suvichar

शिवभारत अध्याय चौदावा

Updated: सोमवार, 26 ऑगस्ट 2024 (16:40 IST)
गिरिस्थपरिमुक्ताभिः शिलाभिश्शीर्णवक्षसः ।
केचित्प्रपद्य वैचित्त्यमध्वनोर्ह्येवतस्थिरे ॥३०॥
गिरेस्तस्य तटे लग्नाः केऽपि भग्ना महाश्मभिः ।
वमन्तो लोहितं भूरि रक्तवालुकलोहितम् ॥३१॥
समुह्यानुप्लवैरुह्यमानाः प्राणावनार्थिनः ।
परावृत्य रयादात्मशिबिराय प्रतस्थिरे ॥३२॥
गुलिकायन्त्रनिर्यातगुलिकाभिन्नविग्रहाः ।
जलयन्त्रजलाकारकीलालोत्कलिकाकुलाः ॥३३॥
संजातसंज्वरावेशभरास्तनुतरस्वराः ।
केचित्पितासिता एव कृतान्ततिथितां ययुः ॥३४॥
पताकिनीं तामालोक्य द्विषत्कृतपराभवाम् ।
मुसेखानः सजातीयान्सुभटानभ्यभाषत ॥३५॥
मुसेखान उवाच
अमी महाश्मनां पाताः किमुत्पाताः पदे पदे ।
समन्तादापतन्तोऽमून् पातयन्ति चमूपतीन् ॥३६॥
अहो महोदयोऽमुष्य पुरन्दरपतेरयम् ।
यदस्मानपि विक्रान्तान् विक्रम्याक्रामति स्वयम् ॥३७॥
निस्त्रिंशप्रभवं लोके येषां नः प्रथितं यशः ।
अपयानमितस्तेषां नितान्तमयशस्करम् ॥३८॥
मैव दद्ध्वं पदं पश्चात् पुरः पश्यत भूधरम् ।
न जहाति जयः प्रायः संपरायस्थितं नरम् ॥३९॥
इति ब्रुवाण एवायं समन्तैरनिवर्तिभिः ।
पुरन्दराचलतरामारुरोह महामनाः ॥४०॥
अथो शरफशाहेन सैनिकैः स्वैश्च भूरिशः ।
उभाभ्यामपि शेखाभ्यां राज्ञा मत्रजिता तथा ॥४१॥
प्रबलेन फलस्थाननायकेन च रंहसा ।
फतेखानस्य चानीकैः सामंतैरप्यनेकशः ॥४२॥
सनिर्घोषैर्महोमेघैर्महामेघ इवाभितः
तमारोहंतमालोक्य पुरंदरतटीं रुषा ॥४३॥
सद्यश्शिवतमादिष्टाः क्षेपिष्ठाः सर्वतो दिशम् ।
गोदप्रभृतयो योधाः प्रत्यगृण्हन्नुदायुधाः ॥४४॥
मुसेखानप्रभृतयोप्यमून् परचमूभटान् ।
अभीयुरभियाभ्येत्य ग्रहा इव महाग्रहान् ॥४५॥
तदा शरफशाहेन सदोभुजमदोद्धतः ।
मुसेखानेन सरुषा जगत्स्थापकवंशजः ॥४६॥
मिनादरतनाभ्यां तु युयुधे भैरवाभिधः ।
घांटिकेन च वीरेण व्याघ्रश्शीघ्रतरायुधः ॥४७॥
महामानी गदापाणिः प्रबलानीकिनी युतः ।
सैन्यैरन्यैश्च बहुभिर्वह्वयुघ्यत कावुकः ॥४८॥
अभ्याहवस्मयभृतो युगव्यायतबाहवः ।
वरशीर्षण्यशीर्षाणोवर्मसंवृत विग्रहाः ॥४९॥
ते तेऽनीकद्वयीयोधाः सविरोधाः परस्परम् ।
शरासनं विधुन्वानाः संदधानाश्शितं शरम् ॥५०॥
भूयोभूयस्सहस्वेति भाषमाणास्स्मयाभृतम् ।
तटे पुरंदरगिरेस्तदा युयुधिरेऽद्भुतम् ॥५१॥
तदा पुरंदरार्थाय प्रहरंतः परस्परम् ।
नैकेऽवरोदुमारोढुं बत नैके तदा शकन् ॥५२॥
अवलोक्य बतान्योन्यमानीय च शरव्यताम् ।
एके भुवस्तलं बाणैः प्यधुरन्ये दिवस्तलम् ॥५३॥
यः कस्यचिदुरो भित्वा भुजं चिच्छेद कस्यचित् ।
स एवेषुस्सशीर्षण्यमन्यदीयं शिरो हरत् ॥५४॥
तत्र प्रसभमभ्येत्य गोदः क्रोधरयोद्धतः ।
निचखान क्ष्णुतं भल्लं मुसेखानभुजांतरे ॥५५॥
निशातं विद्विषा तेन निखातं निजवक्षसि ।
यवनस्स तु तं भल्लं भीमं सन्नाहभेदिनम् ॥५६॥
उभाभ्यामपि पाणिभ्यामुद्धृत्य स्वभुजांतरात् ।
रोषदष्टाधरतलः सद्य एव द्विधा व्यधात् ॥५७॥
अलंचकार तं तत्र रुधिरार्द्रमुरस्स्थलम् ।
यथा शिलोच्चयं सांद्रगैरिकाक्तशिलातलम् ॥५८॥
इहांतरे खङ्गचर्मधारी धीरः सदः स्यदात् ।
योध्द्रा शरफशाहेन योध्दुमद्धाभ्यपद्यत ॥५९॥
उभावपि युधामत्तौ रक्तनेत्रावुभावपि ।
उभावपि ससन्नाहौ महोत्साहावुभावीप ॥६०॥
स्वया स्वयासिलतया परिनर्तितया भृशम् ।
दिवं सौदामिनीद्योतैर्दीपयंतावुभावपि ॥६१॥
परस्परांतरप्रेक्षापरौ पंचाननस्वरौ ।
भ्रांतोद्भ्रांतादिकान् भेदान् दर्शयंतौ विरेजतुः ॥६२॥
अथासितातैरन्योन्यविहितैः क्षतविग्रहौ ।
एकेनैव क्षणेनैतौ रुधिराद्रो बभूवतुः ॥६३॥
व्याघ्रस्तु पुरुषव्याघ्रं घांटिकं घोरशक्तिकम् ।
प्रजहार भुजस्तंभे शक्त्यानिशितया द्रुतम् ॥६४॥
ततस्स्रवद्सृग्दिग्धदेहो युद्धविशारदः ।
शक्त्यैव घांटिकोत्युचैः प्रवेष्टे तमताडयत् ॥६५॥
तदामुना हन्यमानो व्याघ्रो व्याघ्र इवापरः ।
स्वशौर्यं दर्शयामास हर्षयामास च स्वकान् ॥६६॥
आकर्णाकृष्टधन्वानौ मिनादरतनावपि ।
अभ्येतं भैरवं चोरं छादयामासतुः शरैः ॥६७॥
ताभ्यामुभाभ्यामुन्मुक्तैः शरैर्नीतं शरव्यताम् ।
अवाप्तचालनीभावं तदभ्राजत तद्वपुः ॥६८॥
स एकोद्वाविमौ तत्र युद्धमप्यभवच्चिरम् ।
तथापि भैरवश्चोरः प्रतिपेदे जयश्रियम् ॥६९॥
कावुकेनापि सरुषा पावकप्रतिमौजसा ।
गदाघातेन महता शायिताश्शतशो द्विषः ॥७०॥
विशीर्णवरवर्माणो विदीर्णतरवक्षसः ।
सहसा परिमुह्यंतो हस्तविस्प्रस्तहेतयः ॥७१॥
प्रतिप्रतीकनिर्गच्छद्रक्तरंजितभूमयः ।
आयोधनाजिरेऽमुष्मिन्निपतंतो विरेजिरे ॥७२॥
विगलद्रक्तरक्तांगाः सुभटास्ते बभुस्तदा ।
निर्झरोद्गारसंपृक्तगैरिकार्द्रा इवाद्रयः ॥७३॥
तत्र तेषा परेषां च तदभ्याहवकौतुकम् ।
व्यलोकत शिवोऽप्यद्धा वीरो वीरश्रियोल्लसन् ॥७४॥
तदा पुरंदरतटादतिमात्रस्मयोद्धता ।
प्रणदंती प्रववृते लोहितोदा महानदी ॥७५॥
आरुह्य व्योमयानानि द्योतयंतो दिवोंतरम् ।
दर्शं दर्शं सुरास्सर्वे प्रशशंसुर्महादृवम् ॥७६॥
तत्कालकलितोद्दाममुंडमाला मनोहरः ।
प्रावर्तत मुदा तत्र प्रमथैस्सहितो हरः ॥७७॥
अतिमात्रं जिघत्संतस्तत्क्षणाधिगतक्षणाः ।
अतृप्यन् प्रचुरं प्रपय पिशितं पिशिताशनाः ॥७८॥
प्रेतरं कोंऽकमारोप्य करंकमकुतोभयः ।
संपृक्तशोणितरसं तरसं बुबुधे तदा ॥७९॥
उद्दामोड्डानशौंडाभिर्डाकिनीभिस्समं तदा ।
वपूंषि पुपुषुः स्वानि शाकिन्यस्सैनिकामिषैः ॥८०॥
कवींद्र उवाच
यथा तत्र मुसेखानो गोदेन निहतस्तदा ।
निशम्यतां तथा सर्वमधिधास्याम्यथ द्विजाः ॥८१॥
मुसेखानेन बलिना भग्नभल्लस्सकोपनः ।
कालकाकोदराकारकरवालकरोऽभवत् ॥८२॥
तत्र तत्करवालेन तडिदाकारधारिणा ।
पेतुः पठाणाः शतशः शकलीभूय भूतले ॥८३॥
मुसेखानस्तु तद्दृष्ट्वा तस्यकर्मातिमानुषम् ।
तमात्मकरवालेन भुजे सव्ये व्यताडयत् ॥८४॥
ताडितस्स भुजे मुसेखानेन वेगिना ।
नावेपत महावीरो वातेनेववनद्रुमः ॥८५॥
निबद्धभ्रूपुटौ भूरिरोषरूक्षेक्षणावुभौ ।
गतप्रत्यागतकरौ घोरखङ्गलताकरौ ॥८६॥
द्विरदा इव नर्दंतौ प्रहरंतौ परस्परम् ।
विशीर्यमाणशीर्षण्यतनुत्रौ तौ विरेजतुः ॥८७॥
अथान्योन्यायुधाघातदीर्यमाआण्वुभाविमौ ।
समं रुधिरधाराभिर्वसुधामभ्यषिंचताम् ॥८८॥
क्षणमात्रमहो तत्र युद्धमासीत्तयोस्समम् ।
ततस्तत् कृततोदोपि ततो गोदोऽधिकोभवत् ॥८९॥
अथप्रहारैर्बहुभिर्निर्भरं विह्वलोऽपि सन् ।
बली स पातयामास खङ्गं गोदेस्य मूर्धनि ॥९०॥
यावदापतति ह्यस्य करवालस्स्वमूर्धनि ।
तावद्गोदोसिनास्वेन तमरातिमताडयत् ॥९१॥
ताडितःस तदा तत्र गोदेन क्रोधमूर्तिना ।
आस्कंधभागमामध्यभागं भिन्नो द्विधाभवत् ॥९२॥
निपातितं तदा तस्य द्विधाभूतं कलेवरम् ।
अभूच्च रुधिरोद्गारैररुणं धरणितलम् ॥९३॥
जगत्स्थापकवंश्येन मुसेखाने निपातिते ।
शतशस्तत्र यवनाः शमनातिथयोऽभवन् ॥९४॥
सदेन खङ्गिनाखङ्गयुद्धं योद्धुमपारयन् ।
परः शरासनं गर्वादर्वाग्भूयाग्र्यमग्रहीत् ॥९५॥
ततोऽशरफशाहस्य तुदतस्ते जितैश्शरैः ।
विकृष्यमाणमौर्वीकं व्योमांतवलयायितम् ॥९६॥
अनेकवर्णनिन्यासमिंद्रायुधमिवायतम् ।
धनुरभ्येत्य चिच्छेद करवालकरस्सदः ॥९७॥
स तेन शीघ्रहस्तेन द्विषता द्विदलीकृतम् ।
विचित्रवर्णदुर्वर्णबिंदुराजिविराजितम् ॥९८॥
तदा तदाहवसखं विहाय विशिखासनम् ।
सद्यस्तमहितं हन्तुं घोरं परिघमाददे ॥९९॥
पंचाननसमस्तन्वातन्वानोतितमां युधम् ।
गृहीतमात्रं चिच्छेद सदस्तस्य तदायुधम् ॥१००॥
आदत्त तत्र हस्ते स्वे स म्लेच्छो यद्यदायुधम् ।
सदो वीररसावेशात् तरसा तत्तदच्छिनत् ॥१०१॥
ततो निरायुधो भूत्वा कृत्वानभिमुखं मुखम् ।
यवनस्स परावृत्तिपथं लेभे यथासुखम् ॥१०२॥
अथ प्रतिभटात्तस्मात् घांटिकोऽपि द्रुतं तथा ।
अपद्रुतश्चिरं युद्ध्वा द्विरदाद्द्विरदो यथा ॥१०३॥
भैरवं भैरवं मत्वा मिनादरतनावपि ।
संवर्तसमयप्रायात् संपरायादपेयतुः ॥१०४॥
पुरंदरात् परावर्तमानां त्राणार्थिंनीं चमूम् ।
नालोकत फतेखानो ग्लानोऽनभिमुखीभवन् ॥१०५॥
अभिमुखमुपायातं तत्र प्रभूतबलं बला -
द्युधि किल फतेखानं भंक्त्वा स शाहनृपात्मजः ।
अविहतगतिर्दैवोद्रेकादुदित्वरविक्रमो
विजयपुरभूशक्रं जेतुं बताभिमुखोऽभवत् ॥१०६॥
भृशं युद्ध्वावाप्तः शिवधरणिपालादभिभवं
फतेखानो म्लानो विजयपुरमभ्यर्णमकरोत् ।
तमाकर्ण्योदन्तं सदसि महमूदेन सहसा
ममज्जे चिंताब्धौ सुचिरमनुतप्तेन मनसा ॥१०७॥
इत्यनुपुराणे कवींद्र परमानंद प्रकाशितायां मुसेखानवधोनाम चतुर्दशोऽध्यायः ॥१४॥

सर्व पहा

आषाढी एकादशीच्या दिवशी 'या' ७ गोष्टी टाळाच; अन्यथा विठ्ठल पूजेचे फळ मिळणार नाही!

जळणाऱ्या नातेवाईकांपासून स्वतःचा बचाव कसा करावा? आचार्य चाणक्यांचे विचार जाणून घ्या

महाराष्ट्रातील सर्वात थंड गाव कोणतं? उत्तर ऐकून आश्चर्य वाटेल

वयाच्या ३५ नंतर मित्र अचानक कमी का होतात?

स्वयंपाकघरातील हा एक बदल वीजबिल कमी करू शकतो

सर्व पहा

कमी तेलात आणि बाहेरून कुरकुरीत! आषाढी एकादशीला बनवा हॉटेलसारखा परफेक्ट 'साबुदाणा वडा'; टिप करा नोट

कानांच्या काळजीसाठी ऑलिव्ह तेल का आणि कसे फायदेशीर आहे, फायदे जाणून घ्या

Career Tips: बीटेक इन पेट्रोकेमिकल इंजीनियरिंग मध्ये करिअर बनवा, पात्रता,व्याप्ती ,पगार जाणून घ्या

Homemade remedies: डोळ्यांखालील काळी वर्तुळे घालवण्यासाठी सर्वात सोपा घरगुती उपाय, नक्की करून पहा

गुलाबाच्या पाकळ्या वापरून घरीच नैसर्गिक लिप बाम बनवा; ओठ अगदी मऊ राहतील

पुढील लेख
Show comments