- धर्म
» - हिंदू
» - आरती संग्रह
॥ गुरुस्तुतिः ॥
अखण्ड-मण्डलाकारं व्याप्तं येन चराऽचरम्।तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः।१॥अखण्डानन्दबोधाय शिष्य-सन्तापहारिणे।सच्चिदानन्दरूपाय तस्मै श्रीगुरवे नमः॥२॥अज्ञान-तिमिरान्धस्य ज्ञानांजन-शलाकया।चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥३॥गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः॥४॥॥ इति गुरुस्तुतिः समाप्ता ॥