suvichar

श्रीराघवेन्द्रस्तोत्रम्

Updated: गुरूवार, 11 एप्रिल 2024 (17:55 IST)
यत्पादकञ्जरजसा परिभूषिताङ्गा यत्पादपद्ममधुपायितमानसा ये । यत्पादपद्मपरिकीर्तनजीर्णवाचस्तद्दर्शनं दुरितकाननदावभूतम् ॥९॥
सर्वतन्त्रस्वतन्त्रोऽसौ श्रीमध्वमतवर्धनः । विजयीन्द्रकराब्जोत्थसुधीन्द्रवरपुत्रकः । श्रीराघवेन्द्रो यतिराड् गुरुर्मे स्याद्भयापहः ॥१०॥
ज्ञानभक्तिसुपुत्रायुः यशः श्रीपुण्यवर्धनः । प्रतिवादिजयस्वान्तभेदचिह्नादरो गुरुः । सर्वविद्याप्रवीणोऽन्यो राघवेन्द्रान्नविद्यते ॥११॥
अपरोक्षीकृतः श्रीशः समुपेक्षितभावजः । अपेक्षितप्रदाताऽन्यो राघवेन्द्रान्नविद्यते ॥१२॥
दयादाक्षिण्यवैराग्यवाग्पाटवमुखाङ्कितः । शापानुग्रहशक्तोऽन्यो राघवेन्द्रान्नविद्यते ॥१३॥
अज्ञानविस्मृतिभ्रान्तिसंशयापस्मृतिक्षयाः । तन्द्राकम्पवचःकौण्ठ्यमुखा ये चेन्द्रियोद्भवाः । दोषास्ते नाशमायान्ति राघवेन्द्रप्रसादतः ॥१४॥
श्री राघवेन्द्राय नमः इत्यष्टाक्षर मन्त्रतः । जपिताद्भावितान्नित्यं इष्टार्थाः स्युर्नसंशयः ॥१५॥
हन्तु नः कायजान्दोषानात्मात्मीयसमुद्भवान् । सर्वानपि पुमर्थांश्च ददातु गुरुरात्मवित् ॥१६॥
इति कालत्रये नित्यं प्रार्थनां यः करोति सः । इहामुत्राप्तसर्वेष्टो मोदते नात्र संशयः ॥१७॥
अगम्यमहिमा लोके राघवेन्द्रो महायशाः । श्रीमध्वमतदुग्धाब्धिचन्द्रोऽवतु सदाऽनघः ॥१८॥
सर्वयात्राफलावाप्त्यै यथाशक्तिप्रदक्षिणम् । करोमि तव सिद्धस्य वृन्दावनगतं जलम् । शिरसा धारयाम्यद्य सर्वतीर्थफलाप्तये ॥१९॥
सर्वाभीष्टार्थसिद्ध्यर्थं नमस्कारं करोम्यहम् । तव सङ्कीर्तनं वेदशास्त्रार्थज्ञानसिद्धये ॥२०॥
संसारेऽक्षयसागरे प्रकृतितोऽगाधे सदा दुस्तरे । सर्वावद्यजलग्रहैरनुपमैः कामादिभङ्गाकुले ।
नानाविभ्रमदुर्भ्रमेऽमितभयस्तोमादिफेनोत्कटे । दुःखोत्कृष्टविषे समुद्धर गुरो मा मग्नरूपं सदा ॥२१॥
राघवेन्द्रगुरुस्तोत्रं यः पठेद्भक्तिपूर्वकम् । तस्य कुष्ठादिरोगाणां निवृत्तिस्त्वरया भवेत् ॥२२॥
अन्धोऽपि दिव्यदृष्टिः स्यादेडमूकोऽपि वाग्पतिः । पूर्णायुः पूर्णसम्पत्तिः स्तोत्रस्यास्य जपाद्भवेत् ॥२३॥
यः पिबेज्जलमेतेन स्तोत्रेणैवाभिमन्त्रितम् । तस्य कुक्षिगता दोषाः सर्वे नश्यन्ति तत्क्षणात् ॥२४॥
यद्वृन्दावनमासाद्य पङ्गुः खञ्जोऽपि वा जनः । स्तोत्रेणानेन यः कुर्यात्प्रदक्षिणनमस्कृति । स जङ्घालो भवेदेव गुरुराजप्रसादतः ॥२५॥
सोमसूर्योपरागे च पुष्यार्कादिसमागमे । योऽनुत्तममिदं स्तोत्रमष्टोत्तरशतं जपेत् । भूतप्रेतपिशाचादिपीडा तस्य न जायते ॥२६॥
एतत्स्तोत्रं समुच्चार्य गुरोर्वृन्दावनान्तिके । दीपसंयोजनाज्ञानं पुत्रलाभो भवेद्ध्रुवम् ॥२७॥
परवादिजयो दिव्यज्ञानभक्त्यादिवर्धनम् । सर्वाभीष्टप्रवृद्धिस्स्यान्नात्र कार्या विचारणा ॥२८॥
राजचोरमहाव्याघ्रसर्पनक्रादिपीडनम् । न जायतेऽस्य स्तोत्रस्य प्रभावान्नात्र संशयः ॥२९॥
यो भक्त्या गुरुराघवेन्द्रचरणद्वन्द्वं स्मरन् यः पठेत् । स्तोत्रं दिव्यमिदं सदा नहि भवेत्तस्यासुखं किञ्चन । किं त्विष्टार्थसमृद्धिरेव कमलानाथप्रसादोदयात् । कीर्तिर्दिग्विदिता विभूतिरतुला साक्षी हयास्योऽत्र हि ॥३०॥
इति श्री राघवेन्द्रार्य गुरुराजप्रसादतः । कृतं स्तोत्रमिदं पुण्यं श्रीमद्भिर्ह्यप्पणाभिदैः ॥३१॥
इति श्री अप्पण्णाचार्यविरचितं
श्रीराघवेन्द्रस्तोत्रं सम्पूर्णम्
॥भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥

सर्व पहा

Ganesh Mantra: करिअरमध्ये यश मिळवण्यासाठी गणपतीचे हे मंत्र जप करा

मंगळागौर व्रत किती वर्षे करावे? जाणून घ्या परंपरा आणि नियम

Happy Raksha Bandhan Images for Brother रक्षाबंधनाच्या भावाला द्या या खास शुभेच्छा

Mangalagaur Marathi Ukhane 2026 मंगळागौर पूजा मराठी उखाणे

मंगळागौरच्या दिवशी चुकूनही करू नका या १० चुका; अन्यथा व्रताचे पुण्य कमी होऊ शकते

सर्व पहा

भाऊ-बहिण प्रत्येक गोष्टीवरून भांडतात का? राखीला या गोष्टी करा

चाणक्य नीती: जर स्त्रीमध्ये हे ४ गुण असतील तर कुटुंब समृद्ध होते; चाणक्य नीतीमध्ये वर्णन

भविष्य मालिकेची भाकिते खरी ठरणार? १३ मुस्लिम देशांचा गट आणि भारतावरील हल्ल्याच्या दाव्यामागचे सत्य

डेंग्यू-मलेरियाचा धोका वाढतोय; पावसाळ्यात घरात या ७ गोष्टी नक्की करा

गणेशोत्सवाच्या आधी घराची साफसफाई करताना या ७ चुका करू नका; आरोग्यावर होऊ शकतो परिणाम

पुढील लेख
Show comments