Dharma Sangrah

मृत्युञ्जय मानस पूजा स्तोत्रम् - Mrutyunjaya Maanasa Puja Stotram

Updated: रविवार, 15 मार्च 2026 (17:06 IST)
 
 पञ्चास्त्र शान्त पञ्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो॥८।
 
 जगत्रयीख्यातसमस्ततीर्थसमाहृतैः कल्मषहारिभिश्च ।
 
स्नानं सुतोयैः समुदाचर त्वं मृत्युञ्जयानन्तगुणाभिराम ॥९॥ 
 
आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात् ।
मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥१०॥
 
 नानाहेमविचित्राणि चरिचीनाम्बराणि चविविधानि च
 दिव्यानि मृत्युञ्जय सुधारय ॥११॥
 
विशुद्धमुक्ताफलजालरम्यं मनोहरं काञ्चनहेमसूत्रम् ।
यज्ञोपवीतं परमं पवित्रमाधत्स्व मृत्युञ्जय भक्तिगम्य ॥१२॥ 
 
श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितम् ।
 
 दिव्यं देव मनोहरं मणिमये पात्रे समारोपितं
सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥१३॥ 
 
अक्षतैर्धवळैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युञ्जय महादेव पूजयामि वृषध्वज ॥१४॥
 
 चम्पकपङ्कजकुन्दैः करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमुकुटं मृत्युञ्जय पुण्डरीकनयनाप्त ॥१५॥
 
माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सत्पद्मसदृशौ मृत्युञ्जय निवेशय ॥१६॥
 
माणिक्यकेयूरकिरीटहारैः काञ्चीमणिस्थापितकुड्मलैश्च ।
मञ्जीरमुख्याभरणैर्मनोज्ञैरङ्गानि मृत्युञ्जय भूषयामि ॥१७॥ 
 
गजवदन स्कन्दधृतेनातिस्वच्छेन चामरयुगेन ।
गलदलकाननपद्मं मृत्युञ्जय भावयामि हृत्पद्मे ॥१८॥
 
 मुक्तातपत्रं शशिकोटिशुभ्रं शुभप्रदं काञ्चन दण्डयुक्तम् ।
माणिक्यसंस्थापितहेमकुम्भं सुरेशमृत्युञ्जय तेऽर्पयामि ॥१९॥ 
 
मणिमुकुरे निष्पटले त्रिजगद्गढान्धकारसप्ताश्वे ।
कन्दर्पकोटिसदृशं मृत्युञ्जय पश्य वदनमात्मीयम् ॥२०॥
 
कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमन्वितैश्च ।
समुद्भवं पावनगन्धधूपितं मॄत्युञ्जयाङ्गं परिकल्पयामि ॥२१॥
 
 वर्तित्रयोपेतमखण्डदीप्त्या तमोहरं बाह्यमथान्तरं च ।
राज्यं समस्तामरवर्गहृद्यं सुरेशमृत्युञ्जय वंशदीपम् ॥२२॥
 
राजान्नं मधुरान्वितं च मृदुळं माणिक्यपात्रे स्थितं
हिङ्गूजीरकसन्मरीचमिलितः शाकैरनेकैः शुभैः ।
शाकं सम्यगपूपपूपसहितं सद्योघृतेनाप्लुतं
श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥२३॥ 
 
कूष्माण्डवार्ताकपटोलिकानां फलानि रम्याणि च कारवेल्ल्याः ।
सुपाकयुक्तानि ससौरभाणि श्रीकण्ठ मृत्युञ्जय भक्षयेश ॥२४॥
 
शीतळं मधुरं स्वच्छं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो॥२५॥ 
 
शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् ।
कदळीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥२६॥ 
 
केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितैः ।
एलामरीचमिलितं मृत्युञ्जय देव भुङ्क्ष्व परमान्नम् ॥२७॥ 
 
रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसस्वादुमत्-
खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो
श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम् ॥२८॥ 
 
मनोज्ञरम्भावनखण्डखण्डितान् रुचिप्रदान्सर्षपजीरकांश्च ।
ससौरभन्सैन्धवसेवितांश्च गृहाण मृत्युञ्जय लोकवन्द्य ॥२९॥ 
 
हिङ्गूजीरकसहितं विमलामलकं कपित्थमतिमधुरम् ।
बिसखण्डांल्लवणयुतान्मृत्युञ्जय तेऽर्पयामि जगदीश ॥३०॥ 
 
एलाशुण्ठीसहितं दध्यन्नं चारु हेमपात्रस्थम् ।
अमृतप्रतिनिधिमाढ्यं मृत्युञ्जय भुज्यतां त्रिलोकेश ॥३१॥ 
 
जम्बीरनीराञ्चितशृङ्गबेरं मनोहरानम्लशलाटुखण्डान् ।
मृदूपदंशान्सहितोपभुङ्क्ष्व मृत्युञ्जय श्रीकरुणासमुद्र ॥३२॥
 
 नागररामठयुक्तं सुललितजम्बीरनीरसंपूर्णम् ।
मथितं सैन्धवसहितं पिब हर मृत्युञ्जय क्रतुध्वंसिन् ॥३३
 
मन्दारहेमाम्बुजगन्धयुक्तैर्मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युञ्जय पूर्णकाम श्रीमत्परापोशनमभ्रकेश ॥३४॥
 
 गगनधुनीविमलजलैर्मृत्युञ्जय पद्मरागपात्रगतैः ।
मृगमदचन्दनपूर्णं प्रक्षाळय चारुहस्तपदयुग्मम् ॥३५॥ 
 
पुन्नागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः
मृत्युञ्जय महादेव पुनराचमनं कुरु ॥३६॥
 
 मौक्तिकचूर्णसमेतैर्मृग मदघनसारवासितैः पूगैः ।
पणैंः स्वर्णसमानैर्मृत्युञ्जय तेऽर्पयामि ताम्बूलम् ॥३७॥ 
 
नीराजनं निर्मलदीप्तिमद्भिर्दीपाङ्कुरैरुज्जवलमुच्छ्रितैश्च ।
घण्टानिनादेन समर्पयामि मृत्युञ्जयाय त्रिपुरान्तकाय ॥ ३८॥
 
 विरिञ्चिमुख्यामरवृन्दवन्दिते सरोजमत्स्याङ्कितचक्रचिह्निते ।
ददामि मृत्युञ्जय पादपङ्कजे फणीन्द्रभूषे पुनरर्घ्यमीश्वर ॥३९॥
 
 पुन्नागनीलोत्पलकुन्दजातीमन्दारमल्लीकरवीरपङ्कजैः ।
पुष्पाञ्जलिं बिल्वदळैस्तुळस्या मृत्युञ्जयाङ्घ्रौ विनिवेशयामि ॥४०॥ 
 
पदे पदे सर्वतमोनिकृन्तनं पदे पदे सर्वशुभप्रदायकम् ।
प्रदक्षिणं भक्तियुतेन चेतसा करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥४१॥
 
नमो गौरीशाय स्फटिकधवळाङ्गाय  च नमो नमो
लोकेशाय स्तुतविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो नमो
भालाक्षाय स्मरमदविनाशाय च नमः ॥४२॥
 
 संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते
 नित्यं पुत्रकळत्रवित्तविलसत्पाशैर्निबद्धं दृढम् ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो
श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ ४३॥ 
 
सौधे रत्नमये नवोत्पलदळाक्रीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवळेनाच्छादिते सर्वशः ।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये ॥४४॥ 
 
चतुश्चत्वारिंशद्विलसदुपचारैरमिमतैर्मनःपद्मे
भक्त्या बहिरपि च पूजां शुभकरीम् करोति प्रत्यूषे
निशि दिवसमध्येऽपि च पुमान्प्रयाति
श्रीमृत्युञ्जयपदमनेकाद्भुतपदम् ॥४५॥ 
 
प्रातर्लिङ्गमुमापतेरहरहः सन्दर्शनात्स्वर्गदं
मध्याह्ने हयमेधतुल्यफलदं सायन्तने मोक्षदम् ।
भानोरस्तमये प्रदोषसमये पञ्चक्षराराधनं
तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥४६॥ 
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्कराचार्यस्य
कृतं श्रीमृत्युञ्जय मानसपूजास्तोत्रं संपूर्णम् ॥
 

सर्व पहा

श्री स्वामी शास्त्रिभिः विरचित श्रीत्यागराजाष्टकम्: कल्याण सौगन्धिक पुष्पहार संशोभिकण्ठाय कलाधराय

सोमवारी या 8 गोष्टी करू नका, नाहीतर तुम्हाला पश्चाताप होईल

आरती सोमवारची-आधार चक्र नृत्य मांडिलें थोर

रविवारी हे 5 सोपे उपाय करा, सूर्य देव यश आणि आदर देईल, सर्व समस्या दूर होतील

प्रदोषचा उपवास करतांना कोणते नियम पाळावे? उपवास सोडण्याची पद्धत

सर्व पहा

साप्ताहिक राशीभविष्य १२ ते १८ जुलै २०२६

Samsung Galaxy Z Fold 8 Ultra फोल्डेबल डिव्हाइस लवकरच लॉन्च होणार

बारावीनंतर इंटरनॅशनल बिझनेस डिप्लोमा करून मिळवा आकर्षक करिअरच्या संधी

शूज बाइटची समस्या त्रासदायक ठरतेय? हे सोपे उपाय देतील पायांना आराम

हे देशी पदार्थ दुधापेक्षा जास्त कॅल्शियम देतात, नियमित सेवन करा

पुढील लेख
Show comments