Dharma Sangrah

उपमन्युकृतं शिवस्तोत्रम्- Upamanyukrutam Shivastotram

सोमवार, 19 जानेवारी 2026 (07:58 IST)
उपमन्युकृतं शिवस्तोत्रम् 
जय शङ्कर पार्वतीपते मृड शंभो शशिखण्डमण्डन ।
मदनान्तक भक्तवत्सल प्रियकैलास दयासुधांबुधे ॥१॥ 
 
सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः ।
शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२॥
 
 महतः परितः प्रसर्पतस्तमसो दर्शनमेदिनो भिदे ।
दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥३॥
 
 न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः ।
कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु नः ॥४॥
 
त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता न हि वक्तुमीश सा ।
मधुरं हि पयः स्वभावतो ननु कीद्रुक्सितशर्करान्वितम् ॥५॥
 
 सविषोऽप्यमृतायते भवाच्छवमुण्डाभरणोऽपि पावनः ।
भव एव भवान्तकः सतां समद्रुष्टिर्विषमोक्षणोऽपि सन् ॥६॥ 
 
अपि शूलधरो निरामयो द्रुढवैराग्यरतोऽपि रागवान् ।
अपि भैक्ष्यचरो महेश्वरश्चरितं चित्रमिदं हि ते प्रभो ॥७॥ 
 
वितरत्यभिवाञ्छितं द्रुशा परिद्रुष्टः किल कल्पपादपः ।
हृदये स्मृत एव धीमते नमतेऽभीष्टफलप्रदो भवान् ॥८॥ 
 
सहसैव भुजङ्गपाशवान्विनिगृह्णाति न यावदन्तकः ।
अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौषधैः ॥९॥
 
 सविषैरिव भीमपन्नगैर्विषयैरेभिरलं परिक्षतम् ।
अमृतैरिव संभ्रमेण मामभिषिञ्चाशु दयावलोकनैः ॥१०॥ 
 
मुनयो बहवोऽद्य धन्यतां गमिताः स्वाभिमतार्थदर्शिनः ।
करुणाकर येन तेन मामवसन्नं ननु पश्य चक्षुषा ॥११॥
 
प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् ।
विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥१२॥
 
 बहवो भवताऽनुकंपिताः किमितीशान न माऽनुकंपसे ।
दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥१३॥
 
अशुचिं यदि माऽनुमन्यसे किमिदं मूर्ध्नि कपालदाम ते ।
उत शाठ्यमसाधुसङ्गिनं विषलक्ष्मासि न किं द्विजिह्वधृक् ॥१४॥
 
 क्व द्दशं विदधामि किं करोम्यनुतिष्ठामि कथं भयाकुलः ।
क्व नु तिष्ठसि रक्ष रक्ष मामयि शंभो शरणागतोऽस्मि ते ॥१५॥
 
 विलुठाम्यवनौ किमाकुलः किमुरो हन्मि शिरश्छिनद्मि वा ।
किमु रोदिमि रारटीमि किं कृपणं मां न यदीक्षसे प्रभो ॥१६॥
 
 शिव सर्वग शर्व शर्मदं प्रणतो देव दयां कुरुष्व मे ।
नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोऽस्तु ते ॥१७॥
 
 शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका ।
शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥१८॥
 
 उपमन्युकृतं स्तवोत्तमं जपतः शंभुसमीपवर्तिनः ।
अभिवाञ्छितभाग्यसम्पदः परमायुः प्रददाति शङ्करः ॥१९॥
 
 उपमन्युकृतं स्तवोत्तमं प्रजपेद्यस्तु शिवस्य सन्निधौ ।
शिवलोकमवाप्य सोऽचिरात्सह तेनैव शिवेन मोदते ॥२०॥
 
 इत्युपमन्युकृतं शिवस्तोत्रं संपूर्णम् ॥ 
 

सर्व पहा

स्त्रियांनी नारळ का फोडू नये? धार्मिक आणि शास्त्रीय कारण ऐकून तुम्हीही थक्क व्हाल!

घरात पीडा येईल.. जर गुरुवारी ही 7 कामे करत असाल तर थांबवा

आरती गुरुवारची-निर्गुण गुणवंत तूं विघ्नहारा

Budh Stotra लक्ष्य साध्य करण्यासाठी बुध स्तोत्र पाठ

एकवीस स्वर्ग मुकुट सप्तही पाताळ चरण आरती बुधवारची

सर्व पहा

मान्सूनमध्ये कार चालवताना 'या' ८ चुका टाळा; नाहीतर होऊ शकते मोठे नुकसान

Birthday Wishes For Sister in Marathi बहिणीला वाढदिवसाच्या शुभेच्छा मराठी

कशेडी घाटात खरंच भूत आहे का ? जाणून घ्या 'त्या' रहस्यमय कथांमागील सत्य!

संत नामदेव महाराज समाधी: इतिहास, महत्त्व आणि नामदेव पायरीची संपूर्ण माहिती

July Monthly Horoscope 2026 मासिक राशिभविष्य: जुलै २०२६ मध्ये 'या' राशींवर होणार धनाचा वर्षाव; तुमचे भाग्य कसे असेल?

पुढील लेख
Show comments