Festival Posters

आनंद रामायण

Updated: शुक्रवार, 12 एप्रिल 2024 (11:44 IST)
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकी - लक्ष्मणोपेतं जटामुकुटमंडितम् ॥८॥
सासितूण धनुर्बाण पाणिं नक्तंचरान्तकम् । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥९॥
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु भालं दशरथात्मजः ॥१०॥
कौसल्येयो दृशौ पातु- विश्वामित्रप्रियः श्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥११॥
जिह्वां विधानिधिः पातु कण्ठं भरतवंदितः । स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥१२॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् । पार्श्वे रघुवरः पातु कुक्षी इक्ष्वाकुनंदनः ॥१३ ॥(जादा चरण)
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः । सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्प्रभुः ॥१४॥
उरू रघूत्तमः पातु गुह्यं रक्षः कुलान्तकृत् । जानुनी सेतुकृत् पातु जंघे दशमुखान्तकः ॥१५॥
पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः । एतां रामबलोपेतां रक्षां यः सुकृती पठेत्॥ स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१६॥
पातालभूतलव्योम चारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥१७॥
रामेति रामभद्रेति रामचंद्रेति वा स्मरन् । नरो न लिप्यते पापैउर्भुक्तिं मुक्तिं च विन्दति ॥१८॥
जगच्चैकमंत्रेण रामनाम्नाऽभिरक्षितम् । यः कण्ठे धरयेत्तस्य करस्थाः सर्वसिद्धयः ॥१९॥
वज्रपंजरनामेदं यो रामकवचं पठेत् । अव्याहताज्ञः सर्वत्र लभते जयमंगलम् ॥२०॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥२१॥
रामो दशरथिः शूरो लक्ष्मणाऽनुचरो बली॥ काकुत्त्स्थः पुरुषः पूर्णः कौसल्यानंदवर्धनः ॥२२॥
वेदांतवेधो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ॥२३॥
इत्येतानि जपेन्नित्यं यद्भक्तः श्रद्धयान्वितः । अश्वमेधधिकं पुण्यं लभते नात्रसंशयः ॥२४॥
सन्नध्हः कवची खड्गी चायबाणधरो युवा । गच्छन् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥२५॥
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥२६॥
फलमूलाशनौ दांतौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रतरौ रामलक्ष्मणौ ॥२७॥
धन्विनौ बद्धनिस्त्रिंशौ काकपक्षधरौ श्रुतौ । वरौ मां पथि रक्षेतां तावुबौ रामलक्ष्मणौ ॥२८॥
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्व धनुष्मताम् । रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥२९॥
आत्तसज्जधनुषा विषुस्पृशा वक्षयाशुगनिषंग संगिनौ । रक्षणाय मम रामलक्ष्मणा वग्रतः पथि सदैव गच्छताम् ॥३०॥
आरामः कल्पवृक्षाणां विरामः सकलपदाम् । अभिरामस्त्रिलोकानं रामः श्रीमान्स नः प्रभुः ॥३१॥
रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथय नाथाय सीतयाः पतये नमः ॥३२॥
श्री राम रघुनंदन राम राम
श्री राम भरताग्रज राम राम
श्री राम रणकर्कश राम राम
श्री राम शरणं भव राम राम ॥३३॥
लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथं कारुण्यरूपं करुणाकरं तं श्रीरामचंद्रं शरणं प्रपद्ये ॥३४॥
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वंदे रघुनन्दनम् ॥३५
गोष्पदीकृतवारीशं मशकीकृरराक्षसम् । रामायणमहामाला रत्नं वन्देऽनिलात्मजम् ॥३६॥
अघौध तिष्ठ दूरे त्वं रोगास्तिष्ठंतु दूरतः । वरीवर्ती सदाऽस्माकं हृदि रमो धनुर्धरः ॥३७॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूतमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३८॥
राम राम तव पाद पंकजं चिन्तयामि भवबंधमुक्तये । वंदितं सुरनरेंद्रमौलिभिर्ध्यायितं मनसि योगिभिः सदा ॥३७॥
रामं लक्षमणपूर्वजं रघुवरं सीतापतिं सुंदरम् । काकुत्स्यं करुणार्णवं गुणनिधिं विप्रप्रियं धर्र्मिकम् ।
राजेन्द्रं सत्यसंधं दशरथनयं शामलं शान्तिमूर्तिम् । वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥४०॥
एतानि रामनामानी प्रातरुत्थाय यः पठेत् । अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ॥४१॥
माता रामो मत्पिता रामचंद्रः स्वामी रामो मत्सखा रामचंद्रः । सर्वस्वं मे रामचंद्रो दयालुर्नान्यं जाने नैव जाने न जाने ॥४२॥
श्रीरामनामामृत मंत्रबीज संजीवनी चेन्मनसि प्रविष्टा । हालाहलं वा प्रलयानलं वा मृत्योर्मुखं वा विशतां कुतो भीः ॥४३॥
श्रीशब्दपूर्वं जयशब्दमध्यं जयद्वयनापि पुनः प्रयुक्तम् । त्रिःसप्तकृत्वो रघुनाथ नाम जपान्निहन्या द्विजकोटिहायाः ॥४४॥
एवं गिरीन्द्रजे प्रोक्ता रामरक्षा मया तव । मयोपदिष्टा या स्वप्ने विश्वामित्राय वै पुरा ॥४५॥
रामदास उवाच
एवं शिवेनोपदिष्टं श्रुत्वा देवी गिरीन्द्रजा । रामरक्षां पठित्वा सा स्कंदं समभिमंत्रयत् ॥४६॥
तस्यास्तेजोबलेनैव जघान तारकासुरम् । षडाननः क्षणदेव कृतकृत्योऽभवत् पुरा ॥४७॥
सैवेयं रामरक्षास्ते मयाख्याताऽतिपुण्यदा । यस्याः श्रवणमत्रेण कस्यापि न भयं भवेत् ॥४८॥
वाल्मिकीनाऽनयापूर्वं कुशायह्यभिशेचनम् । कृतं बालग्रहाणां च शांत्यर्थं सा मयोदिता ॥४९॥
बालानां ग्रहशांत्यर्थं जपनीया निरंतरम् । रामरक्षा महाश्रेष्ठा महाघौघ निवारिणी ॥५०॥
नास्याः परतरं स्तोत्रं नास्याः परतरो जपः । नास्याः परतरं किंचित्सत्यं सत्यं वदाम्यहम् ॥५१॥
॥ इति श्री शतकोटि रामचरितांतर्गत श्रीमदानन्दरामायणे
वाल्मीकीये जन्मकाण्डे रामरक्षाकथनं नाम पञ्चमः सर्गः ॥
 

सर्व पहा

गौरी पूजनात ऐनवेळी मासिक पाळी आली तर काय करावे? जाणून घ्या धार्मिक नियम, पर्याय आणि आरोग्य!

ज्येष्ठा गौरी: महानैवेद्याच्या ताटाची मांडणी व वाढण्याची पद्धत

गणपती बाप्पा आणि गौरीच्या प्रसादासाठी पौष्टिक ड्रायफ्रूट्स खजूर रोल पाककृती

Vishwakarma Jayanti 2026 Wishes in Marathi विश्वकर्मा जयंती शुभेच्छा मराठी

Gauri Geete in Marathi गौरी गणपतीची गाणी

सर्व पहा

Ganesh Chaturthi 2026 Sthapana Shubh Muhurat: १४ सप्टेंबर रोजी गणपती स्थापना शुभ मुहूर्त

देवांना अत्यंत प्रिय असणाऱ्या या फुलांच्या माळा अर्पण करा; मिळवा विशेष आशीर्वाद!

गणपती बाप्पाच्या स्वागतासाठी ३ प्रकारच्या चॉकलेट मोदकांची रेसिपी

कॅल्शियमची कमतरता दूर करण्यासाठी रोजच्या आहारात हे पदार्थ खा; हाडे आणि दात राहतील मजबूत!

खाऊन योग करणे योग्य आहे की अयोग्य, जेवणानंतर योगा करण्याचे परिणाम जाणून घ्या

पुढील लेख
Show comments