Dharma Sangrah

शिवभारत अध्याय चौथा

Published: सोमवार, 26 ऑगस्ट 2024 (15:02 IST)
तत्सुतेनोग्रगतिना फत्तेखानेन मानिना ॥१९॥
सुतैरामदखानस्य तथातिगुणविश्रुतैः ।
अन्यैरपि महासैन्यैस्समन्तादभिरक्षितः ॥२०॥
विद्विषद्वृन्दविध्वंसी स्वबाहुबलदर्पितः ।
परं न गणयामास निजामो ज्वलनोपमः ॥२१॥
येदिलःस तु दिल्लेन्द्रं सहायं समुपाश्रयन् ।
स्वयं निजामशाहेन सार्धं योद्धुमथैहत ॥२२॥
जलालश्च जहानश्च खंजीरश्च सिकंदरः ।
करमुल्लाखलेलश्च सुजानश्च हि सामदः ॥२३॥
एते बहुदुरयुता म्लेच्छास्सर्वे प्रतापिनः ।
राजा दुदाभिधानश्च संपरायपरायणः ॥२४॥
उदारामश्चाग्रजन्मा ख्यातः क्षात्रेण कर्मणा ।
दादाजी विश्वनाथश्च भारद्वाज इवाजिषु ॥२५॥
रागह्वश्चाचलश्चापि जसवंतबहादुरौ ।
एते यादवराजस्य सुतास्स च महाभुजः ॥२६॥
सर्वे लश्करखानेन सेनाधिपतिना समम् ।
दिल्लीन्द्रेणाभ्यनुज्ञाताः संप्राप्ता दक्षिणां दिशम् ॥२७॥
अव्याहताशुगमनाः पवना इव पुष्करम् ।
आचक्रमुर्निजामस्य नीवृतं कृतविक्रमाः ॥२८॥
मुस्तफाख्यो मसूदश्च फरादश्च दिलावरः ।
सरजायाकुतश्चापि खैरतश्च तथांवरः ॥२९॥
अंकुशश्चेति यवना अन्येप्यतुलविक्रमाः ।
इभरामस्य बहवः सुहृदश्चानुजीविनः ॥३०॥
द्विजन्मा ढुंढिनामा च तज्जातिश्चापि रुस्तुमः ।
घाण्टिकाद्याश्च बहवो महाराष्ट्रा महीभुजः ॥३१॥
मुल्लामहंमदं नाम पुरस्कृत्य प्रभाविणम् ।
येदिलानीकपतयोप्यथाजग्मुर्यथाक्रमम् ॥३२॥
अथ ताम्रानुत्तरतस्तथा दक्षिणतः परान् ।
अभियातानभीयाय निजामप्रहितोंऽबरः ॥३३॥
तं पर्यवारयंस्तत्र शाहवर्मादयो नृपाः ।
तारकासुरस्म्ग्रामे महासेनमिवामराः ॥३४॥
ततोऽभूद्भैरवं युद्धमंबरस्य परैस्सह ।
पिशाचभूतवेताळनिशाचरसुखावहम् ॥३५॥
धावद्धयखुरोद्धूतधूलिधूसरमण्डलः ।
चण्डांशुरन्वभूद् व्योम्नि तदा घनघटावृतिम् ॥३६॥
श्रेणी धरणिरेणूनां भृशमभ्रंकषा बभौ ।
निश्रेणिरिव वीराणां सद्यो द्यामारुरुक्षताम् ॥३७॥
हेषाभिरथवाहनां कुंजरणां च गर्जितैः ।
सिंहनादेन वीराणां भेरीणां निनदेव च ॥३८॥
शरासनानां सज्जानाम टंकारेण महीयसा ।
स्फुरन्तीनां पताकानां मर्मरेण च भूयसा ॥३९॥
घनगंभीरकण्ठानां पाठैश्च जयबन्दिनाम् ।
प्रसभं प्रतिदध्वान परिपूरितमंबरम् ॥४०॥
प्रधावतामथान्योन्यं शूराणां शस्त्रधारिणाम् ।
पदाघातेन महता शतधा वसुधाभवत् ॥४१॥
हंतालक्षितसंपातैर्निशातैर्नतपर्वभिः ।
शरैः शिरांस्यपात्यन्त योधिभिः प्रतियोधिनाम् ॥४२॥
शोणितक्लिन्नकेशानि तत्र शोणेक्षणानि च ।
दष्टाधराणि शूराणां शिरांसि क्षितिमाययुः ॥४३॥
दन्तावलानां दन्तेषु दंभोळिदृढमुर्तिषु ।
योधानां गाढमुष्टीनां निपेतुर्गाढमुष्टयः ॥४४॥
असिना प्रतियोद्धारं विधाय सपदि द्विधा ।
निपपात क्षणार्द्ध्वमपमूर्धकळेवरम् ॥४५॥
किरन्तो रुधिरं भूरितरं सह मदांभसा ।
बभुश्शरशताविद्धतटाः करटिनां कटाः ॥४६॥
नराश्वकरिकीलालमयीं वीचिमतींमनु ।
महानिद्रां महावीराः श्रान्ता इव सिषेविरे ॥४७॥
कृतहस्तैः कुन्तहस्तै वीरैर्विध्वस्तसादिनः ।
भूरिसंरंभसन्तप्ताः सप्तयः परिबभ्रमुः ॥४८॥
ततश्शाहशरीफाभ्यां खेलेन च महौजसा ।
श्यामाननैश्च यवनैरंबरप्रियकारिभिः ॥४९॥
तथा हम्मीरराजाद्यैर्महावीरैः प्रतापिभिः ।
क्षुरप्रचक्रनिस्त्रिंशकुन्तपट्टिशपानिभिः ॥५०॥
हन्यमानमशेषेण ताम्राननबलं महत् ।
रयात् भयातुरं भेजे जिजीविषु दिशो दश ॥५१॥
अथापयातामालोक्य तां वै ताम्रपताकिनीम् ।
येदिलस्यापि पृतना कान्दिशीकतमाभवत् ॥५२॥
मत्तैर्दन्तावलैर्दृप्तस्ताम्रास्यो मनचेहरः ।
द्रवतस्तस्य सैन्यस्य स्वयं पार्ष्णिग्रहोऽभवत् ॥५३॥
तमन्तरा स्थिरं दर्पादन्तरायं जयश्रियाम् ।
पुरः पन्थानमावृत्य स्थितं विन्ध्यमिवापरम् ॥५४॥
दृष्ट्वा शाहशरीफाद्यास्सर्वे भृशबळान्वयाः ।
चक्रिरे विक्रमपराः संप्रहर्तुमुपक्रमम् ॥५५॥
महामहीधराकरकरिप्राकारवर्तिना ।
तेन ते समयुध्यन्त गुरुगर्वेण वर्मिणः ॥५६॥
भ्रामयन् भल्लब्मभ्रान्तस्तीव्रमभ्रांतमानसः ।
तज्जघान गजानीकं शरीफस्संगरोद्धतः ॥५७॥
त्रिशूळकाण्डकोदण्डगदापरिघधारिणः ।
तमग्रयायिनं धीरं रुरुधुगर्जयोधिनः ॥५८॥
तं युध्यमानमभितः क्रुध्यन्तमभिमानिनम् ।
शरीफं पातमासुस्ततस्ते निशितैः शरैः ॥५९॥
तस्मिन्नवरजे वीरे विध्वस्तपरकुंजरे ।
सपत्नशरनिर्भिन्ने गते वीरगतिं प्रति ॥६०॥
तरसा खेलकर्णाद्यैर्भ्रातृभिः परिवारितः ।
शाहः क्रुद्धोऽभिदुद्राव ससेन्यं मनचेहरम् ॥६१॥
ततः प्रासवरत्रासपराहतमदद्विपः ।
प्रतापी ताम्रवदनः स पराचीनतां ययौ ॥६२॥
अपक्रामति संग्रामात् तस्मिन्नछिन्नकुंजेर ।
सैनिकास्तु निजामस्य सिंहनादान् वितेनिरे ॥६३॥
तदोदीचीमपाचीं च प्राचीमपि च रंहसा ।
संश्रित्य विद्रवन्ति स्म ते निजामस्य विद्विषः ॥६४॥
ततः प्रसन्नमनसः शाहराजादयो नृपाः ।
द्रवतस्ताननुद्रुत्य सर्वान्निजगृहुर्बलात् ॥६५॥
रयादथानीय रणप्रचण्डान् । प्रसह्य सन्दानितबाहुदंडान् ।
ताम्राननेकानपरांश्च वीरांन् । चक्रुस्समुह्याशु पुरोंऽबरस्य ॥६६॥
इति जितरिषुरंबरः प्रतापी भृशबलबाहुबलावलंबनेन ।
पटहरवविमिश्रतूर्यघोषैः सपदि जगाम निजामदर्शनार्थम् ॥६७॥
दिल्लींद्रस्य प्रतापाद्भुतविभवभृतः सैन्यमन्यैरजय्यं ।
सद्यस्तद्येदिलस्याप्यतुलबलमथोज्जासयित्वा जवेन ॥
बंदीकृत्योरुदर्पानपि च युधि चमूनायकानुग्रकर्मा ।
सेनानीरंबरोऽसौ भृशबलसहितस्तं निजामं ननाम ॥६८॥
इत्यनुपुराणे सूर्यवंशे निधिवासकरकवीन्द्रपरमानंदप्रकाशितायां शतससाहस्र्यां संहितायां निजामप्रकर्षो नाम चतुर्थोऽध्यायः

सर्व पहा

Ganesh Chaturthi 2026 Sthapana Shubh Muhurat: १४ सप्टेंबर रोजी गणपती स्थापना शुभ मुहूर्त

देवांना अत्यंत प्रिय असणाऱ्या या फुलांच्या माळा अर्पण करा; मिळवा विशेष आशीर्वाद!

गणपती बाप्पाच्या स्वागतासाठी ३ प्रकारच्या चॉकलेट मोदकांची रेसिपी

कॅल्शियमची कमतरता दूर करण्यासाठी रोजच्या आहारात हे पदार्थ खा; हाडे आणि दात राहतील मजबूत!

खाऊन योग करणे योग्य आहे की अयोग्य, जेवणानंतर योगा करण्याचे परिणाम जाणून घ्या

सर्व पहा

ऋषी पंचमी विशेष: पारंपरिक आणि पौष्टिक ऋषींची भाजी Rishi Panchami Naivedyam

गणेशोत्सवात श्री गणेशाच्या नैवेद्यासाठी पौष्टिक आणि अत्यंत खुसखुशीत ''मखाना पाग बर्फी''

भाजल्यास, कापल्यास किंवा मुरगळल्यास या ५ चुका टाळा

आरसीएफएलमध्ये १० सहायक अधिकारी पदांसाठी भरती, २६ सप्टेंबरपर्यंत अर्ज करा

सकाळी चमकदार त्वचा मिळवण्यासाठी, दररोज रात्री हे उपाय करा

पुढील लेख
Show comments