ganesh chaturthi

शिवसंहिता चतुर्थ पटल

Updated: बुधवार, 12 जुलै 2023 (12:51 IST)
विधानेन च संयुक्ताः प्रभवन्त्यचिरेण तु
सिद्धिमोक्षप्रदाः सर्वे गुरुणा विनियोजिताः
दीक्षयित्वा विधानेन अभिषिच्य सहस्रधा
ततो मंत्राधिकारार्थमेषा मुद्रा प्रकीर्तिता ६
ब्रह्महत्यासहस्राणि त्रैलोक्यमपि धातयेत्
नासौ लिप्यति पापेन योनिमुद्रानिबन्धनात् ७
गुरुहा च सुरापी च स्तेयी च गुरुतल्पगः
एतैः पापैर्न बध्येत योनिमुद्रानिबन्धनात् ८
तस्मादभ्यासनं नित्यं कर्तव्यं मोक्षकांक्षिभिः
अभ्यासाजाय ते सिद्धिरभ्यासान्मोक्षमाप्नुयात् ९
संविदं लभतेऽभ्यासाद्योगोभ्यासात्पवर्तते
मुद्राणां सिद्धिरभ्यासादभ्यासाद्वायुसाधनम्
कालवञ्चनमभ्यासात्तथा मृत्युञ्जयो भवेत् १०
वाक्त्यिद्धिः कामचारित्वं भवेदभ्यासयोगतः
योनिमुद्रा परं गोप्या न देया यस्य कस्यचित्
सर्वथा नैव दातव्या प्राप्तैः कयद्ध्यातेरपि ११
अधुना कथयिष्यामि योगसिद्धिकरं परम्
गोपनीयं सुसिद्धानां योग परमदुर्लभम् १२
सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली
तदा सर्वाणि पद्यानि भिद्यन्ते यन्थयोपि च १३
तस्मासर्वप्रयत्रेन प्रबोधयितुमश्विरीम्
बह्यरन्ध्रमुखे सुप्तां मुद्राभ्यासं समाचरेत् १४
महामुद्रा महाबन्धो महावेधश्च खेचरी
जालंधरो मूलबधो विपरीतकृतिस्तथा
उडानं चैव वज्रोणी दशमे शक्तिचालनम्
इदं हि मुद्रादशकं मुद्राणामुत्तमोत्तमम् १५
अथ महामुद्राकथनम्
 
 
महामुद्रां प्रवक्ष्यामि तन्त्रेऽस्मिन्मम वल्लभे
यां प्राप्य सिद्धाः सिद्धिं च कपिलाद्याः पुरागताः १६
अपसव्येन संपीड्य पादमूलेन सादरम्
गुरूपदेशतो योनिं गुदमेढ्रानारालगाम्
सलयं प्रसारितं पादं धृत्वा पाणियुगेन वै
नवद्वाराणि संयम्य चिबुकं हृदयोपरि
चित्तं चित्तपथे दत्त्वा प्रभवेद्वायुसाधनम्
महामुद्राभवेदेषा सर्वतन्त्रेषु गोपिता
वामाहेन समभ्यस्य दक्षाहेनाभ्यसेत्पुनः
प्राणायामं समं कृत्वा योगी नियतमानसः १७
अनेन विधिना योगी मन्दथाबयोपि सिध्यति
सर्वासामेव नाडीनां चालनं बिन्दुमाररगम्
जीवनन्तु कषायस्य पातकानां विनाशनम्
सवरोगोपशमनं जढराग्निविवर्धनम्
वपुषा कान्तिममलां जरामृत्युविनाशनम्
वांछितार्थफलं सौख्यमिन्द्रियाणाञ्च मारणम्
एतदुक्तानि सर्वाणि योगारूढस्य योगिनः
भवेदभ्यासतोऽवश्यं नात्र कार्या विचारणा १८
गोपनीया प्रयत्रेन मुद्रेयं सुरपूजिते
यां तु प्राप्य भवास्थोधेः पारं गच्छन्ति योगिनः १९
मुद्रा कामदुघा ह्येषा साधकानां मयोदिता
गुप्ताचारेण कर्तव्या न देया यस्य कस्यचित् २०
अथ महाबन्धकथनम्
 
 
ततः प्रसारितः पादो विन्यस्य तमुरूपरि
णुदयोनि समाकुच्य कृत्वा चापानमूर्ध्वगम्
योजयित्वा समानेन कृत्वा प्राणमधोमुखम्
बन्धयेदूर्ध्वगत्यर्थं प्राणापानेन यः सुधीः
कथितोऽयं महाबन्धः सिद्धिमार्गप्रदायकः
नाडीजालाद्रसव्यूहो मूर्धानं याति योगिनः
उभाभ्यां साधयेत्पद्ध्यामेकै सुप्रयत्रतः २१
भवेदभ्यासतो वायुः सुषुम्नां मध्यसहतः
अनेन वपुश्च पुष्टिर्हतकधोऽस्थिपजरे
संपूर्णहृदयो योगी भवन्त्येतानि योगिनः
बन्धेनानेन योगीन्द्रः साधयेत्सर्वमीष्मितम् २२
अथ महावेधकथनम्
 
 
अपानप्राणयोरैक्यं कृत्वा त्रिभुवनेश्वरि
महावेधस्थितो योगी कुक्षिमापूर्य वायुना
स्फिचौ संताडयेद्धीमान्वेधोऽयं कीर्तितो मया २३
वेधेनानेन संविध्य वायुना योगिपुंगवः
यथि सुषुम्यगामार्गेण ब्रह्मग्रंथिं भिनत्त्वसौ २४
यः करोति सदाभ्यासं महावेधं सुगोपितम्
वायुसिद्धिर्भवेत्तस्य जरामरणनाशिनी २५
चक्रमध्ये स्थिता देवाः कम्पन्ति वायुताडनात्
कुण्डल्यपि महामाया कैलासे सा विलीयते २६
महामुद्रामहाकधौ निष्कलौ वेधवर्जितौ
तस्माद्योगी प्रयत्रेन करोति त्रितयं क्रमात् २७
एतत्त्रयं प्रयत्रेन चतुर्वारं करोति यः
षयमासाभ्यनार मृत्युं जयत्येव न संशयः २८
एतत्त्रयस्य माहात्म्यं सिद्धो जानाति नेतरः
यज्ज्ञात्वा साधकाः सर्वे सिद्धिं सम्यभन्ति वै २६
गोपनीया प्रयत्नेन साधकैः सिद्धिमीष्मुभिः
अन्यथा च न सिद्धिः ख्यान्मुद्राणामेष निश्चयः ३०
अथ खेचरीमुद्राकथनम्
 
 
भ्रुवोरन्तर्गता दृष्टिं विधाय सुदृढां सुधीः
उपविश्यासने वज्रे नानोपद्रववर्जितः
लम्बिकोर्ध्व स्थिते गर्ते रसनां विपरीतगाम्
संयोजयेत्पयत्रेन सुधाकूपे विचक्षणाः
मुद्रैषा खेचरी प्रोक्ता भक्तानामनुरोधतः ३१
सिद्धीनां जननी ह्येषा मम प्राणाधिकप्रिया
निरनारकृताभ्यासात्पीयूषं प्रत्यहं पिबेत्
तेन वियहसिद्धिः ख्याभ्युत्युमातहकेसरी ३२
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा
खेचरी यस्य शुद्धा तु स शुद्धो नात्र संशयः ३३
क्षणार्धं कुरुते यस्तु तीर्त्वा पापमहार्णवम्
दिव्यभोगान्मभुक्त्या च सत्कुले स प्रजायते ३४
मुद्रैषा खेचरी यस्तु स्वस्थचित्तो ह्यतन्द्रितः
शतब्रह्मगतेनापि क्षणार्धं मन्यते हि सः ३५
गुरूपदेशतो मुद्रां यो वेत्ति रवेचरीमिमाम्
नानापापरतो धीमान् स याति परमां गतिम् ३६
सा प्राणसदृशी मुद्रा यस्मिष्कस्मिन्न दीयते
प्रच्छाद्यते प्रयत्रेन मुद्रेयं सुरपूजिते ३७
अथ जालन्धरबन्धः
 
 
बद्धागलशिराजालं हृदये चिबुकं न्यसेत्
बन्धोजालन्धरः प्रोक्तो देवानामपि दुर्लभः
नाभिस्थवह्निर्जन्तूनां सहस्रकमलच्युतम्
पिबेत्पीयूषविस्तारं तदर्थं कधयेदिमम् ३८
बन्धेनानेन पीयूषं स्वयं पिबति बुद्धिमान्
अमरत्वञ्च सम्प्राप्य मोदते भुवनत्रये ३६
जालन्धरो बन्ध एष सिद्धानां सिद्धिदायकः
अभ्यासः क्रियते नित्यं योगिना सिद्धिमिच्छता ४०
अथ मूलक्ष्मन्धः
 
 
पादमूलेन संपीड्य गुदमार्गं सुयन्त्रितम्
वलादपानमाकृष्य क्रमादूर्ध्वं सुचारयेत्
कल्पितोऽयं मूलबन्धो जरामरणनाशनः ४१
अपानप्राणयोरैक्यं प्रकरोत्यधिकल्पितम्
बन्धेनानेन सुतरां योनिमुद्रा प्रसिद्ध्यति ४२
सिद्धायां योनिमुद्रायां किं न सिध्यति भूतले
बन्धख्यास्य प्रसादेन गगने विजितालसः
पद्मासने स्थितो योगी भुवमुत्सृज्य वर्तते ४३
सुगुप्ते निर्जने देशे कधमेन समभ्यसेत्
संसारसागरं तर्तुं यदीच्छेद्योगि पुंगवः ४४
अथ विपरीतकरी मुद्रा
 
 
भूतले स्वशिरोदत्त्वा खे नयेञ्चरणद्वयम्
विपरीतकृतिश्चैषा सर्वतन्त्रेषु गोपिता ४५
एतद्यः कुरुते नित्यमभ्यासं याममात्रतः
मृत्युं जयति स योगी प्रलये नापि सीदति ४६
कुरुतेऽमूतपानं यः सिद्धानां समतामियात्
स सेव्यः सर्वलोकानां कधमेन करोति यः ४७
नाभेरूर्ध्वमधश्चापि तानं पश्चिममाचरेत्
उडुऽयानबध एष ख्यात्सर्वदुरवौघनाशनः
उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत्
उड्यानाख्योऽत्र कथयि मृत्युमातहकेसरी ४८
नित्यं यः कुरुते योगी चतुर्वारं दिने दिने
तस्य नाभेस्तु शुद्धिः स्याद्येन सिद्धो भवेन्मरुत् ४९
षयमासमभ्यसन्योगी मृत्युं जयति निश्चितम्
तख्योदराग्निर्ज्वलति रसवृद्धिः प्रजायते ५०
अनेन सुतरां सिद्धिर्वियहस्य प्रजायते
रोगाणां संक्षयश्चापि योगिनो भवति ध्रुवम् ५१
गुरोर्क्वद्यध्वा प्रयत्नेन साधयेत्तु विचक्षणाः
निर्जने सुस्थिते देशे बन्धं परमदुर्लभम् ५२
अथ शक्तिचालनमुद्रा
 
 
आधारकमले सुप्तां चालयेल्कुयडली दृढाम्
अपानवायुमारुह्य बलादाकृष्य बुद्धिमान्
शक्तिचालनमुद्रेयं सर्वशाकप्रदायिनी ५३
शक्तिचालनमेवं हि प्रत्यहं यः समाचरेत्
आयुर्भूद्धिर्भवेत्तस्य रोगाणां च विनाशनम् ५४
विहाय निद्रा भुजगी स्वयमूर्ध्वे भवेत्खलु
तस्मादभ्यासनं कार्यं योगिना सिद्धमिच्छता ५५
यः करोति सदाभ्यासं शक्तिचालनमुत्तमम्
येन वियहसिद्धिः ख्यादरिगमादिगुणप्रदा
गुरूपदेशविधिना तस्य मृत्युभयं कुतः ५६
मुहूर्तद्वयपर्यना विधिना शक्तिचालनम्
यः करोति प्रयत्रेन तस्य सिद्धिरदूरतः
युक्तासनेन कर्तव्यं योगिभिः शक्तिचालनम् ५७
एतत्तुमुद्रादशकं न भूतं न भविष्यति
एकैकाभ्यासने सिद्धिः सिद्धो भवति नान्यथा ५८
इति श्रीशिवसंहितायां हरगौरीसवादे मुद्राकथनं
 
चतुर्थपटलः समाप्तः ४

सर्व पहा

Rishi Panchami 2026: १५ सप्टेंबर रोजी ऋषी पंचमी, शुभ मुहूर्त, पूजा विधी आणि व्रतकथा

Shree Gajanan Maharaj Punyatithi 2026 Vinmra Abhivadan संत गजानन महाराज यांच्या पुण्यतिथीनिमित्त कोटी कोटी नमन

संत गजानन महाराज निर्वाण दिन: "गण गण गणांत बोते"च्या जयघोषात विसावलेला साक्षात्कार

गौरी पूजनात ऐनवेळी मासिक पाळी आली तर काय करावे? जाणून घ्या धार्मिक नियम, पर्याय आणि आरोग्य!

ऋषी पंचमी विशेष: पारंपरिक आणि पौष्टिक ऋषींची भाजी Rishi Panchami Naivedyam

सर्व पहा

Ganesh Chaturthi 2026 Sthapana Shubh Muhurat: १४ सप्टेंबर रोजी गणपती स्थापना शुभ मुहूर्त

देवांना अत्यंत प्रिय असणाऱ्या या फुलांच्या माळा अर्पण करा; मिळवा विशेष आशीर्वाद!

गणपती बाप्पाच्या स्वागतासाठी ३ प्रकारच्या चॉकलेट मोदकांची रेसिपी

कॅल्शियमची कमतरता दूर करण्यासाठी रोजच्या आहारात हे पदार्थ खा; हाडे आणि दात राहतील मजबूत!

खाऊन योग करणे योग्य आहे की अयोग्य, जेवणानंतर योगा करण्याचे परिणाम जाणून घ्या

पुढील लेख
Show comments