बुधवार, 24 एप्रिल 2024
  1. धर्म
  2. सण-उत्सव
  3. गुरूपौर्णिमा
Written By

Shri Guru Ashtakam श्री गुर्वष्टकम् (गुरु अष्टकम्)

Shri Guru Ashtakam
शरीरं सुरूपं तथा वा कलत्रं
यशश्चारु चित्रं धनं मेरु तुल्यम् ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 1 ॥
 
कलत्रं धनं पुत्र पौत्रादिसर्वं
गृहो बांधवाः सर्वमेतद्धि जातम् ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 2 ॥
 
षड्क्षंगादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 3 ॥
 
विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 4 ॥
 
क्षमामंडले भूपभूपलबृब्दैः
सदा सेवितं यस्य पादारविंदम् ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 5 ॥
 
यशो मे गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 6 ॥
 
न भोगे न योगे न वा वाजिराजौ
न कंतामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 7 ॥
 
अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्ध्ये ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 8 ॥
 
गुरोरष्टकं यः पठेत्पुरायदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लमेद्वाच्छिताथं पदं ब्रह्मसंज्ञं
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥ 9 ॥