Marathi Biodata Maker

कालभैरव माहात्म्य - अध्याय चवथा

Updated: बुधवार, 20 एप्रिल 2022 (16:16 IST)
अवापुर्भैरवं क्‍रुद्धं पुरा विष्णुपुरोगमाः । ते तत्क्रोधानलहता निपेतुर्सुवि मूर्च्छिताः ॥२३८॥
ततस्ते युगपर्यंतं पतिताः पुनरुत्थिताः । शान्ते क्रोधानले नो चेत् यास्यन्त्वेव हि भस्मतां ॥२३९॥
प्रत्याश्रमं प्रतिगृहं प्रविश्यायं तु भैरवः । अशैवान् पश्यति प्राज्ञः शिवार्चनपराङ्‌मुखान् ॥२४०॥
भस्मोद्धूलनरूद्राक्षधारणदिपराङ्‌मुखान् । लिंगपूजाविहीनांश्च दृष्ट्‌वा क्‍रुद्धो भवत्ययम् ॥२४१॥
क्रोधोऽस्य विफलो नैव भविष्यति कदाचन । यस्मिन् क्रोधोऽस्य तं घोरे पातयत्यस्त्रमंडले ॥२४२॥
देवानामपि सर्वेषां शास्ता श्रीकालभैरवः । तदन्यास्तृणभूतास्तु गंधर्वा मुनयो नराः ॥२४३॥
भैरवो भीमवेषोऽयं दुर्निरीक्ष्यः सुरैरपि । यदा क्रोधसमाक्रांतः तदा द्रष्टुं न शक्यते ॥२४४॥
अशैवशासकं क्‍रूरं प्राप्य श्रीकालभैरवं । सुखेन संवस्याम्यत्र काश्यां नित्यं वरानने ॥२४५॥
यदा तु शैवधर्माणां संक्षयः संभविष्यति । तदाऽयं शांभवं धर्मं स्थापयिष्यति भैरवः ॥२४६॥
शैवधर्मक्षयं यस्तु कर्तुमिच्छति पार्वति । समित्रं तं भैरवोऽयं नरके पातयिष्यति ॥२४७॥
अशैवानां तु दुष्टानां दुःखदो भैरवोऽपरः । अशैवानां तदन्यस्तु शासको न भविष्यति ॥२४८॥
 
उपसंहारः
माहात्म्यं भैरवस्येदं समाख्यातं मया शिवे । सर्वपापक्षयकरं पठतां श्रृण्वतामपि ॥२४९॥
येनेदं पठ्यते प्रातर्माहात्म्यं भैरवस्य तु । न तस्य सर्वदा दुःखं स्वप्नेऽपि कमलानने ॥२५०॥
इदं माहात्म्यं अमलं आदित्याभिमुखो यदि । पठति प्रीतह्रदयो न समाप्नोति यातनाम् ॥२५१॥
बालग्रहादिरोगेषु रक्षाकरमनुत्तमं । कुष्ठापस्माररोगादि विनाशकमपि प्रिये ॥२५२॥
भूर्जपत्रे लिखित्वेदं माहात्म्यं प्रत्यहं शिवे । यः पूजयिष्यति प्राज्ञः स दुःखानि न पश्यति ॥२५३॥
एतन्माहात्म्यमंत्रैस्तु प्रत्यहं भैरवार्चकैः । प्रीणनीयो भीमरूपो भैरवो भीमविक्रमः ॥२५४॥
कालाष्टम्यां विशेषण कालभैरवसन्निधौ । तत्प्रादुर्भावमाहात्म्यं पठनीयं प्रयत्‍नतः ॥२५५॥
श्रृण्वन् श्रीभैरवस्येमां प्रादुर्भावकथां नरः । भैरवार्चारतः शैवो यातनां नैव पश्यति ॥२५६॥
नित्यं भैरवमाहात्म्यमंत्रावर्तनपूर्वकं । प्रदक्षिणादिकं कार्यं भैरवे यातनापहम् ॥२५७॥
श्रीकालभैरवे भक्तिः सदा कार्या प्रयत्‍नतः । पूजनीयोऽन्वहं पूज्यो देवानां अपि शासकः ॥२५८॥
देवाश्च सर्वदा भीताः शासकं कालभैरवं । पूजयंत्यतियत्‍नेन प्रत्यहं भीमविक्रमं ॥२५९॥
भैरवानर्चकं दृष्टवा भैरवाप्रेषितान्यपि । तन्नाशकानि शस्त्राणि स्वत एव प्रयांति हि ॥२६०॥
भैरवो ब्रह्मविष्णादीनपि संतर्जयत्यरम् । तदन्यगणना तेन कथं कार्या वद प्रिये ॥२६१॥
न भैरवादुग्ररूपात् अन्यः काश्यां प्रशासकः । अशैवात् परः काश्यां शास्योऽपि न वरानने ॥२६२॥
अशैवं मृतमालोक्य काश्यां भैरवकिंकराः । दीर्घतप्तायसास्त्राग्रैस्ताडयंत्युरुविक्रमाः ॥२६३॥
प्रल्यानलसंकाशो ज्वालामालासमावृतः । कालभैरवकोपाग्निरशैववनदाहकः ॥२६४॥
ततः काश्यां विशेषेण शिवैकपरदेवतैः । शैवैः स्थातव्यं अनिशं अशैवैर्न कदाचन ॥२६५॥
कपाली कुण्डली भीमो भैरवो भीमविक्रमः । व्यालोपवीती कवची शूली शूरः शिवप्रियः ॥२६६॥
एतानि दश नामानि पठन् यः प्रणमेत् सदाः । शैवः शिवार्चकः तस्य नास्ति भैरवयातना ॥२६७॥
॥इति शिवरहस्ये सप्तमांशे शिवगौरीसंवादे काशीमाहात्म्ये एकादशोऽध्याये श्रीकालभैरवमाहात्म्ये संपूर्णम् ॥
॥श्रीकालभैरवार्पणमस्तु॥ ॥ॐ तत्सत् ब्रह्मार्पणमस्तु॥

सर्व पहा

Chaturmas 2026: चातुर्मास कधी सुरू होतो? जाणून घ्या धार्मिक महत्त्व, नियम आणि या काळात काय करावे

Nagpanchami 2026 Date नागपंचमीची पूजा कधी? तारीख, शुभ मुहूर्त आणि महत्त्व

Guru Purnima Wishes Images गुरूपौर्णिमा शुभेच्छा इमेजेस

गुरुपौर्णिमेला श्री गजानन विजय ग्रंथाचे परायण करण्याचे महत्त्व आणि त्यामागील भाव

गुरु पौर्णिमेला घरीच शेगावच्या गजानन महाराजांचे पूजन कसे करावे? वाचा संपूर्ण शास्त्रोक्त पूजा विधी

सर्व पहा

आषाढी एकादशीच्या दिवशी 'या' ७ गोष्टी टाळाच; अन्यथा विठ्ठल पूजेचे फळ मिळणार नाही!

जळणाऱ्या नातेवाईकांपासून स्वतःचा बचाव कसा करावा? आचार्य चाणक्यांचे विचार जाणून घ्या

महाराष्ट्रातील सर्वात थंड गाव कोणतं? उत्तर ऐकून आश्चर्य वाटेल

वयाच्या ३५ नंतर मित्र अचानक कमी का होतात?

स्वयंपाकघरातील हा एक बदल वीजबिल कमी करू शकतो

पुढील लेख
Show comments