Festival Posters
✕

अपराध भञ्जन स्तोत्रम् : शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं पठण करा

Updated: सोमवार, 24 ऑगस्ट 2026 (06:59 IST)
शैवे चिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥५॥ 
 
वार्धक्ये चेन्द्रियाणां विगतगतनतैराधिदैवादितापैः
पापैर्रोगैर्वियोगैरसदृशवपुषं प्रौढहीनं च दीनम् ।
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥६
 
नो शक्यं स्मार्तकर्म प्रतिपदगहनमत्यवायाकुलाख्यं
श्रौतं वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे च सारे ।
नष्टो धर्म्यो विचारः श्रवणमननयोः को निदिध्यासितव्यः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥७॥
 
 
स्त्नात्वा प्रत्यूषकाले स्नपनविधिविधामाहृतं गाङ्गतोयं
पूजार्थं वा कदाचिद्बहुतरुगहनात् खण्डबिल्वैकपत्रम् ।
नानीता पद्ममाला सरसि विकसिता गन्धपुष्पे त्वदर्थं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥८॥
 
 
दुग्धैर्मध्वाज्ययुक्तैर्घटशतसहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥ ९॥ 
 
नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
नासाग्रे न्यस्तदृष्टिर्विहरभवगुणैर्नैव दृष्टं कदाचित् ।
उन्मत्तावस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥१०॥
 
 
ध्यानं चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो
हव्यं ते लक्षसंख्यं हुतवहवदने नार्पितं बीजमन्त्रैः ।
नो जप्तं गाङ्गतीरे व्रतपरिचरणै रुद्रजप्यैर्न वेदैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥११॥
 
स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुंभके सूक्ष्ममार्गे
शान्ते स्वान्ते प्रलीने प्रकटितगहने ज्योतिरूपे पराख्ये ।
लिङ्गं तत्ब्रह्मवाच्यं सकलमभिमतं नैव दृष्टं कदाचित 
त्क्षन्तव्यो मेऽपराधः शिव शिव शिव भोः श्रीमहादेव शंभो ॥१२॥ 
 
आयुर्नश्यति पश्यतो प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्षीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवनं
तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥१३॥ 
 
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सपैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे
दन्तित्वक्कतिसुन्दरांबरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्तवृत्तिममलामन्यैस्तु किं कर्मभिः ॥१४॥
 
किं दानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकळत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥१५॥
 
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शंभो ॥१६॥ 
 
गात्रं भस्मसितं स्मितं च हसितं हस्ते कपालं सितं
खट्वाङ्गं च सितं सितश्च वृषभः कर्णे सिते कुण्डले।
गङ्गाफेनसितं जटावलयकं चन्द्रः सितो मूर्धनि
सोऽयं सर्वसितो ददातु विभवं पापक्षयं शङ्करः ॥१७॥ 
 
इत्यपराधभञ्जनस्तोत्रं समाप्तम् ॥
 

सर्व पहा

अंबाजी, पावागड आणि बहुचराजी; गुजरातमधील प्रसिद्ध देवी मंदिरांची दर्शन सहल

नवरात्रीत गरबा खेळायला जाताय? आरामदायी कपडे, फुटवेअर आणि दागिने निवडण्याच्या टिप्स

Shardiya Navratri 2026 Wishes Marathi शारदीय नवरात्रीच्या शुभेच्छा

मोक्षधाम ब्रह्मकपाल : पितृदोषातून कायमची मुक्ती! जाणून घ्या १० गूढ रहस्ये

प्रसिद्ध देवी मंदिरांमधील या अनोख्या परंपरा तुम्हाला माहीत आहेत का?

सर्व पहा

Pitru Paksha 2026: पूर्वजांप्रती कृतज्ञता व त्यांना तृप्त करण्यासाठी पितृपक्षात श्राद्धातील प्रसादाची थाळी

Pitru Paksha 2026: पितृपक्षात या ३ वस्तू घरी आणा; पितर प्रसन्न होतील

Garud Puran स्त्रिया 'श्राद्ध', 'तर्पण' किंवा 'पिंडदान' करू शकतात का? गरुड पुराणातील माहिती जाणून घ्या

पितृपक्षात जुळून येणार 'लक्ष्मी-नारायण राजयोग'; ४ राशींवर होणार धनवर्षाव

Pitru Paksha 2026 पितृ पक्ष कधीपासून सुरू? श्राद्ध तारखांचे संपूर्ण वेळापत्रक

पुढील लेख
Show comments