Webdunia - Bharat's app for daily news and videos

Install App

दशावतारस्तोत्रम्

Updated: गुरूवार, 7 नोव्हेंबर 2024 (09:57 IST)
यद्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसां
या काचित्सहसा महासुरगृहस्थूणा पितामह्यभूत् ॥५॥
 
व्रीडाविद्धवदान्यदानवयशोनासीरधाटीभटः
त्रय्यक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः ।
यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभि-
स्स्रोतोभिस्सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥६॥
 
क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमा-
दक्षत्रामपि सन्ततक्ष य इमां त्रिस्सप्तकृत्वः क्षितिम् ।
दत्वा कर्मणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वस-
न्नब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः ॥७॥
 
पारावारपयोविशोषणकलापारीणकालानल-
ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः ।
सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती
धर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वीत नः ॥८॥
 
फक्कत्कौरवपट्टणप्रभृतयः प्रास्तप्रलंबादयः
तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः
क्षीरं शर्करयैव याभिरपृथग्भूता प्रभूतैर्गुणैः
आकौमारकमस्वदन्त जगते कृष्णस्य ता खेलय: ॥९॥
 
नाथायैव नमःपदं भवतु नश्चित्रैश्चरित्रक्रमै-
र्भूयोभिर्भुवानान्यमूनि कुहनागोपाय गोपायते ।
कालिन्दीरसिकाय कालियफणिस्फारस्फटावाटिका
रङ्गोत्सङ्गविशङ्कचंक्रमधुरापर्यायचर्याय ते ॥१०॥
 
भाविन्या दशया भवन्निह भवध्वंसाय नः कल्पतां
कल्की विष्णुयशस्सुतः कलिकथाकालुष्यकूलङ्कषः ।
निश्शेषक्षतकण्टके क्षितितले धाराजलौघैर्ध्रुवं
धर्म्यं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधर: ॥११॥
 
इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरे
रक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन्
क्रीडावल्लव कल्कवाहनदशा कल्किन्निति प्रत्यहं
जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघपण्यापणाः ॥१२॥
 
**********************
दशावतारस्तोत्रम् 
प्रलयपयोधिजलेधृतवानसि वेदम् विहितवहित्रचरित्रमखेदम् ।
केशव धृतमीनशरीर जय जगदीश हरे ॥१॥
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे धरणिधरणकिणचक्रगरिष्ठे ।
केशव धृतकच्छपरूप जय जगदीश हरे ॥२॥
वसति दशनशिखरे धरणी तव लग्ना शशिनि कलङ्ककलेव निमग्ना ।
केशव धृतसूकररूप जय जगदीश हरे ॥३॥
तव करकमलवरे नखमद्भुतशृङ्गम् दलितहिरण्यकशिपुतनुभृङ्गम् ।
केशव धृतनरहरिरूप जय जगदीश हरे ॥४॥
छलयसि विक्रमणे बलिमद्भुतवामन पदनखनीरजनित जनपावन ।
केशव धृतवामनरूप जय जगदीश हरे ॥५॥
क्षत्रियरुधिरमये जगदपगतपापम् स्नपयसिपयसि शमितभवतापम् ।
केशव धृतभृगुपतिरूप जय जगदीश हरे ॥६॥
वितरसि दिक्षु रणे दिक्पतिकमनीयम् दशमुखमौलिबलिं रमणीयम् ।
केशव धृतरघुपतिवेष जय जगदीश हरे ॥७॥
वहसि वपुषि विशदे वसनं जलदाभम् हलहतिभीतिमिलितयमुनाभम् ।
केशव धृतहलधररूप जय जगदीश हरे ॥८॥
निन्दसि यज्ञविधेरहह श्रुतिजातम् सदयहृदय दर्शितपशुघातम् ।
केशव धृतबुद्धशरीर जय जगदीश हरे ॥९॥
म्लेच्छनिवहनिधने कलयसि करवालम् धूमकेतुमिव किमपि करालम् ।
केशव धृतकल्किशरीर जय जगदीश हरे ॥१०॥
श्रीजयदेवकवेरिदमुदितमुदारम् शृणु सुखदं शुभदं भवसारम् ।
केशव धृतदशविधरूप जय जगदीश हरे ॥११॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कुलयते कारुण्यमातन्वते
म्लेच्छान् मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥१२॥
 
**********************
दशावतारस्तोत्रम् 
नमोऽस्तु नारायणमन्दिराय नमोऽस्तु हारायणकन्धराय ।
नमोऽस्तु मत्स्याय लयाब्धिगाय नमोऽस्तु कूर्माय पयोब्धिगाय ।
नमो वराहाय धराधराय नमो नृसिंहाय परात्पराय ॥२॥
नमोऽस्तु शक्राश्रय वामनाय नमोऽस्तु विप्रोत्सव भार्गवाय ।
नमोऽस्तु सीताहित राघवाय नमोऽस्तुपार्थस्तुत यादवाय ॥३॥
नमोऽस्तु बुद्धाय विमोहकाय नमोऽस्तु ते कल्कि पयोदिताय ।
नमोऽस्तु पूर्णामितसद्गुणाय समस्त नाथाय हयाननाय ॥४॥
करस्थ शङ्खोल्लस दक्षमाला प्रबोध मुद्राभय पुस्तकाय ।
नमोऽस्तु वक्त्रोद्गिर दागमाय निरस्त हेयाय हयाननाय ॥५॥
रमासमाकार चतुष्टयेन क्रमाच्चतुर्दिक्षु निषेविताय ।
नमोऽस्तु पार्श्वद्वयग द्विरूपश्रियाभिषिक्ताय हयाननाय ॥६॥
किरीट पट्टाङ्गद हार काञ्ची सुरत्नपीतांबर नूपुराद्यैः ।
विराजिताङ्गाय नमोऽस्तु तुभ्यं सुरैः परीताय हयाननाय ॥७॥
विदोष कोटीन्दु निभप्रभाय विशेषतो मध्व मुनि प्रियाय  ।
विमुक्तवन्द्याय नमोऽस्तु विश्वग्विधूत विघ्नाय हयाननाय ॥८॥
नमोऽस्तु शिष्टेष्टद वादिराजकृताष्टकाभिष्टुत चेष्टिताय ।
दसावतारै स्त्रिदसार्थदाय निशेश बिंबस्थ हयाननाय ॥९॥
नमोऽस्तु पारायणचर्चिताय नमोऽस्तु नारायण् तेऽर्चिताय ॥१॥
॥इति वादिराजपूज्यचरण विरचितं दशावतारस्तोत्रं संपूर्णम् ॥
 
**********************
 
दशावतार हरिगाथा
प्रलयोदन्वदुदीर्णजलविहारानिविशाङ्गम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥१॥
चरमाङ्गोद्ध्ऱ्६इतमन्दरतटिनं कूर्मशरीरम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥२॥
सितदंष्ट्रोद्धृतकाश्यपतनयम् सूकररूपम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥३॥
निशितप्राग्रनखेन जितसुरारिं नरसिंहम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥४॥
त्रिपदव्याप्तचतुर्दशभुवनं वामनरूपम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥५॥
क्षपितक्षत्रियवंशनगधरं भार्गवरामम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥६॥
दयिताचोरनिबर्हणनिपुणं राघवरामम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥७॥
मुरलीनिस्वनमोहितवनितं यादवकृष्णम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥८॥
पटुचाटिकृतनिस्फुटजननं श्रीघनसंज्ञम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥९॥
परिनिर्मूलितदुष्टजनकुलं विष्णुयशोजम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥१०॥
अकृतेमां विजयध्वजवरतीर्थो हरिगाथाम् ।
अयते प्रीतिमलं सपदि यया श्रीरमणोयम् ॥११॥
॥इति श्री विजयध्वजतीर्थकृता दशावतारहरिगाथा समाप्ता॥
 
**********************
 
दशावतरवर्णनं
मार्कण्डेय उवाच
अवतारानहं वक्ष्ये देवदेवस्य चक्रिणः ।
ताञ्शृणुष्व महीपाल पवित्रान् पापनाशनान् ॥१॥
यथा मत्स्येन रूपेण दत्ता वेदाः स्वयम्भुवे ।
मधुकैटभौ च निधनं प्रापितौ च महात्मना ॥२॥
यथा कौर्मेण रूपेण विष्णुना मन्दरो धृतः ।
तथा पृथ्वी धृता राजन् वाराहेण महात्मना ॥३॥
तेनैव निधनं प्राप्तो यथा राजन् महाबलः ।
हिरण्याक्षो महावीर्यो दितिपुत्रो महातनुः ॥४॥
यथा हिरण्यकशिपुस्त्रिदशानामरिः पुरा ।
नरसिंहेन देवेन प्रापितो निधनं नृप ॥५॥
यथा बद्धो बलिः पूर्वं वामनेन महात्मना ।
इन्द्रस्त्रिभुवनाध्यक्षः कृतस्तेन नृपात्मज ॥६॥
रामेण भूत्वा च यथा विष्णुना रावणो हतः ।
सगणाश्चदभुता राजन् राक्षसा देवकण्टकाः ॥७॥
यथा परशुरामेण क्षत्रमुत्सादितं पुरा ।
बलभद्रेण रामेण यथा दैत्यः पुरा हतः ॥८॥
यथा कृष्णेन कंसाद्या हता दैत्याः सुरद्विषः ।
कलौ प्राप्ते यथा बुद्धो भवेन्नारायणः प्रभुः ॥९॥
कल्किरूपं समास्थाय यथा म्लेच्छा निपातिताः ।
समाप्ते तु कलौ भूयस्तथा ते कथयाम्यहम् ॥१०॥
हरेरनन्तस्य पराक्रमं यः शृणोति भूपाल समाहितात्मा ।
मयोच्यमानं स विमुच्य पापं प्रयाति विष्णोः पदमत्युदारम् ॥११॥
इति ।
 
नरसिंहपुराण अध्याय ३६ श्लोकसंख्या ११
श्रीनरसिंहपुराणे हरेः प्रादुर्भावानुक्रमणे षटत्रिंशोऽध्यायः ॥३६॥
 
**********************

सर्व पहा

जन्माष्टमी २०२६: बाळगोपाळाला अर्पण करा 'हे' प्रिय नैवेद्य; 'या' ५ व्या भोगाशिवाय पूजा मानली जाते अपूर्ण!

हरतालिका तृतीयेला उपवास करणार्‍या महिलांनी आरोग्याच्या समस्या टाळण्यासाठी या चुका टाळा

गणपतीची मूर्ती बुक करण्याआधी या ५ गोष्टी तपासा; यंदा चुकूनही करू नका

Sankashti Chaturthi 2026 Wishes in Marathi Images संकष्टी चतुर्थी शुभेच्छा फोटो

Sankashti Chaturthi Mahatmya संकष्टी चतुर्थी महात्म्य

सर्व पहा

साप्ताहिक राशीभविष्य ३० ऑगस्ट ते ५ सप्टेंबर २०२६

TVS iQube MillionR Edition लॉन्च 145 किमी रेंज आणि टाइप-सी चार्जिंग यांसारखी वैशिष्ट्ये

श्रावणातील आदित्यराणूबाई व्रत पूजा पद्धत आणि माहिती

मंगळागौर व्रत किती वर्षे करावे? जाणून घ्या परंपरा आणि नियम

September 2026 Monthly Horoscope सप्टेंबर २०२६ चे मासिक राशीभविष्य: जाणून घ्या कसा राहील हा महिना तुमच्यासाठी!

पुढील लेख
Show comments