शुक्रवार, 19 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. दत्त जयंती
Written By

श्री दत्तस्तवस्तोत्र Shri Dattastav Stotram

dattatreya ashtakam
अनसूयात्रिसंभूत दत्तात्रेय महामते ।
सर्वदेवाधिदेवत्वं त्वं मम चित्तं स्थिरीकुरु ।।
शरणागतदीनार्थतारकाsखिलकारक ।
सर्वचालक देव त्वं मम चित्तं स्थिरीकुरु ।।
सर्वमंगलमांगल्य सर्वाधिव्याधिभेषज ।
सर्वसंकटहारिन् त्वं मम चित्तं स्थिरीकुरु ।।
स्मर्तुगामी स्वभक्तानां कामदो रिपुनाशनः ।
भुक्तिमुक्तिप्रदः स त्वं मम चित्तं स्थिरीकुरू ।।
सर्वपापक्षयकरस्तापदैन्यनिवारणः ।
योsभिष्टदः प्रभुः स त्वं मम चित्तं स्थिरीकुरु ।।
य एतत्प्रयतः श्लोकपंचकं प्रपठेत्सुधीः ।
स्थिरचितः स भगवत्कृपापात्रं भविष्यति ।।
 
।। इति श्री परमहंस परिव्राजकाचार्य श्री वासुदेवानंद सरस्वती विरचितं श्री दत्तात्रेय स्तोत्रं संपूर्णम् ।।