Webdunia - Bharat's app for daily news and videos

Install App

शिवभारत अध्याय पहिला

Updated: सोमवार, 26 ऑगस्ट 2024 (14:41 IST)
प्रणिपत्य प्रवक्ष्यामि महाराजस्य धीमतः ।
चरितं शिवराजस्य भरतस्येव भारतम् ॥२२॥
कलिकल्मषहारीणि हारीणि जनचेतसाम् ।
यशांसि शिवराजस्य श्रोतव्यानि मनीषिभिः ॥२३॥
योऽयं विजयते वीरः पर्वतानामधीश्वरः ।
दाक्षिणात्यो महाराजः शाहराजात्मजः शिवः ॥२४॥
साक्षान्नारायणस्यांशस्त्रिदशद्वेषिदारणः ।
स एकदात्मनिष्ठं मां प्रसाद्येदमभाषत ॥२५॥
यानि यानि चरित्राणि विहितानि मया भुवि ।
विधीयन्ते च सुमते तानि सर्वाणि वर्णय ॥२६॥
मालभूपमुपक्रम्य प्रथितं मत्पितामहम् ।
कथामेतां महाभाग महनीयां निरूपय ॥२७॥
तस्येमां वाचमनघामभिनन्द्य द्विजोत्तमाः ।
प्रतिश्रुत्य गृहानेत्य स्वयमेतदचिन्तयम् ॥२८॥
अहो कथमहं कुर्यां भारतप्रतिमं महत् ।
अमानुषचरित्नस्य शिवस्यैतत् समीहितम् ॥२९॥
इति संचिन्तयन्तं मां चिरसुस्थिरचेतसम् ।
देवी भगवती साक्षात् समेत्येदमवोचत ॥३०॥
देव्युवाच
कवींद्र कुरु मा चिन्तामनुकूलास्म्यहं तव ।
ममादेशादयं राजा त्वामिदं कार्यमादिशत् ॥३१॥
एवमाश्वासयन्ती मां कृपालुः कुलदेवता ।
चतुर्भुजा भगवती हृदयं मे समाविशत् ॥३२॥
तदाप्रभृति वाग्ब्रह्म समग्रं पश्यतो मम ।
जागर्त्यर्थेंन सहितं रसनाग्रमधिष्ठितम् ॥३३॥
अनागतानां भावानामतीतानां च सर्वशः ।
साक्षात् सन्दर्शनेनाहममानुष इवाभवम् ॥३४॥
कृतकृत्यमथात्मानं मन्यमानेन वै मया ।
कृतमेतन्महापुण्यमाख्यानमनघव्रताः ॥३५॥
यत्रास्ते महिमा शंभोर्महादेवस्य वर्णितः ।
दुर्वृत्तासुरमर्दिन्यास्तुलजायास्तथैव च ॥३६॥
धर्मस्यार्थस्य कामस्य मोक्षस्य च यथायथम् ।
तीर्थानामपि माहात्म्यं यत्र सम्यङ्निरूपितम् ॥३७॥
यत्र युद्धान्यनेकानि शिवस्य यवनैः सह ।
तेषामेव विनाशार्थमवतीर्णस्य भूतले ॥३८॥
देवानां ब्राह्मणानां च गवां च महिमाधिकम् ।
पवित्राणि विचित्राणि चरित्राणि च भूभुजाम् ॥३९॥
गजानां तुरगाणां च दुर्गाणां लक्षणानि च ।
निरूपितान्यशेषेण राजनीतिश्च शाश्वती ॥४०॥
तं सूर्यवंशमनघं कथ्यमानं मयादितः ।
सर्वेऽप्यवहितात्मानः शृणुध्वं शृण्वतां वराः ॥४१॥
दक्षिणस्यां दिशि श्रीमान् मालवर्मा नरेश्वरः ।
बभूव वंशे सूर्यस्य स्वयं सूर्य इवौजसा ॥४२॥
महाराष्ट्रं जनपदं महाराष्टस्स भूमिपः ।
प्रशशास प्रसन्नात्मा निजधर्मधुरंधरः ॥४३॥
कमलायतनेत्रोऽसौ कमलापतिविक्रमः ।
शुशुभे गुणगंभीरः प्रजारंजनमाचरन् ॥४४॥
स पुण्यदेशे धर्मात्मा निवासं स्वमकल्पयत् ।
तन्वन् सौराज्यमधिकं नदीं भीमरथीमनु ॥४५॥
त्वङ्गत्तुरंगमखुरक्षुण्णभीमरथीतटः ।
समुद्यद्दुंन्दुभिध्वानविभ्रमक्षोभितार्णवः ॥४६॥
प्रतापतापिताऽरातिधराधिपतिमण्डलः ।
सह्याद्रिखण्डमखिलं बुभुजे स बली बलात् ॥४७॥
द्विषद्भिर्दुस्सहः सोऽभोद् धुर्यः सर्वधनुष्मताम् ।
नारायणांससंभूतो धनुञ्जय इवापरः ॥४८॥
महावंशसमुद्भूतामुमां नाम यशस्विनीम् ।
उपयेमे स विधिना सावित्रीं सत्यवानिव ॥४९॥
अथासौ बहु मेने तामनुरूपगुणान्विताम् ।
अजो रघुसुतश्श्रीमान् साध्वीमिन्दुमतीमिव ॥५०॥
प्रसादमिव पार्वत्या दत्तमात्मीयमात्मना ।
उमेति भूषयामास नामधेयमुमा सती ॥५१॥
अथ श्रीदसमृद्धश्रीः स तया सुदृशान्वितः ।
समाचचार मतिमान् कृती धर्माननेकधा ॥५२॥
अग्निहोत्राणि सत्राणि यज्ञास्सुबहुदक्षिणाः ।
महादानान्यपि तथा राष्ट्रे तस्य सदाऽभवन् ॥५३॥
स शंभुप्रीतये शंभोर्भक्तस्सागरनन्निभम् ।
मधुरं खानयामास तडागं शंभुपर्वते ॥५४॥
सुवर्णसानुप्रतिमान् प्रासादानुच्चतोरणान् ।
आरामानभिरामांश्च भूरिभूरुहभूषितान् ॥५५॥
दीर्घाश्च दीर्घिकाः स्वर्णसोपानपथभूषिताः ।
धर्मात्मा कारयामास प्रपाश्शालाश्च भूरिशः ॥५६॥
तमन्वगात् सुमहती चतुरङ्गा पताकिनी ।
महासत्त्वं महासत्त्वा स्वर्णदीव भगीरथम् ॥५७॥
तमुन्नतं नमन्ति स्म सामन्ताः पृथिवीभृतः ।
समीरणसमुद्वेलं वंजुला इव वारिधिम् ॥५८॥
एतस्मिन्नेव समये दुर्गं देवगिरिं श्रयन् ।
निजामशाहो धर्मात्मा पालयामास मेदिनीम् ॥५९॥
तमसेवन्त सततं यवनानामधीश्वरम् ।
सर्वे यादवराजाद्या दाक्षिणात्याः क्षमाभुजः ॥६०॥
तदा येदिलशाहोऽपि पत्तने विजयाह्वये ।
निवसन् राज्यमकरोदयवनो यवनैर्वृतः ॥६१॥
अथ केनाऽपि कालेन निमित्तेन बलीयसा ।
येदिलेन निजामस्य विरोधस्सुमहानभूत् ॥६२॥
तदा तं मालभूपालं कालं प्रतिमहीभृताम् ।
श्रुत्वा निजामो मेधावी साहाय्ये समकल्पयत् ॥६३॥
ततस्तस्य प्रियं तत्र कर्तुमप्रतिमद्युतिः ।
गत्वा देवगिरिं मालमहीपतिरुवास ह ॥६४॥
अथ विठ्ठलराजोऽस्य भ्राता भीमपराक्रमः ।
समेतस्स्वपताकिन्या भेजे धारागिरीश्वरम् ॥६५॥
प्रीतात्मा च निजामोऽपि निजमन्तिकमागतौ ।
तावुभौ पूजयामास सामदानेन भूयसा ॥६६॥
ये ये निजामशाहस्य प्राभवन् परिपन्थिनः ।
तांस्तानुत्सादयामास मालवर्मा महाभुजः ॥६७॥
तथा विठ्ठलराजोऽपि निजामस्य चिकीर्पिंतम् ।
सहायीभूत सततं चक्रे शक्रपराक्रमः ॥६८॥
यद्यप्यासन्निजामस्य सहायास्तत्र भूरिशः ।
तथापि मालवर्मैव सर्वेभ्योऽभ्यधिकोऽभवत् ॥६९॥
कुलक्रमागतं राज्यं निधाय निजमन्त्रिषु ।
दत्तं निजामशाहेन देशमन्यं शशास सः ॥७०॥
अथ तस्य सभार्यस्य सुतजन्म्समुज्वलाम् ।
श्रियं समीहमानस्य दिनानि सुबहून्ययुः ॥७१॥
सन्तानार्थी स नृपतिर्धर्मपत्नीसमन्वितः ।
देवदेवं महादेवमारराध महाव्रतः ॥७२॥
अथ कालेन महता देवी तस्य महौजसः ।
आनन्दयन्ती दयितं ससत्त्वा समजायत ॥७३॥
ततः सा दशमे मासि प्रस्फुरद्राजलक्षणम् ।
सुमुखं शुभवेलायां सुषुवे सुतमद्भुतम् ॥७४॥
सुनसं सुविशालाक्षं सुभालं श्लक्ष्णकुन्तलम् ।
विस्तीर्णवक्षसं दीर्घभुजमानद्धकन्धरम् ॥७५॥
सुवर्णवर्णमरुणस्निग्धपाणिपदांबुजम् ।
प्रोद्धासयन्तं भवनं प्रभूतेन स्वतेजसा ॥७६॥
तं दृष्ट्वा मुदितास्तत्र धात्र्यः संजातसंभ्रमाः ।
राज्ञे निवेदयामासुर्जनैश्शुद्धान्तचारिभिः ॥७७॥
ततस्तमुत्सवं श्रुत्वा सुतजन्मसमुद्भवम् ।
पीयूषवर्षसंसिक्तप्रतीक इव सोऽभवत् ॥७८॥
ततः समुत्सुकोऽभ्येत्य नृपतिर्द्रुतमाप्लुतः ।
आननं सुकुमारस्य कुमारस्य व्यलोकत ॥७९॥
अथ प्रमुदितस्तत्र समेतः स्वपुरोधसा ।
चकार जातकर्मास्य स्वस्तिवाचनपूर्वकम् ॥८०॥
जाते राजकुमारे‍ऽस्मिन् कुमारसमतेजसि ।
नेदुर्मङ्गलवाद्यानि ननृतुर्वारयोषितः ॥८१॥
स्वरेण स्निग्धतारेण जगुर्गीतानि गायनाः ।
पेठुश्च प्रस्थितामुच्चै र्बन्दिनो बिरुदावलिम् ॥८२॥
अमोघाभिस्तथाशीर्भिरभ्यनन्दन् द्विजोत्तमाः ।
गृहे ग्रुहे विशेषेण ववृधे स महोत्सवः ॥८३॥
महामुक्ताः प्रवालानि रत्नालंकरणानि च ।
स्वर्णानि स्वर्णवासांसि गास्तुरंगान् गजानपि ॥८४॥
जनाय याचमानाय ददानः स तदा प्रभुः ।
ददृशे मनुजैस्साक्षात् कल्पद्रुम इवापरः ॥८५॥
अथ मौहूर्तिकादिष्टे विध्युक्तेऽहनि शोभने ।
पिता चक्रे कुमारस्य नाम शाह इति स्वयम् ॥८६॥
दिने दिने स ववृधे शिशुः सरसिजाननः ।
पित्रोस्संवर्धयन् स्वाभिर्लीलाभिर्लोचनोत्सवम् ॥८७॥
अथ वर्षद्वयेऽतीते द्वितीयमपि नन्दनम् ।
लेभे महीपतेः पत्नी मूर्तिमन्तमिवोत्सवम् ॥८८॥
तस्य जातस्य हि विधिं संविधाय बुधैस्सह ।
शरीफ इति सिद्धोक्तं नामघेयं व्यधाद्विभुः ॥८९॥
तौ शाहश्च शरीफश्च सिद्धनामांकितावुभौ ।
ववृधाते श्रिया सार्धं कुमारौ कुलदीपकौं ॥९०॥
अथ समुदितराजलक्षणाभ्यां
मुदितमनाः स्वजनान्वितः स ताभ्याम् ।
नृपातिकुलवतंसमात्मवंशं ।
भुवमधिपल्लवितं प्रभूयमेने ॥९१॥
कथितमिति मया जगत्प्रतीतं
शुभमिहराजकुमारजन्म तावत् ।
कलिकलुषहरं निशम्य धीमा -
ननुभवात स्वसमीहितानि सद्यः ॥९२॥
इत्यनुपुराणे सूर्यवंशे कवीन्द्रपरमानन्दप्रकाशितायां शतसाहस्र्यां संहितायां कुमारप्रभवो नाम प्रथमोऽध्ययः

सर्व पहा

कोणत्या पिकाला वाढायला १ वर्ष लागते? Late-arriving crop

तुमचे पालक जर ६० वर्षांपेक्षा जास्त वयाचे असतील, तर या वैद्यकीय चाचण्या नक्की करून घ्या...

'मनुवाद' आणि 'ब्राह्मणवाद' म्हणजे काय? जाणून घ्या इतिहास, गैरसमज आणि संपूर्ण सत्य

August Month 2026 Horoscope ऑगस्ट मासिक राशीभविष्य

पाऊस पडला तरी मेकअप वाहून जाणार नाही! वापरा या सोप्या 'मान्सून मेकअप ट्रिक्स'

सर्व पहा

फ्रेंडशिप डे 2026: मित्रांचे वेगवेगळे प्रकार कोणते आहेत? कोणत्या मित्रांपासून सावध राहावे हे जाणून घ्या

Friendship Day Wishes 2026 in Marathi : मैत्री दिनाच्या शुभेच्छा संदेश

Friendship day 2026 Speech in Marathi फ्रेंडशिप डे निमित्ताने मैत्रीवर भाषण मराठीत

मैत्री दिवस विशेष मित्रांसाठी 'पार्टी स्पेशल' डिनरमध्ये बनवा हा भन्नाट बेत

Gift ideas for Friendship Day फ्रेंडशिप डे निमित्त खास भेटवस्तूंच्या कल्पना

पुढील लेख
Show comments