Webdunia - Bharat's app for daily news and videos

Install App

Shri Kashi Vishwanath Stotram श्री काशीविश्वनाथ स्तोत्रम्

Updated: रविवार, 25 जानेवारी 2026 (18:15 IST)
स्मेरास्यस्तव ढुण्ढिराजमुदितो देयात्सदा मङ्गळम् ॥५॥ 
 
केदारः कलशेश्वरः पशुपतिर्धर्मेश्वरो मध्यमो
ज्येष्ठेशो पशुपश्च कन्दुकशिवो विघ्नेश्वरो जम्बुकः ।
चन्द्रेशो ह्यमृतेश्वरो भृगुशिवः श्रीवृद्धकालेश्वरो
मध्येशो मणिकर्णिकेश्वरशिवो देयात्सदा मङ्गळम् ॥६॥ 
 
गोकर्णस्त्वथ भारभूतनुदनुः श्रीचित्रगुप्तेश्वरो
यक्षेशस्तिलपर्णसङ्गमशिवो शैलेश्वरः कश्यपः ।
नागेशोऽग्निशिवो निधीश्वरशिवोऽगस्तीश्वरस्तारक
-ज्ञानेशोऽपि पितामहेश्वरशिवो देयात्सदा मङ्गळम् ॥ ७॥ 
 
ब्रह्माण्डं सकलं मनोषितरसै रत्नैः पयोभिर्हरं
खेलैः पूरयते कुटुम्बनिलयान् शंभोर्विलासप्रदा ।
नानादिव्यलताविभूषितवपुः काशीपुराधीश्वरी
श्रीविश्वेश्वरसुन्दरी भगवती देयात्सदा मङ्गळम् ॥८॥ 
 
या देवी महिषासुरप्रमथनी या चण्डमुण्डापहा
या शुम्भासुररक्तबीजदमनी शक्रादिभिः संस्तुता ।
या शूलासिधनुःशराभयकरादुर्गादिसन्दक्षिणा-
माश्रित्याश्रितविघ्नशंसमयतु देयात्सदा मङ्गळम् ॥ ९॥ 
 
आद्या श्रीर्विकटा ततस्तु विरजा श्रीमङ्गळा पार्वती
विख्याता कमला  विशालनयना ज्येष्ठा विशिष्टानना ।
कामाक्षी च हरिप्रिया भगवती श्रीघण्टघण्टादिका
मौर्या षष्टिसहस्रमातृसहिता देयात्सदा मङ्गळम् ॥ १०॥ 
 
आदौ पञ्चनदं प्रयागमपरं केदारकुण्डं कुरु-
क्षेत्रं मानसकं सरोऽमृतजलं शावस्य तीर्थं परम् ।
मत्स्योदर्यथ दण्डखाण्डसलिलं मन्दाकिनी जम्बुकं
घण्टाकर्णसमुद्रकूपसहितो देयात्सदा मङ्गळम् ॥ ११॥
 
रेवाकुण्डजलं सरस्वतिजलं दुर्वासकुण्डं ततो
लक्ष्मीतीर्थलवाङ्कुशस्य सलिलं कन्दर्पकुण्डं तथा ।
दुर्गाकुण्डमसीजलं हनुमतः कुण्डप्रतापोर्जितः
प्रज्ञानप्रमुखानि वः प्रतिदिनं देयात्सदा मङ्गळम् ॥१२॥ 
 
आद्यः कूपवरस्तु कालदमनः श्रीवृद्धकूपोऽपरो
विख्यातस्तु पराशरस्तु विदितः कूपः सरो मानसः ।
जैगीषव्यमुनेः शशाङ्कनृपतेः कूपस्तु धर्मोद्भवः
ख्यातः सप्तसमुद्रकूपसहितो देयात्सदा मङ्गळम् ॥१३॥ 
 
लक्ष्मीनायकबिन्दुमाधवहरिर्लक्ष्मीनृसिंहस्ततो
गोविन्दस्त्वथ गोपिकाप्रियतमः श्रीनारदः केशवः
गङ्गाकेशववामनाख्यतदनु श्वेतो हरिः केशवः
प्रह्लादादिसमस्तकेशवगणो देयात्सदा मङ्गळम् ॥१४॥  
 
लोलार्कोविमलार्कमायुखरविः संवर्तसञ्ज्ञो
रविर्विख्यातो द्रुपदुःखस्वोल्कमरुणः प्रोक्तोत्तरार्को रविः ।
गङ्गार्कस्त्वथ वृद्धवृद्धिविबुधा काशीपुरीसंस्थिताः
सूर्या द्वादशसंज्ञकाः प्रतिदिनं देयात्सदा मङ्गळम् ॥ १५॥
 
आद्यो ढुण्ढिविनायको गणपतिश्चिन्तामणिः सिद्धिदः
सेनाविघ्नपतिस्तु वक्त्रवदनः श्रीपाशपाणिः प्रभुः ।
आशापक्षविनायकाप्रषकरो मोदादिकः षड्गुणो
लोलार्कादिविनायकाः प्रतिदिनं देयात्सदा मङ्गळम् ॥१६॥
 
हेरम्बो नलकूबरो गणपतिः श्रीभीमचण्डीगणो
विख्यातो मणिकर्णिकागणपतिः श्रीसिद्धिदो विघ्नपः।
मुण्डश्चण्डमुखश्च कष्टहरणः श्रीदण्डहस्तो गणः
श्रीदुर्गाख्यगणाधिपः प्रतिदिनं देयात्सदा मङ्गळम् ॥१७॥ 
 
आद्यो भैरवभीषणस्तदपरः श्रीकालराजः क्रमा-
च्छ्रीसंहारकभैरवस्त्वथ रुरुश्चोन्मत्तको भैरवः ।
क्रोधश्चण्डकपालभैरववरः श्रीभूत नाथादयो
ह्यष्टौ भैरवमूर्तयः प्रतिदिनं देयात्सदा मङ्गळम् ॥१८॥ 
 
आधातोऽम्बिकया सह त्रिनयनः सार्धं गणैर्नन्दितां
काशीमाशु विशन् हरः प्रथमतो वार्षध्वजेऽवस्थितः ।
आयाता दश धेनवः सुकपिला दिव्यैः पयोभिर्हरं
ख्यातं तद्वृषभध्वजेन कपिलं देयात्सदा मङ्गळम् ॥ १९॥ 
 
आनन्दाख्यवनं हि चम्पकवनं श्रीनैमिषं खाण्डवं
पुण्यं चैत्ररथं त्वशाकविपिनं रम्भावनं पावनम् ।
दुर्गारण्यमथोऽपि कैरववनं वृन्दावनं पावनं
विख्यातानि वनानि वः प्रतिदिनं देयात्सदा मङ्गळम् ॥२०॥
 
अलिकुलदलनीलः कालदंष्ट्राकराळः 
सजलजलदनीलो व्यालयज्ञोपवीतः ।
अभयवरदहस्तो डामरोद्दामनादः
सकलदुरितभक्षो मङ्गळं वो ददातु ॥ २१॥ 
 
अर्धाङ्गे विकटा गिरिन्द्रतनयो गौरी सती सुन्दरी
सर्वाङ्गे विलसद्विभूतिधवळो कालो विशालेक्षणः
वीरेशः सहनन्दिभृङ्गिसहितः श्रीविश्वनाथः प्रभुः
काशीमन्दिरसंस्थितोऽखिलगुरुर्देयात्सदा मङ्गळम् ॥२२॥  
 
यः प्रातः प्रयतः प्रसन्नमनसा प्रेमप्रमोदाकुलः
ख्यातं तत्र विशिष्टपादभुवनेशेन्द्रादिभिर्यत्स्तुतम् ।
प्रातः प्राङ्मुखमासनोत्तमगतो ब्रुयाच्छृणोत्यादरात 
त्काशीवासमुखान्यवाप्य सततं प्रीते शिवे धूर्जटिः ॥२३॥ 
 
इति श्रीमच्छङ्कराचार्यविरचितं काशीविश्वनाथस्तोत्रं संपूर्णम् ॥
 

सर्व पहा

Jivati Katha Marathi श्रावण शुक्रवारी नक्की वाचा जिवतीची आणि देवीची ही पवित्र कहाणी

Jivati Puja 2026 Wishes in Marathi श्रावण शुक्रवार विशेष जरा जिवंतिका पूजनाच्या शुभेच्छा

श्रावण शुक्रवार जिवती पूजन २०२६: पूजा साहित्य, विधी, नैवेद्य, आरती आणि कथा (संपूर्ण माहिती)

Gopinath Temple Uttarakhand महादेवाचे असे मंदिर! जिथे शिवाने गोपींचे रूप घेतले होते

Jivati Aarti जिवतीची आरती; जयदेवी जयदेवी जय जिवती जननी

सर्व पहा

भाऊ-बहिण प्रत्येक गोष्टीवरून भांडतात का? राखीला या गोष्टी करा

चाणक्य नीती: जर स्त्रीमध्ये हे ४ गुण असतील तर कुटुंब समृद्ध होते; चाणक्य नीतीमध्ये वर्णन

भविष्य मालिकेची भाकिते खरी ठरणार? १३ मुस्लिम देशांचा गट आणि भारतावरील हल्ल्याच्या दाव्यामागचे सत्य

डेंग्यू-मलेरियाचा धोका वाढतोय; पावसाळ्यात घरात या ७ गोष्टी नक्की करा

गणेशोत्सवाच्या आधी घराची साफसफाई करताना या ७ चुका करू नका; आरोग्यावर होऊ शकतो परिणाम

पुढील लेख
Show comments