कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे । मनस्वी निःशङ्कः स्वजनहृदयानन्दजनको मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१०॥
कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तियुगतस्तमोवॄत्तिः क्वापि त्रितयरहितः क्वापि च पुनः । कदाचित्संसारी श्रुतिपथविहारी क्वचिदपि मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥११॥
कदाचिन्मौनस्थः क्वचिदपि च व्याख्याननिरतः कदाचित्सानन्दं हसति रमसत्यक्तवचसा । कदाचिल्लोकानां व्यवहृतिसमालोकनपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१२॥
कदाचिच्छक्तीनां विकचमुखपद्मेषु कवलान्क्षिपंस्तासां क्वापि स्वयमपि च गृह्वन्स्वमुखतः । महाद्वैतं रूपं निजपरविहीनं प्रकटयन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१३॥
क्वचिच्छैवैः सार्धं क्वचिदपि च शाक्तैः सह वसन कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन । कदागाणापत्यैर्गत सकलभेदोऽद्वयतया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१४॥
निराकारम क्वापि क्वचिदपि च साकारममलम निजं शैवं रूपं विविधगुणभेदेन बहुधा । कदाश्चर्यं पश्यन्किमिदमिति हॄष्यन्नपि कदा मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षत
जीवन्मुक्तानन्दलहरी स्तोत्रम