Webdunia - Bharat's app for daily news and videos

Install App

शिवभारत अध्याय दुसरा

Updated: सोमवार, 26 ऑगस्ट 2024 (14:50 IST)
सुन्दरीभिः शयांभोजसंवाहितपदं पुनः ।
बहूपकृतमत्त्युच्चैर्यत्नेन धृतमात्मना ॥१९॥
कृतघ्नतामिव दधद्वपुष्मन्तमये वपुः ।
नानुयाति जगत्यस्मिन् तस्मात् कश्चिन्न कस्यचित् ॥२०॥
कलत्राण्यनुकूलानि पुत्राश्च कृतलक्षणाः ।
तौ मातापितरौ तद्वद्भ्रातरः सोदरा अपि ॥२१॥
मित्राणि शत्रवश्चापि संपदो विपदोपि च ।
भवन्ति तावदेवास्य यावदस्ति कलेवरम् ॥२२॥
एष शाहूः शरीफश्च तव देवि सुतावुभौ ।
तेजस्विनौ विराजेते पुष्पवन्ताविवोदितौ ॥२३॥
आभ्यां वंशवतंसाभ्यां भविष्यत्युज्वलं यशः ।
सर्वस्मिन्नपि संसारे वीरमातुस्तवाद्भुतम् ॥२४॥
क्षीरकण्ठाविमौ वत्सौ बत त्वन्मयजीवितौ ।
मनागपि जगत्यत्र त्वां विना स्थास्यतः कथम् ॥२५॥
तस्मात्त्वं बिभृहि प्राणांस्त्राणार्थमनयोर्द्वयोः ।
दधती धैर्यमधुना वचनेनामुना मम ॥२६॥
इति विठ्ठलराजस्तां पर्याश्वासयदात्मनः ।
स्थित्यर्थमन्ववायस्य राज्यस्य च विशेषतः ॥२७॥
दत्तदृष्टिस्तु सा देवी वात्सल्यात्तनयद्वये ।
अपास्य शोकमनघा बभार बत जीवितम् ॥२८॥
महान्तमपि तं शोकं निगृह्य स महामतिः ।
अकारयद्विधिं भ्रातुः सकलं पारलौकिकम् ॥२९॥
ततःशाहं शरीफं च पुरस्कृत्य प्रतापिना ।
चक्रे विठ्ठलराजेन राज्यं तदखिलं स्थिरम् ॥३०॥
निशम्यैतव्रिजामोपि निधनं मालवर्मणः ।
पक्षहीनामिव निजां बत मेने पताकिनीम् ॥३१॥
ततः शाहशरीफाह्नौ मालवर्मसुतावुभौ ।
समं विठ्ठलराजेन समनाय्य महामनाः ॥३२॥
सान्त्वायित्वा स्वयं दत्वा ताभ्यां तत् पितृवैभवम् ।
सत्कृत्य हेमाभरणैर्वासोभिश्च मनोहरैः ॥३३॥
अनर्घ्यमणिमालाभिस्तथा च गजवाजिभिः ।
विसृष्टवान् गृहानेतौ तुष्टो धारागिरीश्वरः ॥३४॥
अथ तेन पितृव्येण परिपालितयोस्तयोः ।
वपुषी बाल्यसंपृक्ते परां पुपुषतुः श्रियम् ॥३५॥
प्रशस्तलक्षणोपेते निकेते सर्वसंपदाम् ।
सोदरेऽथ शरीफस्य राजशब्दो व्यराजत ॥३६॥
तं बालमपि भूपालमणयस्संर्व एव ते ।
मानयन्तो नमन्ति स्म महाभुजमुमात्मजम् ॥३७॥
ततश्शरीरं शाहस्य प्रविष्टे नवयौवने ।
ससंबाधेव शिशुता संचुकोच शनैश्शनैः ॥३८॥
करिपोतमिवोदंचन्मदराजिविराजितम् ।
व्यक्तीभवन्नवश्मश्रुलेखं लेखमनोहरम् ॥३९॥
सुवर्णविस्फुरद्वर्णमाकर्णायतलोचनम् ।
कृतकीरकुलत्रासनासावंशमनोहरम् ॥४०॥
कलाधरतिरस्कारि मनोहारि मुखं पनः ।
जानुपर्यन्तविश्रान्तभुजमद्भुतविग्रहम् ॥४१॥
दानवीरं दयावीरं युद्धवीरं महौजसम् ।
मालभूपसुतं शाहं वरलक्षणलक्षितम् ॥४२॥
दृष्ट्वा यादवराजेन राजराजसमश्रिया ।
दिष्टे दैवज्ञसंदिष्टे विशिष्टेभिमतैंर्ग्रहैः ॥४३॥
कुलकन्या कुले धन्या कन्या कुवलयेक्षणा ।
दत्ता सदक्षिणा तस्मै जिजूर्विजयलक्षणा ॥४४॥
सा तं महाशयं प्राप्य बिभ्नती वपुरुज्वलम् ।
गंगेव गुणगंभीरा व्यराजत महोदधिम् ॥४५॥
स च तां प्रेयसीं लब्ध्वा पद्महस्तां भुवः श्रियम् ।
लावण्यवैभववतीमतीव महितान्वयाम् ॥४६॥
नितंबप्रान्तविश्रान्तस्निग्धश्यामलकुन्तलाम् ।
चन्द्रार्धभ्रांतिकृद्भालां शरासनसमभ्रुवम् ॥४७॥
सत्तामिव मनोजस्य लसत्तामरसेक्षणाम् ।
सुवर्णशुक्तिप्रतिमश्रुतिं सरलनासिकाम् ॥४८॥
प्रत्यग्रतरकुन्दाग्रदन्तीं शोणरदच्छदाम् ।
विकस्वरांभोजमुखीं कंबुकण्ठीं पिकस्वराम् ॥४९॥
मृणाळकोमळभुजां नवांकुरितयौवनाम् ।
व्याकोशांभोरुहशयां लसत्किसलयांगुलिम् ॥५०॥
स्निग्धारुणनखश्रेणिं निम्ननाभिं तनूदरीम् ।
रंभास्तंभाभिरामोरूं गूढगुल्फां यशस्विनीम् ॥५१॥
राजरेखांकितपदां प्रशस्तिं सर्वसंपदाम् ।
नानालंकारसंभारसंदृब्धस्निग्धवेणिकाम् ॥५२॥
मुक्तामणिश्रेणिकांतसीमन्तप्रान्तवर्तिना ।
स्फुरितारुणवर्णेन शिरःपुष्पेण शोभिताम् ॥५३॥
सुवृन्ते स्वर्णताटंके पर्यन्तप्रोतमैक्तिके ।
दधतीं दीधितिमतीं सरत्नां च ललाटिकाम् ॥५४॥
पृथुमुक्तामणिमयोदारहारमनोहराम् ।
रत्नमुक्तांचितानेकगुच्छगुच्छार्धधारिणीम् ॥५५॥
केयूरकान्तिकिर्मीरसरत्नकरकंकणाम् ।
कृशावलग्नसंलग्नसप्तकीसंभृतश्रियम् ॥५६॥
कलहंसगतिं शिजन्मणिमंजीरशालिनीम् ।
अनर्घ्यरत्नाभरनप्रसाधितपदांगुलिम् ॥५७॥
सुवर्णतन्तुसंतानविलसद्वसनावृताम् ।
रत्नमुक्तामणिव्रातस्फुरत्कूर्पासकान्विताम् ॥५८॥
पश्यन् प्रसन्नवदनां प्रसन्नवदनः स्वयम् ।
सूर्यवंशमनिस्तूर्यघोषेण गृहमाविशत् ॥५९॥
समागतां समं तेन पत्या प्रश्रयसंश्रयाम् ।
श्रियं नारायणेनेव प्रविशंतीं निकेतनम् ॥६०॥
संभूयाशु समेताभिः पश्यन्तीभिस्सविभ्रमम् ।
सुभगाभिः पुरन्ध्रीभिः कृतनीराजनाविधिम् ॥६१॥
वन्दमानाममोघाभिराशीर्भिरभिनन्दिताम् ।
स्नुषामिमामथ श्वश्रूः सकौतुकमलोकत ॥६२॥
श्वश्रूशुश्रूषणपरां पतिप्रियतरोत्तराम् ।
शीलसंरक्षणे सज्जां लज्जां मूर्तिमतीमिव ॥६३॥
साध्वीजनाध्वमर्यादामन्वयद्वयसम्मताम् ।
जनीं नन्दत्परिजनामभ्यनन्दन्सतीजनाः ॥६४॥
सुतां विश्वासराजस्य दुर्गां नाम्नाथ सद्गुणाम् ।
शरीफोपि महाबाहुर्भव्यां भार्यामविन्दत ॥६५॥
सा तया च तया तन्व्या स्नुषया सेवितान्वहम् ।
विनीताभ्यां च पुत्राभ्यामुमा लेभे परां मुदम् ॥६६॥
अगणितगुणभाजौ भ्रातरौ तावमूभ्यां ।
निरवधिकगुणाभ्यां भ्राजमानौ वधूभ्याम् ॥
सपदि निजयशोभिः शोभमानामशेषां ।
भुवमपि जनयित्रीं नन्दयामासतुः स्वाम् ॥६७॥
सार्धं तेनानुजेनाप्रतिहतगतिना मारुतेनेव शुष्मा ।
भीष्मादत्युग्रकर्मा युधि युधि विजयी विश्रुतः शाहवर्मा ।
कर्तुं नित्यं निजामप्रियमतुलबलः काण्डकोदण्डपाणिः ॥
सर्वेषां प्रार्थिवानां पृथुरिव पृथिवीवासवश्शासकोभूत् ॥६८॥
इत्यनुपुराणे सूर्यवंशे निधिवासकरपरमानंदप्रकाशितायां शतसाहस्र्यां संहितायां शाहशरीफपरिणयो नाम द्वितीयोध्यायः ।

सर्व पहा

भाऊ-बहिण प्रत्येक गोष्टीवरून भांडतात का? राखीला या गोष्टी करा

चाणक्य नीती: जर स्त्रीमध्ये हे ४ गुण असतील तर कुटुंब समृद्ध होते; चाणक्य नीतीमध्ये वर्णन

भविष्य मालिकेची भाकिते खरी ठरणार? १३ मुस्लिम देशांचा गट आणि भारतावरील हल्ल्याच्या दाव्यामागचे सत्य

डेंग्यू-मलेरियाचा धोका वाढतोय; पावसाळ्यात घरात या ७ गोष्टी नक्की करा

गणेशोत्सवाच्या आधी घराची साफसफाई करताना या ७ चुका करू नका; आरोग्यावर होऊ शकतो परिणाम

सर्व पहा

ही योगासने आणि शितकारी प्राणायाम मेनोपॉजच्या काळात फायदेशीर आहे

Janmashtami Essay 2026 जन्माष्टमी निबंध

अतिशय चवदार आणि चमचमीत भाजी ''कढाई मशरूम'' पराठ्यासोबत अप्रतिम लागते

रोज रात्री उशिरा जेवता? डॉक्टरांचा हा महत्त्वाचा सल्ला दुर्लक्षित करू नका

बीटेक इन मृदा आणि जलसंधारण अभियांत्रिकी इंजीनियरिंग मध्ये करिअर बनवा, पात्रता पगार जाणून घ्या

पुढील लेख
Show comments