोरश्चतुर्दश तथा नवाष्टौ षट्च घांटिकः ॥११३॥
निजघान क्षणात्तत्र वीरान् व्याघ्रश्च षोडशः ।
एकोनविंशाः सुभटाः कावुकेन निषूदिताः ॥११४॥
प्रहतानेकपत्यश्च द्विपवर्ष्मसमुद्भवा ।
प्रावर्तत तदा तत्र रयाद्रक्ततरंगिणी ॥११५॥
पराभूय परे वीराः परिवव्रुर्यदा बलात् ।
तदाभयाद्विदुद्राव बल्लालबलमाहवात् ॥११६॥
हैबतस्यात्मजस्तत्र शत्रुभिर्विमुखीकृतम् ।
न चक्षमे स्थिरीकर्तुं तदलं विचलद्बलम् ॥११७॥
अथाद्धा स किल स्पर्धामादायोद्यमितायुध ।
रयादभीयाय परान् रुषा वृत्र इवामरान् ॥११८॥
यावन्तः किल तस्यासन्निषुधिद्वितयी शराः ।
तावन्तः पातितास्तेन कावुकीयाह पुरस्सराः ॥११९॥
स यावत् प्रासमादाय त्रासयत्यभितः परान् ।
तावत् कुंताभिघातेन कावुकस्तमपातयत् ॥१२०॥
युध्यमानेऽभिमानेन सिंहेनेवोन्मदे गजे ।
शिवसेनधिपतिना पापिते हैबतात्मजे ॥१२१॥
रक्तमेदोवसामांसमसृणे क्षोणिमंडले ।
कोपि धर्तुमहो धैर्यं प्रभुरासीन्न तद्बले ॥१२२॥
तत्र दंताग्रविन्यस्ततृणास्त्राणार्थिनो जनाः ।
शतशः स्वैरमगमन् विमुक्तास्तेन मानिना ॥१२३॥
केपि युद्धाभिमानेन युध्यमानाः प्रमन्यवः ।
सायकैश्शकलीभूताः शतक्रतुपदं ययुः ॥१२४॥
केचन च्छिन्नचरणाः केचन च्छिन्नपाणयः ।
केचन च्छिन्नवर्माणः केतन च्छिन्नवक्षसः ॥१२५॥
छिन्नत्रिकास्तथा केचित् केचिच्छिन्नकफोणयः ।
रणंतः करुणं मम्लुर्विंलुठंतो महीतले ॥१२६॥
अथ विद्विषतस्तस्य शयानस्य रणांगणे ।
कुंजरांस्तुरगांस्तुंगांस्तत्तदाभरणानि च ॥१२७॥
चित्राण्यपि च वस्त्राणि तनुत्राण्यायुधानि च ।
याप्ययानानि कोषांश्च संभारानपरानपि ॥१२८॥
संप्रहृष्टास्समादाय सुभटाः कावुकादयः ।
षुरंदरप्रभुं द्रष्टुं पुरंदरगिरिं ययुः ॥१२९॥
अपहतरिपुवीरानेकयाश्वप्रवेक -
प्रचुरकनकमुक्ताहाररत्नोपहाराः ।
कवनमिताशिरस्काः सैनिकाः कावुकाद्याः
सरभसकृतकार्याः शाहसूनुं प्रणेमुः ॥१३०॥
इत्यनुपुराणे कवींद्रपरमानंदप्रकाशितायां संहितायां त्रयोदशोध्यायः ॥१३॥

सर्व पहा

आषाढी एकादशीच्या दिवशी 'या' ७ गोष्टी टाळाच; अन्यथा विठ्ठल पूजेचे फळ मिळणार नाही!

जळणाऱ्या नातेवाईकांपासून स्वतःचा बचाव कसा करावा? आचार्य चाणक्यांचे विचार जाणून घ्या

महाराष्ट्रातील सर्वात थंड गाव कोणतं? उत्तर ऐकून आश्चर्य वाटेल

वयाच्या ३५ नंतर मित्र अचानक कमी का होतात?

स्वयंपाकघरातील हा एक बदल वीजबिल कमी करू शकतो

सर्व पहा

तेनालीराम कहाणी : गोष्ट जादुई पाण्याची

आरोग्यासाठी अत्यंत गुणकारी आणि चवीला अप्रतिम असणारी 'जांभूळ स्मूदी'; एक उत्तम हेल्थ ड्रिंक

Ghost Lashes Trend डोळ्यांच्या मेकअपचा बदलता ट्रेंड: घरच्या घरी कसा मिळवाल 'घोस्ट लैशेज' लुक?

Lokmanya Bal Gangadhar Tilak Jayanti Abhivadan 2026 लोकमान्य बाळ गंगाधर टिळक जयंतीनिमित्त विनम्र अभिवादन

फक्त ३० सेकंदात ओळखा, समोरची व्यक्ती तुमच्यावर जळते का?

पुढील लेख
Show comments