Festival Posters
✕

राम स्तोत्रे शरणागति गद्यम्

Updated: शुक्रवार, 12 एप्रिल 2024 (11:36 IST)
 
काञ्चीगुण नूपुराद्यपरिमित दिव्यभूषण ! स्वानुरूप अचिन्त्यशक्ति शङ्खचक्र गदासि शार्ङ्गद्यसंख्येय नित्यनिरवद्य निरतिशय कल्याणदिव्यायुध !
 
स्वाभिमत नित्यनिरवद्यानुरूप स्वरूप रूप गुण विभव ऐश्वर्य शीलाद्यनवधिकातिशय असंख्येय कल्याणगुणगणश्रीवल्लभ !  एवंभूतभूमिनीळानायक !
 
स्वच्छन्दानुवर्ति स्वरूपस्थितिप्रवृत्तिभेद अशेषशेषतैकरतिरूप नित्यनिरवद्यनिरतिशय ज्ञानक्रियैश्चर्याद्यनन्त कल्याणगुणगण शेष शेषाशन गरुडप्रमुख नानाविध अनन्तपरिजन परिचारिका परिचरित चरणयुगळ !
 
परमयोगिवाङ्मनसाऽपरिच्छेद्य स्वरूपस्वभाव स्वाभिमत विविधविचित्रानन्त भोग्य भोगोपकरण भोगस्थानसमृद्ध अनन्ताश्चर्य अनन्तमहाविभव अनन्तपरिमाण नित्य निरवद्य निरतिशय श्रीवैकुण्ठनाथ !
 
स्वसङ्कल्पानुविधायि स्वरूपस्थितिप्रवृत्ति स्वशेषतैकस्वभाव प्रकृति पुरुष कालात्मक विविध विचित्रानन्त भोग्य भोक्तृवर्ग भोगोपकरण भोगस्थानरूप निखिलजगदुदय विभव लयलील !
 
सत्यकाम! सत्यसङ्कल्प ! परब्रह्मभूत ! पुरुषोत्तम महाविबूते ! श्रीमन्!  नारायण! वैकुण्ठनाथ !
 
अपार कारुण्य सौशील्य वात्सल्य औदार्य ऐश्वर्य सौन्दर्य महोदधे !  अनालोचितविशेष अशेषलोकशरण्य ! प्रणतार्तिहर !  आश्रितवात्सल्यैकजलधे! अनवरतविदित निखिलभूतजातयाथात्म्य!  अशेषचराचरभूत 
 
निखिलनियमननिरत! अशेषचिदचिद्वस्तु शेषिभूत!  निखिलजगदाधार! अखिलजगत्स्वामिन्! अस्मत्स्वामिन्! सत्यकाम!  सत्यसङ्कल्प! सकलेतरविलक्षण! अर्थिकल्पक! आपत्सख! श्रीमन्!  नारायण! अशरण्यशरण्य! 
 
अनन्यशरणः त्वत्पादारविन्दयुगळं  शरणमहं प्रपद्ये ॥
 
अत्र द्वय( मनुसन्देय) म् ।
 
"पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् । रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ॥
सर्वधर्माश्च संत्यज्य सर्वकामांश्च साक्षरान् । लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो! ॥"
"त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥
पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्र येऽप्यप्रतिमप्रभाव ! ॥"
"तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥"
मनोवाक्कायैरनादिकालप्रवृत्त अनन्त अकृत्यकरण कृत्याकरण भगवदपचार भागवतापचार असह्यापचाररूप नानाविध अनन्तापचारान्
आरब्धकार्यान् , अनारब्धकार्यान् , कृतान् , क्रियमाणान् , करिष्यमाणांश्च सर्वान् अशेषतः क्षमस्व ।
अनादिकालप्रवृत्तविपरीतज्ञानं , आत्मविषयं   कृत्स्नजगद्विषयं च , विपरीतवृत्तं च अशेषविषयं , अद्यापि वर्तमानं वर्तिष्यमाणं च सर्वं क्षमस्व ॥
मदीयानादिकर्मप्रवाहप्रवृत्तां , भगवत्स्वरूपतिरोधानकरीं , विपरीतज्ञानजननीं , स्वविषयायाश्च भोग्यबुद्धेर्जननीं , देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण च अवस्थितां , दैवीं गुणमयीं मायाम् ,
 " दासभूतः शरणागतोऽस्मि तवास्मि दासः, "
 इति वक्तारं मां तारय ।
 
"तेषां ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥
बहूनां जन्मनामस्ते ज्ञानवान् मां प्रपद्यते ।वासुदेवः सर्वमिति स महात्मा सुदुर्लभः " ॥
 
इति श्लोकत्रयोदितज्ञानिनं मां कुरुष्व ।
 
" पुरुषः स परः पार्थ ! भक्त्या लभ्यस्त्वनन्यया " , "भक्त्या
त्वनन्यया शक्यः", "मद्भक्तिं लभते पराम्"
इति स्थानत्रयोदितपरभक्तियुक्तं मां कुरुष्व ।
परभक्तिपरज्ञानपरमभक्त्येकस्वभावं मां कुरुष्व ।
परभक्ति परज्ञान परमभक्तिकृत परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय भगवदनुभवोऽहं , तथाविध
भगवदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिङ्करो भवानि ।
 
श्री रङ्गनाथः - - - -
एवंभूत मत्कैङ्कर्यप्राप्त्युपायतया अवकॢप्तसमस्तवस्तुविहीनोऽपि , अनन्त तद्विरोधिपापाक्रान्तोऽपि , अनन्त मदपचारयुक्तोऽपि , अनन्त मदीयापचारयुक्तोऽपि , अनन्त असह्यापचारयुक्तोऽपि , एतत्कर्यकारणभूत अनादि 
 
विपरीताहङ्कार विमूढात्मस्वभावोऽपि , एतदुभयकार्यकारणभूत अनादि विपरीतवासनासंबद्धोऽपि , एतदनुगुण प्रकृतिविशेषसंबद्धोऽपि , एतन्मूल आध्यात्मिक आधिभौतिक आधिदैविक सुखदुःख तद्धेतु तदितरोपेक्षणीय 
 
विषयानुभव ज्ञानसंकोचरूप मच्चरणारविन्दयुगळ एकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिविघ्नप्रतिहतोऽपि , येनकेनापि प्रकारेण द्वयवक्ता त्वम् , केवलं मदीययैव दयया , निश्शेषविनष्ट सहेतुक 
 
मच्चरणारविन्दयुगळ एकान्तिकत्यन्तिक परभक्ति परज्ञान परमभक्तिविघ्नः , मत्प्रसादलब्ध मच्चरणारविन्दयुगळ एकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिः , मत्प्रसादादेव साक्षात्कृत यथावस्थित 
 
मत्स्वरूपरूपगुणविभूति लीलोपकरणविस्तारः , अपरोक्षसिद्ध मन्नियाम्यता मद्दास्यैकरसात्मस्वभावात्मस्वरूपः , मदेकानुभवः , मद्दास्यैकप्रियः ,  परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय 
 
मदनुभवस्त्वं तथाविध मदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिंकरो भव ।
एवंभूतोऽसि ।
आध्यात्मिक आधिभौतिक आधिदैविक दुःखविघ्नगन्धरहितस्त्वं द्वयमर्थानुसन्धानेन सह सदैवं वक्ता यावच्छ रीरपातं अत्रैव श्रीरङ्गे सुखमास्व ॥ शरीरपातसमये तु केवलं मदीययैव दयया अतिप्रबुद्धः , मामेवावलोकयन् ,  
 
अप्रच्युत पूर्वसंस्कारमनोरथः , जीर्णमिव वस्त्रं सुखेन इमां प्रकृतिं
स्थूलसूक्ष्मरूपां विसृज्य , तदानीमेव मत्प्रसादलब्ध मच्चरणारविन्दयुगळ एकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिकृत परिपूर्णानवरत नित्य विशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय मदनुभवस्त्वं तथाविध 
 
मदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिङ्करो भविष्यसि ॥
 
मातेऽभूदत्र संशयः ।
"अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।"
" रामो द्विर्नाभिभाषते ।"
" सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥"
" सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥"
इति मयैव ह्युक्तम् ।
अतस्त्वं तव तत्त्वतो मद्ज्ञानदर्शन प्राप्तिषु निस्संशयः सुखमास्व ॥
अन्त्यकाले स्मृतिर्यातु तव कैङ्कर्यकारिता । तामेनां भगवन्नद्य क्रियामाणां कुरुष्व मे ॥
 
इति श्री भगवद्रामानुज विरचिते गद्यत्रय प्रबन्धे शरणागति गद्यम
सर्वं श्री कृष्णार्पणमस्तु

सर्व पहा

नवरात्रीच्या नऊ दिवसांत देवीला कोणती फुले वाहतात? दिवसानुसार फुलांची माहिती

सर्वपितृ अमावास्येला ‘या’ १० चुका करू नका, पूर्वजांच्या नाराजीपासून राहा दूर

Sarv Pitru Amavasya 2026 सर्व पितृ अमावस्येला महादेवाला या ५ वस्तू अर्पित करा

सर्वपित्री अमावस्या २०२६: जाणून घ्या तिथी, स्नानादी दानाचा शुभ मुहूर्त आणि श्राद्ध विधी

नवरात्री स्पेशल फराळ थाळी: एकाच वेळी बनवा ४ चविष्ट उपवासाचे पदार्थ

सर्व पहा

Pitru Paksha 2026: पूर्वजांप्रती कृतज्ञता व त्यांना तृप्त करण्यासाठी पितृपक्षात श्राद्धातील प्रसादाची थाळी

Pitru Paksha 2026: पितृपक्षात या ३ वस्तू घरी आणा; पितर प्रसन्न होतील

Garud Puran स्त्रिया 'श्राद्ध', 'तर्पण' किंवा 'पिंडदान' करू शकतात का? गरुड पुराणातील माहिती जाणून घ्या

पितृपक्षात जुळून येणार 'लक्ष्मी-नारायण राजयोग'; ४ राशींवर होणार धनवर्षाव

Pitru Paksha 2026 पितृ पक्ष कधीपासून सुरू? श्राद्ध तारखांचे संपूर्ण वेळापत्रक

पुढील लेख
Show comments