ganesh chaturthi
✕

हनुमत्स्तवराजः

Updated: शुक्रवार, 19 एप्रिल 2024 (17:13 IST)
अथ षडङ्गन्यासः ।
ॐ अञ्जनासुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वषट् ।
ॐ अग्निगर्भाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पञ्चमुखहनुमते अस्त्राय फट् ।
इति षडङ्गन्यासः ॥
 
अथ ध्यानम् ।
उद्यन्मार्ताण्डकोटिप्रकटरुचिकरं चारु वीरासनस्थं
मौञ्जीयज्ञोपवीताभरणमुरुशिखाशोभितं कुण्डलाङ्गम् ।
भक्तानामिष्टदं तं प्रणुत मुनिजनं वेदनादप्रमोदं
ध्यायेद्देवं विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्धिम् ॥
 
इति ध्यानम् ॥
 
श्रीहनुमान्महावीरो वीरभद्रवरोत्तमः ।
वीरश्शक्तिमतां श्रेष्ठो वीरेश्वरवरप्रदः ॥ १॥
 
यशस्करः प्रतापाढयो सर्वमङ्गल सिद्धिदः ।
सानन्दमूर्तिर्गहनो गम्भीरस्सुरपूजितः ॥ २॥
 
दिव्यकुण्डलभूषाय दिव्यालङ्कारशोभिने ।
पीताम्बरधरप्राज्ञ नमस्ते ब्रह्मचारिणे ॥ ३॥
 
कौपीनवसनाक्रान्त दिव्ययज्ञोपवीतिने ।
कुमाराय प्रसन्नाय नमस्ते मौञ्जीधारिणे ॥ ४॥
 
सुभद्रश्शुभदाता च सुभगो रामसेवकः ।
यशःप्रदो महातेजा बलाढ्यो वायुनन्दनः ॥ ५॥
 
जितेन्द्रियो महाबाहुर्वज्रदेहो नखायुधः ।
सुराध्यक्षो महाधुर्यः पावनः पवनात्मजः ॥ ६॥
 
बन्धमोक्षकरश्शीघ्रपर्वतोत्पाटनस्तथा ।
दारिद्र्यभञ्जनश्श्रेष्ठस्सुखभोगप्रदायकः ॥ ७॥
 
वायुजातो महातेजाः सूर्यकोटिसमप्रभः ।
सुप्रभा दीप्तिमद्भूत दिव्यतेजस्विने नमः ॥ ८॥
 
अभयङ्करमुद्राय अपमृत्युविनाशिने ।
सङ्ग्रामे जयदात्रे च अविघ्नाय नमोनमः ॥ ९॥
 
तत्त्वज्ञानामृतानन्दब्रह्मज्ञो ज्ञानपारगः ।
मेघनादप्रमोहाय हनुमद्ब्रह्मणे नमः ॥ १०॥
 
रुच्याढ्यदीप्तबालार्कदिव्यरूपशुशोभितः ।
प्रसन्नवदन श्रेष्ठ हनुमन् ते नमो नमः ॥ ११॥
 
दुष्टग्रहविनाशश्च दैत्यदानवभञ्जनः ।
शाकिन्यादिभूतहन्त्रे नमोऽस्तु श्रीहनूमते ॥ १२॥ शाकिन्यादिषु भूतघ्नो
महाधैर्य महाशौर्य महावीर्य महाबल ।
अमेयविक्रमायैव हनुमन् वै नमोऽस्तुते ॥ १३॥
 
दशग्रीवकृतान्ताय रक्षःकुलविनाशिने ।
ब्रह्मचर्यव्रतस्थाय महावीराय ते नमः ॥ १४॥
 
भैरवाय महोग्राय भीमविक्रमणाय च ।
सर्वज्वरविनाशाय कालरूपाय ते नमः ॥ १५॥
 
सुभद्रद सुवर्णाङ्ग सुमङ्गल शुभङ्कर ।
महाविक्रम सत्वाढ्य दिङमण्डलसुशोभित ॥ १६॥
 
पवित्राय कपीन्द्राय नमस्ते पापहारिणे ।
सुविद्यरामदूताय कपिवीराय ते नमः ॥ १७॥
 
तेजस्वी शत्रुहावीरः वायुजस्सम्प्रभावनः ।
सुन्दरो बलवान् शान्तः आञ्जनेय नमोऽस्तु ते ॥ १८॥
 
रामानन्द जयकर जानकीश्वासद प्रभो ।
विष्णुभक्त महाप्राज्ञ पिङ्गाक्ष विजयप्रद ॥ १९॥
 
राज्यप्रदस्सुमाङ्गल्यः सुभगो बुद्धिवर्धनः ।
सर्वसम्पत्तिदात्रे च दिव्यतेजस्विने नमः ॥ २०॥
 
कल्याणकीर्तये जयमङ्गलाय जगत्तृतीयं धवलीकृताय ।
तेजस्विने दीप्तदिवाकराय नमोऽस्तु दीप्ताय हरीश्वराय ॥ २१॥
 
महाप्रतापाय विवर्धनाय मनोजवायाद्भूतवर्धनाय ।
प्रौढप्रतापारुणलोचनाय नमोऽञ्जनानन्द कपीश्वराय ॥ २२॥
 
कालाग्निदैत्यसंहर्ता सर्वशत्रुविनाशनः ।
अचलोद्धारकश्चैव सर्वमङ्गलकीर्तिदः ॥ २३॥
 
बलोत्कटो महाभीमः भैरवोऽमितविक्रमः ।
तेजोनिधिः कपिश्रेष्ठः सर्वारिष्टार्तिदुःखहा ॥ २४॥
 
उदधिक्रमणश्चैव लङ्कापुरविदाहकः  ।
सुभुजो द्विभूजो रुद्रः पूर्णप्रज्ञोऽनिलात्मजः ॥ २५॥
 
राजवश्यकरश्चैव जनवश्यं तथैव च ।
सर्ववश्यं सभावश्यं नमस्ते मारुतात्मज ॥ २६॥
 
महापराक्रमाक्रान्तः यक्षराक्षसमर्दनः ।
सौमित्रिप्राणदाता च सीताशोकविनाशनः ॥ २७॥
 
रक्षोघ्नोऽञ्जनासूनुश्च केसरीप्रियनन्दन ।
सर्वार्थदायको वीरः मल्लवैरिविनाशनः ॥ २८॥
 
सुमुखाय सुरेशाय शुभदाय शुभात्मने ।
प्रभावाय सुभावाय नमस्तेऽमिततेजसे ॥ २९॥
 
वायुजो वायुपुत्रश्व कपीन्द्रः पवनात्मजः ।
वीरश्रेष्ठ महावीर शिवभद्र नमोऽस्तुते ॥ २९॥
 
भक्तप्रियाय वीराय वीरभद्राय ते नमः ।
स्वभक्तजनपालाय भक्तोद्यानविहारिणे ॥ ३०॥
 
दिव्यमालासुभूषाय दिव्यगन्धानुलेपिने ।
श्रीप्रसन्नप्रसन्नाय सर्वसिद्धिप्रदोभव ॥ ३१॥
 
वातात्मजमिदं स्तोत्रं पवित्रं यः पठेन्नरः । वातसूनोरिदं
अचलां श्रियमाप्नोति पुत्रपौत्रादिवृद्धिदम् ॥ ३२॥
 
धनधान्यसमृद्धिं च आरोग्यं पुष्टिवर्धनम् ।
बन्धमोक्षकरं शीघ्रं लभते वाञ्छितं फलम् ॥ ३३॥
 
राज्यदं राजसन्मानं सङ्ग्रामे जयवर्धनम् ।
सुप्रसन्नो हनुमान्मे यशःश्री जयकारकः ॥ ३४॥
 
॥ इति श्रीपराशरसंहितायै पराशरमैत्रेयसंवादे
हनुमत्स्तवराजः सम्पूर्णः ॥

सर्व पहा

Navratri 2026 : नवरात्रीचा उपवास करताना दिवसभर थकवा येऊ नये म्हणून आहारात काय घ्यावे

नवरात्रीच्या नऊ दिवसांत मुलांना सांगता येतील अशा देवीच्या ९ प्रेरणादायी कथा

६ किंवा ७ ऑक्टोबर, पितृपक्षातील पहिली एकादशी कधी आहे? तारखेबद्दलचा संभ्रम दूर करा

Navratri 2026: नवरात्रीच्या नऊ रंगांची संपूर्ण यादी, कोणत्या दिवशी कोणता रंग आहे पहा

उपवासात काय खावे आणि काय टाळावे? फराळाच्या पदार्थांबाबत महत्त्वाच्या टिप्स

सर्व पहा

Pitru Paksha 2026: पूर्वजांप्रती कृतज्ञता व त्यांना तृप्त करण्यासाठी पितृपक्षात श्राद्धातील प्रसादाची थाळी

Pitru Paksha 2026: पितृपक्षात या ३ वस्तू घरी आणा; पितर प्रसन्न होतील

Garud Puran स्त्रिया 'श्राद्ध', 'तर्पण' किंवा 'पिंडदान' करू शकतात का? गरुड पुराणातील माहिती जाणून घ्या

पितृपक्षात जुळून येणार 'लक्ष्मी-नारायण राजयोग'; ४ राशींवर होणार धनवर्षाव

Pitru Paksha 2026 पितृ पक्ष कधीपासून सुरू? श्राद्ध तारखांचे संपूर्ण वेळापत्रक

पुढील लेख
Show comments