Dharma Sangrah

Panchashloki Ganesh Puran : अत्यंत प्रभावी स्तोत्र पञ्चश्लोकि गणेश पुराण

बुधवार, 15 जुलै 2026 (14:47 IST)
॥ पञ्चश्लोकि गणेश पुराण ॥

श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा
तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा ।
संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं
कर्तुं सृष्टिमिमां स्तुतः स विधिना व्यासेन बुद्ध्याप्तये ॥ १ ॥

सङ्कष्ट्याश्च विनायकस्य च मनोः स्थानस्य तीर्थस्य वै
दूर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम् ।
तेभ्यो यैर्यदभीप्सितं गणपतिस्तत्तत्प्रतुष्टो ददौ
ताः सर्वा न समर्थ एव कथितुं ब्रह्मा कुतो मानवः ॥ २ ॥

क्रीडाकाण्डमथो वदे कृतयुगे श्वेतच्छविः काश्यपः
सिंहाङ्कः स विनायको दशभुजो भूत्वाथ काशीं ययौ ।
हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवं
त्रेतायां शिवनन्दनो रसभुजो जातो मयूरध्वजः ॥ ३ ॥

हत्वा तं कमलासुरं च सगणं सिन्धुं महादैत्यपं
पश्चात् सिद्धिमतीसुते कमलजस्तस्मै च ज्ञानं ददौ ।
द्वापारे तु गजाननो युगभुजो गौरीसुतः सिन्दुरं
सम्मर्द्य स्वकरेण तं निजमुखे चाखुध्वजो लिप्तवान् ॥ ४ ॥

गीताया उपदेश एव हि कृतो राज्ञे वरेण्याय वै
तुष्टायाथ च धूम्रकेतुरभिधो विप्रः सधर्मर्धिकः ।
अश्वाङ्को द्विभुजो सितो गणपतिर्म्लेच्छान्तकः स्वर्णदः
क्रीडाकाण्डमिदं गणस्य हरिणा प्रोक्तं विधात्रे पुरा ॥ ५ ॥

एतच्छ्लोकसुपञ्चकं प्रतिदिनं भक्त्या पठेद्यः पुमान् ।
निर्वाणं परमं व्रजेत्स सकलान् भुक्त्वा सुभोगानपि ॥ ६

इति पञ्चश्लोकि गणेश पुराण ।<>

सर्व पहा

आषाढ महिन्याची आजपासून सुरुवात; या ७ गोष्टी केल्यास विष्णू-लक्ष्मीची कृपा लाभते

परिव्राजकाचार्य सद्गुरु टेंबे स्वामी महाराज पुण्यतिथी निमित्त वंदन

एकवीस स्वर्ग मुकुट सप्तही पाताळ चरण आरती बुधवारची

श्री वासुदेवानंद सरस्वती टेंबे स्वांमी महाराज यांची आरती

श्रीपाद श्रीवल्लभ स्तोत्र : सर्व संकटांपासून संरक्षण देणारे प्रभावी दत्त स्तोत्र

सर्व पहा

साप्ताहिक राशीभविष्य १२ ते १८ जुलै २०२६

Samsung Galaxy Z Fold 8 Ultra फोल्डेबल डिव्हाइस लवकरच लॉन्च होणार

बारावीनंतर इंटरनॅशनल बिझनेस डिप्लोमा करून मिळवा आकर्षक करिअरच्या संधी

शूज बाइटची समस्या त्रासदायक ठरतेय? हे सोपे उपाय देतील पायांना आराम

हे देशी पदार्थ दुधापेक्षा जास्त कॅल्शियम देतात, नियमित सेवन करा

पुढील लेख
Show comments