Daily Horoscope

शिवभारत अध्याय दहावा

Published: सोमवार, 26 ऑगस्ट 2024 (15:55 IST)
ततः स भगवान् भर्गः स्वभक्तमवनीश्वरम् ।
वचनेनानुजग्राह निरवग्रहशक्तिभृत् ॥१२॥
ईश्वर उवाच -
सूर्यवंश्य महाबाहो शहाराज महामते ।
समाकर्णय मद्वाचमिमां कुशलमस्तिते ॥१३॥
य एष भ्राजतेभ्यर्णे कनीयांस्तनयस्तव ।
तमेनं लक्षणोपेतमवेहि पुरुषोत्तमम् ॥१४॥
वर्धमानः क्रमेणैव त्वत्पुत्रोयमुरुक्रमः ।
समाक्रम्यावनीं सर्वां यवनान्निहनिष्यति ॥१५॥
इथं भगवती देवी गिरिजा भक्तवत्सला ।
समये समयेभ्येत्य तमिमं पालयिष्यति ॥१६॥
हर्ता धरित्रीभारख्य संहर्ता प्रतिभूभृताम् ।
मद्भक्त एष सर्वेषामप्यधृष्यो भविष्यति ॥१७॥
तस्मादमुं महाबाहुं महाशयशिवाह्रयम् ।
पुण्यदेशाधिपत्येन महनीयेन योजय ॥१८॥
तमित्युक्त्वा महेशानस्तदा मुक्तामयीं स्रजम् ।
तस्य राजकुमारस्य कण्ठे स्वयमयोजयत् ॥१९॥
एवमाविर्भवद्धार्दभरे देवे कपर्दिनि ।
प्राबुध्यत धरापालो मुहूर्ते ब्रह्मदैवते ॥२०॥
विशिष्टः स्वेन तपसा विस्मयाविष्टमानसः ।
तामेव मूर्तिमीशस्य ध्यायन्नेष मुहुर्मुहुः ॥२१॥
प्रातः प्रभाकरन्नाम प्रभाकरसमप्रभम् ।
पुरोहितं समानाय्य शशंस स्वप्नमात्मनः ॥२२॥
अथानुमोदितस्तेन प्रहृष्टेन पुरोधसा ।
पुण्यदेशाधिपत्येन शाहः शिवमयोजयत् ॥२३॥
अथ तस्मिन्नाधिपत्ये पित्रादत्ते प्रतापिना ।
प्रयातुकामः स्वं राष्ट्रं शिवराजो व्यराजत ॥२४॥
ततः कतिपयैरेव गजवाजिपदातिभिः ।
मौलैराप्तैरमात्यैश्च ख्यातैरध्यापकैरपि ॥२५॥
बिरुदैश्च ध्वजैरुच्चैः कोषेणापि च भूयसा ।
तथा परिजनैरन्यैरनन्यसमकर्मभिः ॥२६॥
समवेतमसुं शाहभूपतिश्शोभने दिने ।
प्राहिणोत्पुण्यदेशाय पुण्यकारिणमात्मजम् ॥२७॥
ततः कतिपयैरेष दिनैर्दिनकृदन्वयः ।
अयाद्देशं महाराष्ट्रं तस्मात् कर्णाटमंडलात् ॥२८॥
सशक्तित्रितयोपेतः समेतस्सैन्यसंचयैः ।
शिवस्स्वया श्रिया सार्धं पुण्याहं पुरमासदत् ॥२९॥
चक्रप्रियकरः सद्यः समुल्लासितमंडलम् ।
नावेदयदमुं लोकबंधुं लोको व्यलोकत ॥३०॥
ततोनुकूलप्रकृतिः कुर्वन् प्रकृतिरंजनम् ।
अवर्धत क्रमेणैष विक्रमी यशसा सह ॥३१॥
महाराष्ट्रो जनपदस्तदानीं तत्समाश्रयात् ।
अन्वर्थतामन्वभवत् समृद्धजनतान्वितः ॥३२॥
श्रयंतः प्रश्रयोपेतं गुरुवस्तं गूणैस्मह ।
अनन्यनिष्ठमनसः समगच्छन् कृतार्थताम् ॥३३॥
श्रृतिस्मृतिपुराणेषु भारते दण्डनीतिषु ।
समस्तेष्वपि शास्त्रेषु काव्ये रामायणे तथा ॥३४॥
व्यायामे वास्तुविद्यायां होरासु गणितेष्वपि ।
धनुर्वेदचिकित्सायां मते सामुद्रिके पुनः ॥३५॥
तासु तासु च भाषासु छन्दस्सु च सुभाषिते ।
चर्यास्विभरथाश्वानां तथा तल्लक्षणेष्वपि ॥३६॥
आरोहणे प्रतरणे चंक्रमे च विघंलने ।
कृपाणचापचक्रेषु प्रासपट्टिशशक्तिषु ॥३७॥
युद्धे नियुद्धे दुर्गाणां दुर्गमीकरणेषु च ।
दुर्लक्ष्यलक्ष्यवेधेषु दुर्गमाभिगमेष्वपि ॥३८॥
इंगितेषु च मायासु विषनिर्हरणादिषु ।
तत्तद्रन्तपरीक्षायामवधाने लिपिष्वपि ॥३९॥
प्रवीणः स स्वयं तांस्तान् गूरून् गुरुयशोभरैः ।
अयोजयत् भृशं तत्तत् प्रत्यभिज्ञानवान् विभुः ॥४०॥
स एष यौवनारंभे दधानोऽभिनवां श्रियम् ।
व्यभाद्यथा वासन्तविभवे सुरुभूरुहः ॥४१॥
तमुल्लंघितकौमारमुद्भवन्नवयौवनम् ।
मीनकेतनलावण्यश्रीविलासमनोहरम् ॥४२॥
सती शीलवती रम्यरूपा चातिगुणोज्वला ।
अभजद् भूपतिं भार्या प्रवारकुलसंभवा ॥४३॥
पूर्वजन्मप्रणयिनीं स इमां वरवर्णिनीम् ।
लब्ध्वा मुदमुपादत्त श्रीकृष्ण इव रुक्मिणीम् ॥४४॥
प्रादुभर्वत् प्राग्भवसंस्तवाभ्यां ।
मिथोनुकूलत्वमुपागताभ्याम् ॥
अधत्त ताभ्यामथदंपतीभ्यां ।
संभूय शोभां महतीं त्रिवर्गः ॥४५॥
इत्यनुपुराणे सूर्यवंशे निधिवासकर - कवीन्द्रपरमानन्द - प्रकाशितायां संहितायां दशमोध्यायः

सर्व पहा

Ganesh Chaturthi 2026 Sthapana Shubh Muhurat: १४ सप्टेंबर रोजी गणपती स्थापना शुभ मुहूर्त

देवांना अत्यंत प्रिय असणाऱ्या या फुलांच्या माळा अर्पण करा; मिळवा विशेष आशीर्वाद!

गणपती बाप्पाच्या स्वागतासाठी ३ प्रकारच्या चॉकलेट मोदकांची रेसिपी

कॅल्शियमची कमतरता दूर करण्यासाठी रोजच्या आहारात हे पदार्थ खा; हाडे आणि दात राहतील मजबूत!

खाऊन योग करणे योग्य आहे की अयोग्य, जेवणानंतर योगा करण्याचे परिणाम जाणून घ्या

सर्व पहा

नैतिक कथा : गोष्ट चेटकीण आणि गुलाब फुलाची

गणपती बाप्पा आणि गौरीच्या प्रसादासाठी पौष्टिक ड्रायफ्रूट्स खजूर रोल पाककृती

सततचा खोकला हे फुफ्फुसाच्या कर्करोगाचे लक्षण आहे का? जाणून घ्या कर्करोगतज्ज्ञांचा महत्त्वाचा सल्ला

श्री गणेशाच्या नैवेद्यासाठी केशरी खव्याचे लाडू, गणपती उत्सवामध्ये नक्की ट्राय करा

या पानांचे पाणी आरोग्यासाठी फायदेशीर? उकळून पिण्यापूर्वी जाणून घ्या संभाव्य फायदे

पुढील लेख
Show comments