suvichar

शिवभारत अध्याय अठरावा

Updated: मंगळवार, 27 ऑगस्ट 2024 (12:35 IST)
स एष यवनो यस्य दुर्नयेन गरीयसा ।
अहो कलियुगस्यास्य माहात्म्यमुपचीयते ॥१८॥
दुर्नयेन भृशं येन निशुंभसमतेजसा ।
अवाज्ञायत वै देवी तुलजापुरवासिनी ॥१९॥
यः सदैवानस्तिदयो रोषणो राशिरंहसाम् ।
द्विजानक्षिगतानक्षिगतानिव जिघांसति ॥२०॥
पर्वतः पातकस्येव सर्वतः सुमदोद्धतः ।
पद्धतिं वर्णधर्माणां रोध्दुं यो हि व्यवस्थितः ॥२१॥
निषेद्धा सर्वधर्माणामधर्माणां विवर्धकः ।
स मया हंत हंतव्यः स मया समुपागतः ॥२२॥
हविःप्रकृतयो गावः पयसा सर्पिषापि च ।
विधये सप्ततंतूनां विधिना विहिता भुवि ॥२३॥
तासामसौ तामसात्मा हंता हंत दिने दिने ।
विपर्यासयितुं धर्ममशेषमपि वांछति ॥२४॥
इयं वसुंधरा देवी धर्मेण खलु धार्यते ।
ध्रुवं स धार्यते देवैस्ते‍ऽध्यार्यंत द्विजातिभिः ॥२५॥
अतस्सर्वस्य लोकस्य मूलमेते द्विजातयः ।
पालनीयाः प्रयत्नेन पूजनीयाश्च सर्वदा ॥२६॥
सुराणां भूसुराणांच सुरभीणां च पालनम् ।
विदधाम्यहमेवाद्धा भूत्वा भूत्वा युगे युगे ॥२७॥
येनोभोनिधिमाविश्य बिभ्रता मीनरूपताम् ।
हतः शंखासुरः संख्ये श्रुतयश्चाप्युपाह्लताः ॥२८॥
अधारिमंदरो येन पृष्ठे स्वे कमठात्मना ।
तथाचाधारतामेत्य व्यधायि वसुधा स्थिरा ॥२९॥
उधृत्य वसुधां सद्यः समुद्राद्दंष्ट्रया स्वया ।
येन वाराहरूपेण हिरण्याक्षो निषूदितः ॥३०॥
हरेर्यवीयसा येन हरिणा ह्रस्वरूपिणा ।
अलं छलं कलयता बलिर्नीतो रसातलम् ॥३१॥
आविर्भूय सभास्तंभान्नरसिंहत्वमीयुषा ।
व्यदारि करजैर्यैन हिरण्यकशिपोरुरः ॥३२॥
भृगुवंशावतंसेन रैणुकेयेन येन वै ।
कार्तवीर्यं निहत्याजौ कृता निःक्षत्रिया मही ॥३३॥
येन दाशरथीभूय निबद्धांभोधिसेतुना ।
दशकंठशिरः श्रेणि शरेणैकेन पातिता ॥३४॥
वृष्णिवंशावतंसेन येन शूरेण शौरिणा ।
धर्मं व्यवस्थापयता हताः कंसादयः खलाः ॥३५॥
स विष्णुस्सर्वदेवानां सर्वस्वमहमीश्वरः ।
हर्तुं भारमिमं भूमेराविर्भूतोस्मि भूतले ॥३६॥
यवनानाममी वंशाः सर्वेप्यंशास्सुरद्विषाम् ।
जगतीं निजधर्मेण निमज्जयितुमुद्यताः ॥३७॥
तस्मादेतान् हनिष्यामि दानवान् यवनाकृतीन् ।
प्रथयिष्यामि धर्मस्य पंथानमकुतोभयम् ॥३८॥
जयवल्लीवनं घोरं गृहं कंठीरवस्य मे ।
विशन्निधनमागंता द्विषन्नफजलो गजः ॥३९॥
समुत्पतन्पक्षबलादलक्षितनिजांतकः ।
पतंग इव मां लब्ध्वा स वै निधनमेष्यति ॥४०॥
इति चित्ते विनिश्चित्य स शिवः पुरुषोत्तमः ।
संदिश्य निजसेनान्यं रिपुराष्ट्रविकर्षणे ॥४१॥
नरानधिकृतास्तत्तत्कार्येष्ववहितान् हितान् ।
नियुज्य निजराष्ट्रस्य दुर्गाणां चाभिगुप्तये ॥४२॥
स्वयं षाड्गुण्यनिपुणः परवीरविमर्दनः ।
परीतः पत्तिसैन्येन जयवल्लीमुपागमत् ॥४३॥
अथ गुप्तेंगिताकारमपारभुजपौरुषम् ।
प्रतीतमन्यैरजितं शक्तित्रयसमन्वितम्‍॥४४॥
जयवल्लीमधिष्ठाय स्वयं योध्दुमवस्थितम् ।
सन्नद्धानीकनिवहं निशम्याफजलश्शिवम् ॥४५॥
व्यसृजद्वाचिकं तस्मै सर्वार्थविदुषे यथा ।
तथा निशम्यतां सर्वं विबुधां कथयामि वः ॥४६॥
अफजल उवाच
विदधाति यदौद्धत्यं भवानद्य पदे पदे ।
तद्येदिलस्य हृदये भजते शल्यरूपताम् ॥४७॥
गते निजामे विलयं गमितः स्वीयतां स्वयम् ।
येदिलेन वितीर्णोयस्ताम्रेभ्यः संधिकाम्यया ॥४८॥
स एष विषयस्तेषां गिरिदुर्गसमाश्रयः ।
गृहीतस्संगृहीतश्च शाहराजात्मज त्वया ॥४९॥
भवता सततं लाभवता तत्र पदे पदे ।
गृहीतविषयः क्रुद्धो रुद्धो राजपुरीश्वरः ॥५०॥
त्वयेदं चंडराजस्य गाढमन्यदुरासदम् ।
अभिक्रम्य च विक्रम्य प्राज्यं राज्यं हृतं हठात् ॥५१॥
त्वया गृहीत्वा कल्याणं तथा भीमपुरीमपि ।
यवनानां महासिद्धिनिलयाः किल पातिताः ॥५२॥
तुभ्यं कुप्यंति ते‍ऽद्यापि यवनाः पवनाशनाः ।
अपहृत्यापि सर्वस्वं कृता येषां विडंबना ॥५३॥
निगृह्य यवनाचार्यानविचार्यात्मनो बलम् ।
प्रतिबध्नास्यविद्धानामध्वानमकुतोभयः ॥५४॥
यच्चक्रवर्तिचिह्नानि धत्से स्वयमभीतवत् ।
अध्यारोहसि च स्वर्णसिंहासनमनीतिमान् ॥५५॥
स्वयमेवानुगृह्णासि निगृह्णासि च मानवान् ।
अहो आत्मवशोगम्यान्ननमस्याभिमानवान् ॥५६॥
दुर्निवारगतिर्यस्माद्यस्मात् कस्माद्विभेषिन ।
तस्मादहं प्रेषितोस्मि येदिनेल प्रतापिता ॥५७॥
येइलस्य नियोगाद्यन्मयासह समागतम् ।
उद्योजयति सद्यो मां तदिदं षड्विधं बलम् ॥५८॥
मुसेखानादयो ह्येते त्वयासह युयुत्सवः ।
प्रोत्साहयंति मामत्र जयवल्लीं जिघृक्षवः ॥५९॥
तदद्यमन्नियोगेन संधिमेव महीपते ।
विधेहि देहि सकलानचलानचलामपि ॥६०॥
सिंहं लोहं महांतं च प्रबलं च शिलोच्चयम् ।
पुरंदरं गिरिं तद्वत् पुरीं चक्रावतीमपि ॥६१॥
विषयं च तथा नीराभीमरथ्यंतराश्रयम् ।
प्रणिपत्य प्रयच्छाशु दिल्लींद्रायामितौजसे ॥६२॥
या चंद्रराजादाच्छिद्य गृहीतानिग्रहात्त्वया ।
जयवल्लीमिमामल्लीशाहस्त्वां तां हि याचते ॥६३॥
उपनतमहितस्य पत्रलेखं
रहसि निशम्य तमेतमेकवीरः ।
स किल सकलराजलोकरत्नं
न्यधित निजे हृदि कंचिदेव यत्नम् ॥६४॥
स्मृत्वा मंत्रमथेप्सिताय जगतः सर्वस्य सर्वोत्तरं
यत्संप्रेषितवानसौ नरपतिः पत्रस्य तस्योत्तरम् ॥
यच्चागादभिमानवानफजलः सज्जस्य तस्याटवीं
तत् सर्वं कथयामि वः सुमतयः श्रेयस्करं श्रूयताम् ॥६५॥
इत्यनुपुराणे सूर्यवंशे कवींद्रपरमानंदप्रकाशितायां शतसाहस्र्यां संहितायां संदेशदेशनाम अष्टादशो‍ऽध्यायः ॥१८॥

सर्व पहा

Ganesh Chaturthi 2026 Sthapana Shubh Muhurat: १४ सप्टेंबर रोजी गणपती स्थापना शुभ मुहूर्त

देवांना अत्यंत प्रिय असणाऱ्या या फुलांच्या माळा अर्पण करा; मिळवा विशेष आशीर्वाद!

गणपती बाप्पाच्या स्वागतासाठी ३ प्रकारच्या चॉकलेट मोदकांची रेसिपी

कॅल्शियमची कमतरता दूर करण्यासाठी रोजच्या आहारात हे पदार्थ खा; हाडे आणि दात राहतील मजबूत!

खाऊन योग करणे योग्य आहे की अयोग्य, जेवणानंतर योगा करण्याचे परिणाम जाणून घ्या

सर्व पहा

नैतिक कथा : गोष्ट चेटकीण आणि गुलाब फुलाची

गणपती बाप्पा आणि गौरीच्या प्रसादासाठी पौष्टिक ड्रायफ्रूट्स खजूर रोल पाककृती

सततचा खोकला हे फुफ्फुसाच्या कर्करोगाचे लक्षण आहे का? जाणून घ्या कर्करोगतज्ज्ञांचा महत्त्वाचा सल्ला

श्री गणेशाच्या नैवेद्यासाठी केशरी खव्याचे लाडू, गणपती उत्सवामध्ये नक्की ट्राय करा

या पानांचे पाणी आरोग्यासाठी फायदेशीर? उकळून पिण्यापूर्वी जाणून घ्या संभाव्य फायदे

पुढील लेख
Show comments