Dharma Sangrah

शिवसंहिता द्वितीय पटल

देहेऽस्मिन्वर्तते मेरुः सप्तद्वीपसमन्वितः
सरितः सागराः शैलाः क्षेत्राणि क्षेत्रपालकाः १
ऋषयो मुनयः सर्वे नक्षत्राणि ग्रहास्तथा
पुययतीर्थानि पीठानि वर्तन्ते पीउदेवताः २
सृष्टिसंहारकर्तारौ भ्रमन्तौ शशिभास्करौ
नभो वायुश्च वन्दिश्च जलं पृध्वी तथैव च ३
त्रैलोक्ये यानि भूतानि तानि सर्वाणि देहतः
मेरुं संवेष्ट्य सर्वत्र व्यवहारः प्रवर्तते ४
जानाति यः सर्वमिदं स योगी नात्र संशयः ५
बह्यायडसंज्ञके देहे यथादेशं व्यवस्थितः
सुशृहे सुधारश्मिर्बहिरष्टकलायुतः ६
वर्ततेऽहर्निशं सोऽपि सुधां वर्षत्यधोमुरवः
ततोऽमृतं द्विधाभूतं याति सूक्ष्मं यथा च वै ७
इडामार्गेण पुष्ट्यर्थं याति मन्दाकिनीजलम्
पुष्णाति सकलं देहमिडामार्गेण निश्चितम् ८
एष पीयूषरश्मिर्हि वामपार्श्वे व्यवस्थितः
अपरः शुद्धदुग्धाभो हढात्कर्षति मण्डलात्
मध्यमार्गेण सृष्ट्यर्थं मेरौ संयाति चन्द्रमाः ९
मेरुमूले स्थितः सूर्यः कलाद्वादशसंयुतः
दक्षिणे पथि रश्मिभिर्वहत्यूर्ध्वं प्रजापतिः १०
पीयूषरश्मिनिर्यासं धातूंश्च चासति ध्रुवम्
समीरमण्डले सूर्यो भ्रमते सर्ववियहे ११
एषा सूर्यपरामूर्तिः निर्वाणं दक्षिणे पथि
वहते ज्ञप्रयोगेन सृष्टिसंहारकारकः १२
सार्धलक्षत्रयं नाड्यः सन्ति देहान्तरे नृणाम्
प्रधानभूता नाड्यस्तु तासु मुख्याश्चतुर्दशः १३
सुषुम्येगडा ओषगला च गांधारी हस्तिजिह्निका
कुहूः सरस्वती पूषा शंखिनी च पयस्वनी १४
वारुययलम्बुसा चैव विश्वोदरी यशस्विनी
एतासु तिस्रो मुख्यया, स्युः पिड्वलेडा सुषुन्द्रियका १५
तिसृष्वेका सुषुम्यैगव मुख्या सायोगिवल्लभा
अन्यास्तदाश्रयं कृत्वा नाड्यः सन्ति हि देहिनाम् १६
नाडचस्तु ता अधोवक्याः पद्यतन्तुनिभाः स्थिताः
पृष्ठवंशं समाश्रित्य सोमसूर्याग्निरूपिणी १७
तासां मध्ये गता नाडी चित्रा सा मम वल्लभा
ब्रह्यरन्धञ्च तत्रैव सूक्ष्मात्सूक्ष्मतरं शुभम् १८
पञ्चवर्णोञ्जला शुद्धा सुषुम्यगा मध्यचारिणी
देहख्योपाधिरूपा सा सुषुम्यगा मध्यरूपिणी १९
दिव्यमार्गमिदं प्रोक्तममृतानन्दकारकम्
ध्यानमात्रेण योगीद्रो दुरितौघ विनाशयेत् २०
गुदात्तुद्व्यंगुलादूर्ध्वं मेस्वात्तु द्व्यंगुलादधः
चतुरंगगुलविस्तारमाश्रारं वर्तते समम् २१
तस्मिकधारपद्ये च कर्णिकायां सुशोभना
त्रिकोणा वर्त्तते योनिः सर्वजेषु गोपिता २२
तत्र विद्यह्वाताकारा कुण्डली परदेवता
सार्द्धत्रिकरा कुटिला सुषुम्यगा मार्गसंस्थिता २३
जगत्संसृष्टिरूपा सा निर्माणे सततोद्यता
वाचामवाच्या वावदेवी सदा देवैर्नमस्कृता २४
इडानाग्नी तु या नाडी वाममार्गे व्यवस्थिता
सुषुम्यगायां समाश्लिष्य दक्षनासापुटे गता २५
पिङ्गला नाम या नाडी दक्षमार्गे व्यवस्थिता
मध्यनाडीं समाश्लिष्य वामनासापुटे गता २६
इडापिंगलयोर्मध्ये सुषुम्यगा या भवेत्खलु
षट्स्थानेषु च षट्शक्ति षट्पद्य योगिनो विदुः २७
पंचस्थानं सुषुम्यगाया नामानि ख्युर्बहूनि च
प्रयोजनवशात्तानि ज्ञातव्यानीह शास्त्रतः २८
अन्या याऽस्त्वपरा नाडी मूलाधारात्समुत्थिता
रसनामेढ्रनयनं पादांगुष्ठे च श्रोत्रकम्
कुक्षिकक्षागुष्ठकर्णं सर्वाङ्गं पायुकुक्षिकम्
लब्ध्वा तां वै निवर्तन्ते यथादेशसमुद्भवाः २९
एताभ्य एव नाडीभ्यः शारवोपशाखतः क्रमात्
सार्धलक्षत्रयं जातं यथाभागं व्यवस्थितम् ३०
एता भोगवहा नाड्यो वायुसञ्चारदक्षकाः
ओतप्रोताः सुसंव्याप्य तिष्ठन्त्यस्मिच्छलेवरे ३१
सूर्यमण्डलमध्यस्थः कलाद्वादशसंयुतः
वस्तिदेशे ज्वलद्वह्निर्वर्तते चान्नपाचकः
एष वैश्वानरोग्निर्वै मम तेजोंशसस्थवः
करोति विविधं पाकं प्राणिनां देहमास्थितः ३२
आयुः प्रदायको वह्निर्बलं पुष्टिं ददाति सः
शरीरपाटवञ्चापि ध्वस्तरोगसमुव्यवः ३३
तस्माद्वैश्वानरायिञ्च प्रज्वाल्य विधिवत्सुधीः
तस्मिन्नत्रं हुनेद्योगी प्रत्यहं गुरुशिक्षया ३४
बह्यायडसंज्ञके देहे स्थानानि ख्युर्बहूनि च
मयोक्तानि प्रधानानि ज्ञातव्यानीह शास्त्रके ३५
नानाप्रकारनामानि स्थानानि विविधानि च
वर्तन्ते विग्रहे तानि कथितुं नैव शक्यते ३६
इत्थं प्रकल्पिते देहे जीवो वसति सर्ज्जणः
अनादिवासनामालाऽलंकृतः कर्मशरवलः ३७
नानाविधगुणोपेतः सर्वलयापारकारकः
पूर्वार्जितानि कर्माणि भुनक्ति विविधानि च ३८
यद्यत्संदृश्यते लोके सर्वं तत्कर्मसस्थवम्
सर्वा कर्मानुसारेण जन्तुर्भोगान्मुनक्ति वै ३९
ये ये कामादयो दोषाः सुरवदुरवप्रदायकाः
ते ते सर्वे प्रवर्तन्ते जीवकर्मानुसारतः ४०
पुययोपरक्तचैतन्ये प्राणान्मीणाति केवलम्
बाह्ये पुययमयं प्राप्य भोज्यवस्तु स्वयस्थवेत् ४१
ततः कर्मबलात्पुसः सुखं वा दुःखमेव च
पापोपरक्तचैतन्यं नैव तिष्ठति निश्चितम्
न तद्भिन्नो भवेत्सोऽपि तद्भिन्नो न तु किञ्चन
मायोपहितचैतन्यात्सर्वं वस्तु प्रजायते ४२
यथाकालेपि भोगाय जन्तूनां विविधोव्यवः
यथा दोषवशाच्छुक्तौ रजतारोपण भवेत्
तथा स्वकर्मदोषाद्वै बह्यरायारोप्यते जगत् ४३
सवासनाभ्रमोत्पत्रोन्मूलनातिसमर्थनम्
उत्पन्नञ्चेदीदृशं स्याज्ज्ञानं मोक्षप्रसाधनम् ४४
साक्षाद्वैशेषदृष्टिस्तु साक्षात्कारिणि विभ्रमे
कारण नान्यथा युक्त्या सत्यं सत्यं मयोदितम् ४५
साक्षात्कारिभ्रमे साक्षात्साक्षात्कारिणि नाशयेत्
सो हि नास्तीति संसारे भ्रमो नैव निवर्तते ४६
मिथ्याज्ञाननिहत्तिस्तु विशेषदर्शनात्यवेत्
अन्यथा न निवृत्तिः ख्याद्दृश्यते रजतभ्रमः ४७
यावन्नोत्पद्यते शानं साक्षात्कारे निरञ्जने
तावत्सर्वाणि भूतानि दृश्यन्ते विविधानि च ४८
यदा कर्मार्जितं देहं निर्वाणे साधनं भवेत्
तदा शरीरवहनं सफलं ख्याव चान्यथा ४६
यादृशी वासना मूला वर्त्तते जीवसीगनी
तादृशं वहते जन्तुः कृत्याकृत्यविधौ भ्रमम् ५०
संसारसागरं तत्तु यदीच्छेद्योगसाधकः
कृत्वा वर्णाश्रम कर्म फलवर्ज तदाचरेत् ५१
विषयासक्तपुरुषा विषयेषु सुरवेष्मवः
वाचाभिरुद्धनिर्वाणा वर्तन्ते पापकर्मणि ५२
आल्पानमाल्पना पश्यन्न किञ्चिदिह पश्यति
तदा कर्मपरित्यागे न दोषोऽस्ति मतं मम ५३
कामादयो विलीयन्ते ज्ञानादेव न चान्यथा
अभावे सर्वतत्त्वानां स्वयं तत्त्वं प्रकाशते ५४
इति द्वितीयः पटलः

सर्व पहा

Guru Purnima 2026: गुरु पौर्णिमेला गुरुंची पूजा कशी करावी? जाणून घ्या पूजेची योग्य पद्धत, शुभ मुहूर्त आणि महत्त्व

Bhagwat Ekadashi 2026: भागवत एकादशी व्रताचे महत्त्व

शनिवारी मारुती स्तोत्र वाचण्याचे फायदे, कधी आणि किती वेळा पठण करावे?

संत निवृत्तीनाथ आरती :आरती ओवाळीन श्रीगुरू निवृत्ति चरण अविनाश परब्रह्म शिव अवतारपूर्ण

संत श्री निवृत्तीनाथ महाराज पुण्यतिथी निमित्त विनम्र अभिवादन

सर्व पहा

संत श्री निवृत्तीनाथ महाराज पुण्यतिथी निमित्त विनम्र अभिवादन

स्त्रियांनी नारळ का फोडू नये? धार्मिक आणि शास्त्रीय कारण ऐकून तुम्हीही थक्क व्हाल!

Mangal Nakshatra Parivartan 2026 मंगळ मृगशिरा नक्षत्रात प्रवेश करणार; २४ जुलैपासून या राशींचे नशीब उजळणार!

काळाकुट्ट तवा स्वच्छ करण्यासाठी महागड्या क्लीनरची गरज नाही; ह्या टिप्स पुरेशा आहे

WHO चा धोक्याचा इशारा! जगातील ९२% लोकसंख्येला कर्करोगाचा धोका; पुरुष आणि महिलांमधील 'या' कॅन्सरचे प्रमाण सर्वाधिक

पुढील लेख
Show comments