सोमवार, 29 डिसेंबर 2025
  1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
Written By

असितकृतं शिवस्तोत्रम् Asitakrutam Shivastotram

असितकृतं शिवस्तोत्रम् Asitakrutam Shivastotram
असित कृतं शिव स्तोत्रम्
 
असित उवाच ॥ 
जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च ।
योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥
 
 मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन ।
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु  ते ॥२॥
 
कालरूपं कलयतां कालकालेश कारण ।
कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥
 
 गुणातीत गुणाधार गुणबीज गुणात्मक ।
गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥ 
 
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।
ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥
 
इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।
दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥ 
 
असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।
वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥
 
 स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।
दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥ 
 
अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् ।
इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥९॥
 
 इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।
प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥१०॥
 
 इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे
असितकृतं शिवस्तोत्रं संपूर्णम् ॥