1. धर्म
  2. सण-उत्सव
  3. दत्त जयंती
  4. Shri Vasudevanand saraswati virchit mantratmak shlokas

श्री प. प. श्री वासुदेवानंदसरस्वतीविरचित मंत्रात्मक श्लोक

मन्त्रात्मकश्लोकाः
अनसूयात्रिसम्भूतो दत्तात्रेयो दिगम्बरः ।
स्मर्तृगामी स्वभक्तानामुद्धर्ता भव सङ्कटात् ॥ १॥
 
दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्रियम् ।
ददौ श्रीदत्तदेवः स दारिद्र्याच्छ्रीप्रदोऽवतु ॥ २॥
 
दूरीकृत्य पिशाचार्तिं जीवयित्वा मृतं सुतम् ।
योऽभूदभीष्टदः पातु स नः सन्तानवृद्धिकृत् ॥ ३॥
 
जीवयामास भर्तारं मृतं सत्या हि मृत्युहा ।
मृत्युञ्जयः स योगीन्द्रः सौभाग्यं मे प्रयच्छतु ॥ ४॥
 
अत्रेरात्मप्रदानेन यो मुक्तो भगवानृणात् ।
दत्तात्रेयं तमीशानं नमामि ऋणमुक्तये ॥ ५॥
 
जपेच्छ्लोकमिमं देवपित्रर्षिपुन्नृणापहम् ।
सोऽनृणो दत्तकृपया परम्ब्रह्माधिगच्छति ॥ ६॥
 
अत्रिपुत्रो महातेजो दत्तात्रेयो महामुनिः ।
तस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ७॥
 
नमस्ते भगवन्देव दत्तात्रेय जगत्प्रभो ।
सर्वबाधाप्रशमनं कुरु शान्तिं प्रयच्छ मे ॥ ८॥
 
अनसूयासुत श्रीश जनपातकनाशन ।
दिगम्बरं नमो नित्यं तुभ्यं मे वरदो भव ॥ ९॥
 
श्रीविष्णोरवतारोऽयं दत्तात्रेयो दिगम्बरः ।
मालाकमण्डलूच्छूलडमरूशङ्खचक्रधृक् ॥ १०॥
 
नमस्ते शारदे देवि सरस्वति मतिप्रदे ।
वस त्वं मम जिह्वाग्रे सर्वविद्याप्रदा भव ॥ ११॥
 
दत्तात्रेयं प्रपद्ये शरणमनुदिनं दीनबन्धुं मुकुन्दम् ॥
 
नैर्गुण्यं सन्निविष्टं पथि परमपदं बोधयन्तं मुनीनाम् ॥
 
भस्माभ्यङ्गं जटाभिः सुललितमुकुटं दिक्पटं दिव्यरूपं
सह्याद्रौ नित्यवासं प्रमुदितममलं सद्गुरुं चारुशीलम् ॥ १२॥
 
इति श्रीवासुदेवानन्दसरस्वतीविरचिताः मन्त्रश्लोकाः सम्पूर्णाः ।
पुढील लेख
मुलांचे वाईट नजरेपासून रक्षण करणारे 'बालशिष स्तोत्र', अर्थ आणि महत्त्व जाणून घ्या