Marathi Biodata Maker

शिवसंहिता प्रथम पटल

Updated: बुधवार, 12 जुलै 2023 (12:37 IST)
आत्मानो बहव: प्रोक्ता नित्या: सर्वगतास्तथा ॥१०॥
 
यद्यत्प्रत्यक्षविषयं तदन्यन्नास्ति चक्षते ।
कुत: स्वर्गादय: सन्तोत्यन्ये निश्चितमानसा: ॥११॥
 
ज्ञानप्रवाह इत्यन्ये शून्यं केचित्परं विदु: ।
द्वावेव तत्त्वं मन्यन्तेsपरे प्रकृतिपुरुषौ ॥१२॥
 
अत्यन्तभिन्नमतय: परमार्थपराङमुखा: ।
एवमन्ये तु संचिन्त्य यथामति यथाश्रुतम् ॥१३॥
निरेश्वरमिदं प्राहु: सेश्वरं च तथापरे ।
वदन्ति विविधैर्भेदै: सयुक्त्या स्थितिकातरा: ॥१४॥
 
एते चान्ये च मुनय: संज्ञाभेदा: पृथग्विधा: ।
शास्त्रेषु कथिता ह्येते लोकव्यामोहकारका: ॥१५॥
एतद्विवादशीलानां मतं वक्तुं न शक्यते ।
भ्रमन्त्यस्मिन् जना: सर्वे मुक्तिमार्गबहिष्कृता: ॥१६॥
 
आलोक्य सर्वशास्त्राणि विचार्य च पुन: पुन: ।
इदमेकं सुनिष्पन्नं योगशास्त्रं परं मतम् ॥१७॥
 
यस्मिन् ज्ञाते सर्वमिदं ज्ञातं भवति निश्चितम् ।
तस्मिन् परिश्रम: कार्य: किमन्यच्छास्त्र भाषितम् ॥१८॥
 
योगशास्त्रमिदं गोप्यमस्माभि: परिभाषितम् ।
सुभक्ताय प्रदातव्यं त्रैलोक्ये च महात्मने ॥१९॥
 
कर्मकाण्डं ज्ञानकाण्डमिति वेदो द्विधा मत: ।
भवति द्विविधो भेदो ज्ञानकाण्डास्य कर्मण: ॥२०॥
 
द्विविधः कर्मकायडः ख्याविषेधविधिपूर्वकः २१
 
निषिद्धकर्मकरणे पापं भवति निश्चितम्
विधिना कर्मकरो पुययं भवति निश्चितम् २२
 
त्रिविधो विधिकूटः ख्यावित्यनैमित्तकाम्यतः
नित्येऽकृते किल्विषं ख्यात्काम्ये नैमित्तिके फलम् २३
 
द्वित्रिधन्तु फलं ज्ञेयं स्वर्गो नरक एव च
स्वर्गो नानाविधश्चैव नरकोपि तथा भवेत् २४
 
पुययकर्माणि वै स्वर्गो नरकः पापकर्माणि
कर्मवंधमयी सृष्टिर्नान्यथा भवति ध्रुवम् २५
 
जन्तुभिश्चानुभूयंते स्वर्गे नानासुखानि च
नानाविधानि दुखानि नरके दुःसहानि वै २६
 
पापकर्मवशादुरव पुययकर्मवशात्सुखम्
तस्मात्सुखार्थी विविधं पुययं प्रकुरुते ध्रुवम् २७
 
पापभोगावसाने तु पुनर्जन्म भवेत्खलु
पुययभोगावसाने त नान्यथा भवति ध्रुवम् २८
 
स्वर्गेऽपि दुरवसंभोगः परश्रीदर्शनादिषु
ततो दुःखमिदं सर्वं भवेन्नास्त्वत्र संशयः २९
 
तत्कर्मकल्पकैः प्रोक्तं पुययं पापमिति द्विधा
पुययपापमयो बन्धो देहिनां भवति क्रमात् ३०
 
इहामुत्र फलद्वेषी सफलं कर्म संत्यजेत्
नित्यनैमित्तिकं संज्ञ त्यक्त्वा योगे प्रवर्तते ३१
 
कर्मकाण्डस्य माहात्म्यं ज्ञात्वा योगी त्यजेत्सुधीः
पुययपापद्वयं त्यक्त्वा ज्ञानकाण्डे प्रवर्तते ३२
 
आत्सा वाऽरेतु द्रष्टव्यः श्रोतव्येत्यादि यच्छ्रुतिः
सा सेव्या तत्प्रयत्नेन मुक्तिदा हेतुदायिनी ३३
 
दुरितेषु च पुरायेषु यो धीर्वृत्तिं प्रचोदयात्
सोऽहं प्रवर्तते मत्तो जगत्सर्वं चराचरम्
सर्वं च दृश्यते मत्तः सर्वं च मयि लीयते
न तज्जितोऽहमस्महि मज्जितो न तु किंचन ३४
 
जलपूर्णेष्वसंख्येषु शरावेषु यथा भवेत्
एकस्य भात्यसंख्यत्वं तद्वेदोऽत्र न दृश्यते
उपाधिषु शरावेषु या संख्या वर्तते परा
सा संख्या भवति यथा रवौ चात्मनि तत्तथा ३५
 
यथैकः कल्पकः स्वप्ने नानाविधितयेष्यते
जागरेपि तथाप्येकस्तथैव बहुधा जगत् ३६
 
सर्पबुद्धिर्यथा रजौ शुक्तौ वा रजतभ्रमः
तद्वदेवमिदं विश्वं विवृतं परमात्मनि ३७
 
रजुज्ञानाद्यथा सर्पो मिथ्यारूपो निवर्तते
आल्पज्ञानात्तथा याति मिथ्याभूतमिदं जगत् ३८
 
रौप्यभ्रान्तिरियं याति शुक्तिज्ञानाद्यथा खलु
जगद्भ्रान्तिरियं याति चाक्ष्णज्ञानात्सदा तथा ३९
 
यथा वंशो रगभ्रान्तिर्भवेन्द्रेकवसाञ्जनात्
तथा जगदिदं भ्रातिरभ्यासकल्पनाञ्जनात् ४०
 
आल्पज्ञानाद्यथा नास्ति रजुज्ञानात्युजहमः
यथा दोषवशाच्छुच्चः पीतो भवति नान्यथा
अज्ञानदोषादात्सापि जगद्भवति दुस्त्यजम् ४१
 
दोषनाशे यथा शुक्लो गृह्यते गौगरया स्वयम्
शुक्याज्ञानात्तथाऽज्ञाननाशादात्सा तथा कृतः ४२
 
कालत्रयेपि न यथा रज्जुः सर्पो भवेदिति
तथात्मा न भवेद्विश्वं गुणातीतो निरञ्जनः ४३
 
आगमाऽपायिनोऽनित्यानाश्यत्वेनेश्वरादयः
आल्पबोधेन केनापि शास्त्रादेतद्विनिश्चितम् ४४
 
यथा वातवशाज्ज्विन्धावुत्पन्नाः फेनबुद्बुदाः
तथात्मनि समुद्भूतं संसारं क्षणभंगुरम् ४५
 
अभेदो भासते नित्यं वस्तुभेदो न भासते
द्विधात्रिधादिथेदोऽयं भ्रमत्वे पर्यवस्यति ४६
 
यद्भूतं यञ्च भाव्यं वै मूर्तामूर्तं तथैव च
सर्वमेव जगदिदं विवृतं परमात्मनि ४७
 
कल्पकैः कल्पिता विद्या मिथ्या जाता मृषाष्मिका
एतन्मूलं जगदिदं कथं सत्यं भविष्यति ४८
 
चैतन्यात्सर्वमुत्पत्रं जगदेतञ्चराचरम्
तस्मात्सर्वं परित्यज्य चैतन्यं तं समाश्रयेत् ४९
 
घटख्याञ्जयतरे बाह्ये यथाकाशं प्रवर्तते
तथात्साभ्यतरे बाह्ये कार्यवर्गेषु नित्यशः ५०
 
असंलग्नं यथाकाशं मिथ्याभूतेषु पंचसु
असंलमस्तथात्सा तु कार्यवर्गेषु नान्यथा ५१
 
ईश्वरादिजगत्सर्वमात्यतयाप्य समन्ततः
एकोऽस्ति सञ्चिदानदः पूर्णो द्वैतविवर्जितः ५२
 
यस्मात्पकाशको नास्ति स्वप्रकाशो भवेत्ततः
स्वप्रकाशो यतस्तस्मादात्सा ज्योतिः स्वरुपकः ५३
 
अवछित्रो यतो नास्ति देशकालस्वरुपतः
आल्पनः सर्वथा तस्मादात्मा पूर्णो भवेत्खलु ५४
 
यस्मान्न विद्यते नाशः पचभूतैर्वृथाल्पकैः
तस्मादात्मा भवेन्नित्यस्तन्नाशो न भवेतवलु ५५
 
यस्मात्तदन्यो नास्तीह तस्मादेकोऽस्ति सर्वदा
यस्मात्तदन्यो मिथ्या स्यादात्मा सत्यो भवेत् खलु ५६
 
अविद्याभूतसंसारे दुरवनाशे सुखं यतः
ज्ञानादाद्यतशून्य ख्यात्तस्मादात्सा भवेत्सुखम् ५७
 
यस्मान्नाशितमज्ञानं ज्ञानेन विश्वकाररगम्
तस्मादात्मा भवेज्ज्ञानं ज्ञानं तस्मात्सनातनम् ५८
 
कालतो विविधं विश्वं यदा चैव भवेदिदम्
तदेकोऽस्ति स एवात्मा कल्पनापथवर्जितः ५९
 
बाह्यानि सर्वभूतानि विनाशं यान्ति कालतः
यतो वाचो निवर्त्तते आत्सा द्वैतविवर्जितः ६०
 
न खं वायुर्न चाग्निश्च न जलं पृथिवी न च
नैतत्कार्यं नेश्वरादि पूर्णैकात्सा भवेतवलु ६१
 
आल्पानमाल्पनो योगी पश्यत्यात्मनि निश्चितम्
सर्वसंकल्पसंन्यासी त्यक्तमिथ्याभवयहः ६२
 
आल्पानाल्पनि चात्मानं दृष्ट्वानन्तं सुखात्मकम्
 विस्मृत्य विश्वं रमते समाधेस्तीवतस्तथा ६३
 
मायैव विश्वजननी नान्या तत्त्वधियापरा
यदा नाशं समायाति विश्वं नास्ति तदा खलु ६४
 
हेयं सर्वमिदं यस्य मायाविलसितं यतः
ततो न प्रीतिविषयसानुवित्तसुरवाल्पकः ६५
 
अरिर्मित्रमुदासीनस्त्रिविधं स्यादिदं जगत्
व्यवहारेषु नियतं दृश्यते नान्यथा पुनः
प्रियाप्रियादिथेदस्तु वस्तुषु नियतः स्फुटम् ६६
 
आत्सोपाधिवशादेव भवेत्पुत्रादि नान्यथा
मायाविलसितं विश्वं ज्ञात्वैवं श्रुतियुक्तितः
अध्यारोपापवादाभ्यां लयं कुर्वन्ति योगिनः ६७
 
निखिलोपाधिहीनो वै यदा भवति पूरुषः
तदा विवक्षतेऽरवडशानरूपी निरंजनः ६८
 
सो कामयतः पुरुषः सृजते च प्रजाः स्वयम्
अविद्या भासते यस्मात्तस्मान्मिथ्या स्वभावतः ६९
 
शुद्ध बह्यत्व संबद्धो विद्यया सहितो भवेत्
ब्रह्यतेनसती याति यत आभासते नभः ७०
 
तस्मात्पकाशते वायुर्वायोरग्निस्ततो जलम्
प्रकाशते ततः पृध्वी कल्पनेयं स्थिता सति ७१
 
आकाशाद्वायुराकाशपवनादग्निसंभवः
रववातायेर्जलं व्योमवाताग्निवारितो मही ७२
 
खं शब्दलक्षणं वायुश्चचलः स्थर्शलक्षणः
ख्याद्रूपलक्षणं तेजः सलिलं रसलक्षणम्
गन्धलक्षणिका पृध्वी नान्यथा भवति ध्रुवम् ७३
 
ख्यादेकगुणमाकाशं द्विगुणो वायुरुच्यते
तथैव त्रिगुणं तेजो भवन्त्यापश्चतुर्गुणाः
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च
एतत्पचगुणा पृध्वी कल्पकैः कक्त्यतेऽधुना ७४
 
चक्षुषा गृह्यते रूपं गन्धो वाणेन गृह्यते
रसो रसनया स्थर्शस्त्वचा संगृह्यते परम् ७५
 
श्रोत्रेण गृह्यते शब्दो नियतं भाति नान्यथा ७६
 
चैतन्यात्सर्वमुत्पत्रं जगदेतञ्चराचरम्
अस्ति चेत्कल्पनेयं स्यान्नास्ति चेदस्ति चिन्मयम् ७७
 
पृध्वी शीर्णा जले ममा जलं मयञ्च तेजसि
लीनं वायौ तथा तेजो व्योम्नि वातो लयं ययौ
अविद्यायां महाकाशो लीयते परमे पदे ७८
 
विक्षेपावरणा शक्तिर्दुरन्तासुरवरूपिणी
जडरूपा महामाया रजसत्त्वतमोगुणा ७९
 
सा मायावरणाशक्त्यावृताविज्ञानरूपिणी
दर्शयेजगदाकारं तं विक्षेपस्वभावतः ८०
 
तमो गुणाधिका विद्या या सा दुर्गां भवेत् स्वयम्
ईश्वरस्तदुपहितं चैतन्यं तदच्चूध्रुवम्
सत्ताधिका च या विद्या लक्ष्मीः ख्याद्दिव्यरूपिणी
चैतन्यं तदुपहितं ओवस्तुर्भवति नान्यथा ८१
 
रजोगुणाधिका विद्या ज्ञेया सा वै सरस्वती
यश्चिक्त्यरुषो भवति ब्रह्मातदुपधारकः ८२
 
ईशाद्याः सकला देवा दृश्यन्ते परमात्मनि
शरीरादिजडं सर्वं सा विद्या तत्तथा तथा ८३
 
एवंरूपेण कल्पन्ते कल्पका विश्वसम्भवम्
तत्त्वातत्त्वं भवतीह कल्पनान्येन चोदिता ८४
 
प्रमेयत्वादिरूपेण सर्वं वस्तु प्रकाश्यते
विशेषशब्दोपादाने भेदो भवति नान्यथा ८५
 
तथैव वस्तुनास्त्येव भासको वर्तकः परः
स्वरूपत्वेन रूपेण स्वरुपं वस्तु भाष्यते ८६
 
एकः सत्तापूरितानन्दरूपः पूर्णो व्यापी वर्तते नास्ति किञ्चित्
एतज्ज्ञानं यः करोत्येव नित्यं मुक्तः स ख्याभ्युत्युसंसारदुरवात् ८७
 
यख्यारोपापवादाभ्यां यत्र सर्वे लयं गताः
स एको वर्तते नान्यत्तञ्चित्तेनावधार्यते ८८
 
पितुरत्रमयात्कोशाजायते पूर्वकर्मणः
तच्छरीरविदुर्दुरव स्वप्राच्योगाय सुन्दरम् ८९
 
मासास्थिस्रायुमजादिनिर्मितं भोगमन्दिरम्
केवलं दुरवभोगाय नाडी सततिगुल्फितम् ९०
 
पारमेष्ठघमिदं गात्रं पंचभूतविनिर्मितम्
बह्यायडसंज्ञकं दुरवसुखभोगाय कल्पितम् ९१
 
बिन्दुः शिवो रजः शक्तिरुग्नयोर्मिलनाक्त्ययम्
स्वमभूतानि जायन्ते स्वशक्त्या जडरूपया ९२
 
तत्पञ्चीकरणाक्त्यूलान्यसंख्यानि समासतः
ब्रह्यांडस्थानि वस्तूनि यत्र जीवोऽस्ति कर्मभिः
तद्भूतपञ्चकात्सर्वं भोगाय जीवसंज्ञिता ९३
 
पूर्वकर्मानुरोधेन करोमि घटनामहम्
अजडः सर्वभूतस्था जडस्थित्या भुनक्ति तान् ९४
 
जडाक्त्यकर्मभिर्बद्धो जीवारतयो विविधो भवेत्
भोगायोत्पद्यते कर्म ब्रह्यांडाख्ये पुनः पुनः ९५
 
जीवश्च लीयते भोगावसाने च स्वकर्म- ९६
 
इति प्रथमः पटलः

सर्व पहा

मोदक पायसम खीर: पारंपरिक आणि चवदार दक्षिण भारतीय फ्युजन रेसिपी Modak Payasam Kheer

अनंत चतुर्दशी २०२६ कधी आहे? या दिवशी अनंत सूत्र बांधण्याची परंपरा आहे, या १४ गाठी कशाचे प्रतीक?

Santan Saptami 2026 १८ सप्टेंबर रोजी संतान सप्तमी, पूजा पद्धत, नियम आणि व्रताची कथा

दुकानातील मिठाई आणणे टाळा! घरीच बेसन वापरून १० मिनिटात मोतीचूर लाडू बनवा

गकारादि गणेश सहस्रनाम स्तोत्रम् : श्रीगणेशाच्या सहस्र नामांचे पठण आणि धार्मिक महत्त्व

सर्व पहा

Ganesh Chaturthi 2026 Sthapana Shubh Muhurat: १४ सप्टेंबर रोजी गणपती स्थापना शुभ मुहूर्त

देवांना अत्यंत प्रिय असणाऱ्या या फुलांच्या माळा अर्पण करा; मिळवा विशेष आशीर्वाद!

गणपती बाप्पाच्या स्वागतासाठी ३ प्रकारच्या चॉकलेट मोदकांची रेसिपी

कॅल्शियमची कमतरता दूर करण्यासाठी रोजच्या आहारात हे पदार्थ खा; हाडे आणि दात राहतील मजबूत!

खाऊन योग करणे योग्य आहे की अयोग्य, जेवणानंतर योगा करण्याचे परिणाम जाणून घ्या

पुढील लेख
Show comments