मंगळवार, 7 एप्रिल 2026
  1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
Written By
Last Modified: सोमवार, 6 एप्रिल 2026 (07:58 IST)

Sridevendrakrita Srimat Somasundara Stuti श्रीदेवेन्द्रकृत श्रीमत् सोमसुन्दर स्तुतिः

mahadev
हालास्य स्तुति 
 
एकं ब्रह्माद्वितीयं च परिपूर्णं परात्परम्।
इति यो गीयते वेदैः तं वन्दे सोमसुन्दरम्॥ १ ॥
 
ज्ञातृ-ज्ञान-ज्ञेयरूपं विश्वं व्याप्य व्यवस्थितम्।
 स्वयं सर्वैरदृश्यो यः तं वन्दे सोमसुन्दरम्॥ २ ॥
 
अश्वमेधादियज्ञैश्च यस्समाराध्यते द्विजैः।
 ददाति च फलं तेषां तं वन्दे सोमसुन्दरम्॥ ३ ॥
 
यं विदित्वा बुधास्सर्वे कर्म-बन्ध-विवर्जिताः।
लभन्ते परमां मुक्तिं तं वन्दे सोमसुन्दरम्॥ ४ ॥
 
देवदेवं यमाराध्य मृकण्डुतनयो मुनिः।
 नित्यत्वमगमत्सद्यः तं वन्दे सोमसुन्दरम्॥ ५  ॥
 
निज-नेत्राम्बुज-कृत-पूजया परितोष्य यम्।
श्रीपतिर्लभते चक्रं तं वन्दे सोमसुन्दरम्॥ ६  ॥
 
येन सृष्टं जगत्सर्वं रक्षितं संहृतं क्रमात्।
 सत्यं विज्ञानमानन्दं तं वन्दे सोमसुन्दरम्॥ ७  ॥
 
यस्मै वेदाश्च चत्वारो नमस्यन्ति वपुर्धराः।
ईशानं सर्वविद्यानां तं वन्दे सोमसुन्दरम्॥ ८ ॥
 
यस्मात्परं चापरं च किञ्चिद्वस्तु न विद्यते।
ईश्वरं सर्वभूतानां तं वन्दे सोमसुन्दरम्॥ ९ ॥
 
यस्य प्रणाममात्रेण सन्ति सर्वाश्च सम्पदः।
 सर्वसिद्धिप्रदं शम्भुं तं वन्दे सोमसुन्दरम्॥ १०  ॥
 
यस्य दर्शन मात्रेण ब्रह्महत्यादि पातकम्।
 अवश्यं नश्यति क्षिप्रं तं वन्दे सोमसुन्दरम्॥ ११ ॥
 
उत्तमाङ्गं च चरणं विधिना विष्णुनाऽपि च।
 न दृश्यते यस्य यत्नात् तं वन्दे सोमसुन्दरम्॥ १२ ॥
 
त्वया नीपारण्यनाथ त्वदन्यान् समानाहुर्दैवतान् पापिनस्ते।
 तदा शम्भो त्वत्समं दैवतं स्याद्- यदा योगो वाजिनो रासभस्य॥ १३ ॥
 
अणोरणुस्त्वं महतो महांस्त्वं  सर्वात्मभावात्परिपूर्ण एकः। 
त्वयैव शम्भो महिमा त्वदीयो   विज्ञायते वक्तुमिमं क्षम: कः॥१४  ॥
 
इति स्तुत्वा महादेवं भक्त्या परवशो वृषा। दण्डवत्सन्निधौ तस्य प्रणमाम महीतले॥ 

 Edited By - Priya Dixit