रविवार, 22 डिसेंबर 2024
  1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
Written By
Last Modified: मंगळवार, 5 नोव्हेंबर 2024 (15:03 IST)

गौरगोविन्दर्चनस्मरणपद्धति

Janmashtami decoration
ध्यानचन्द्र गोस्वामी गौरगोविन्दर्चनस्मरणपद्धति
श्रीपाद ध्यानचन्द्र गोस्वामी
साधको ब्राह्ममुहूर्ते चोत्थाय निजेष्टनामानि स्मरेत्कीर्तयेद्वा
स जयति विशुद्धविक्रमः
कनकाभः कमलायतेक्षणः ।
वरजानुलम्बिसद्भुजो
बहुधा भक्तिरसाभिनर्तकः ॥१॥
 
श्रीरामेति जनार्दनेति जगतां नाथेति नारायणे*
त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च ।
श्रीमन्नाममहामृताब्धिलहरीकल्लोलमग्नं मुहुर्
मुह्यन्तं गलद्अश्रुनेत्रं अवशं मां नाथ नित्यं कुरु ॥२॥
 
श्रीकान्त कृष्ण करुणामय कञ्जनाभ
कैवल्यवल्लभ मुकुन्द मुरान्तकेति ।
नामावलीं विमलमौक्तिकहारलक्ष्मी
लावण्यवञ्चनकरीं करवाणि कण्ठे ॥३॥
 
कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो
मत्स्य कच्छप नरसिंह वराह राघव पाहि मां ।
देवदानवनारदादि मुनीन्द्रवन्द्य दयानिधे
देवकीसुत देहि मे तव पादभक्तिं अचञ्चलां ॥४॥
 
हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥५॥
 
श्रीनारायण पुण्डरीकनयन श्रीराम सीतापते
गोविन्दाच्युत नन्दनन्दन मुकुन्दानन्द दामोदर ।
विष्णो राघव वासुदेव नृहरे देवेन्द्रचूडामणे
संसारार्णवकर्णधारक हरे श्रीकृष्ण तुभ्यं नमः ॥६॥
 
भाण्डीरेण शिखण्डमण्डन वर श्रीखण्डलिप्ताङ्ग हे
वृन्दारण्यपुरन्दर स्फुरद्अमन्देन्दीवर श्यामल ।
कालिन्दीप्रिय नन्दनन्दन परानन्दारविन्देक्षण
श्रीगोविन्द मुकुन्द सुन्दरतनो मां दीनं आनन्दय ॥७॥
 
समुद्रमेखले देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥८॥
 
ततो बहिर्गत्वा मैत्रकृत्यादिविधिं कुर्यात्, दन्तधावनादिं आचरेत्, शुद्धऽसने पूर्वाभिमुखी उपविश्य निश्चलमनाः
स्मरेत्श्रीमद्गौरचन्द्रं स्वर्धुन्या दक्षिणे तटे ।
चिन्तामणिचित्तधाम्नि श्रीनवद्वीपनामके ॥९॥
 
स्वर्धुन्यां चारुतीरे स्फुरितं अतिबृहत्कुर्मपृष्ठाभगात्रं
रम्यारामावृतं सन्मणिकनकमहासद्मषण्डैः परीतं ।
नित्यं प्रत्यालयोद्यत्प्रणयभरलसत्कृष्णसंकीर्तनाट्यं
श्रीवृन्दाटव्यभिन्नं त्रिजगदनुपमं श्रीनवद्वीपं ईडे ॥१०॥
 
फुल्लच्छ्रीमद्द्रुमवल्लीतल्लजलसत्तीरा तरङ्गावली
रम्या मन्दमरुम्मरालजलजश्रेणिषु भृङ्गास्पदं ।
सद्रत्नाचितदिव्यतीर्थनिवहा श्रीगौरपादाम्बुज
धूलिधूसरिताङ्गभावनिचिता गङ्गास्ति सम्पावनी ॥११॥
 
तस्यास्तीरसुरम्यहेमसुरसामध्ये लसच्छ्रीनव
द्वीपो भाति सुमङ्गलो मधुरिपोरानन्दवन्यो महान् ।
नानापुष्पफलाढ्यवृक्षलतिकारम्यो महत्सेवितो
नानावर्णविहङ्गमालिनिनदैर्हृत्कर्णहारी हि यः ॥१२॥
 
काण्डं मारकतं प्रभूतविटपीशाखा सुवर्णात्मिका
पत्रालिः कुरुविन्दकोमलमयी प्रावालिकाः कोरकाः ।
पुष्पाणां निकरः सुहीरकमयो वैदूर्यकीया फल
श्रेणी यस्य स कोऽपि शाखिनिकरो यत्रातिमात्रोज्ज्वलः ॥१३॥
 
तन्मध्ये द्विजभव्यलोकनिकरागारालिरम्याङ्गनम्
आरामोपवनालिविलसद्वेदीविहारास्पदं ।
सद्भक्तिप्रभया विराजितमहाभक्तालिनित्योत्सवं
प्रत्यागारं अघारिमूर्तिसुमहद्भातीह यत्पत्तनं ॥१४॥
 
एवंभूते श्रीनवद्वीपमध्ये मनसि निवासं कृत्वा तत्र श्रीगुरुदेवस्य शय्योत्थानमुखप्रक्षालनदन्तधावनादिक्रमेण यथायोग्यं सेवां कुर्यात्सेवानन्तरं ध्यायेत्यथा यामले
तत्र श्रीगुरुध्यानम्
कृपामरन्दान्वितपादपङ्कजं
श्वेताम्बरं गौररुचिं सनातनं ।
शन्दं सुमाल्याभरणं गुणालयं
स्मरामि सद्भक्तं अहं गुरुं हरिं ॥१५॥
 
श्रीगुरुपरमगुरुपरात्परगुरुपरमेष्ठिगुरूणां अनुगामित्वेन श्रीमन्महाप्रभोर्मन्दिरं गच्छेथ् ।
तत्र तद्आज्ञया श्रीनवद्वीपचन्द्रस्य शय्योत्थानं सुवासितजलेन श्रीमुखप्रक्षालनादिक्रमेण सेवां कुर्याथ् ।
तत्र श्रीमन्महाप्रभोर्ध्यानं यथा ऊर्द्ध्वाम्नाये
द्विभुजं स्वर्णरुचिरं वराभयकरं तथा ।
प्रेमालिङ्गनसम्बद्धं गृणन्तं हरिनामकं ॥१६॥
 
अनन्तरं श्रीवृन्दावनं ध्यायेत्
वृन्दावनं दिव्यलतापरीतं
लताश्च पुष्पस्फुरिताग्रभाजः ।
पुष्पाण्यपि स्फीतमधुव्रतानि
मधुव्रताश्श्रुतिहारिगीताः ॥१७॥
 
मध्ये वृन्दावने रम्ये पञ्चाशत्कुञ्जमण्डिते ।
कल्पवृक्षनिकुञ्जे तु दिव्यरत्नमये गृहे ॥१८॥
 
तत्र सिद्धदेहेन श्रीराधाकृष्णयोर्निशान्तलीलां स्मरेद्यथा
निशावसाने श्रीराधाकृष्णौ श्रीवृन्दानियुक्तरसमयपरमविदग्धशुकशारिवृन्दपद्यपठनजनितप्रबोधावपि गाढोपगूहनसुखभङ्गादसहिष्णुतया क्षणं अवकाश्यमानजागरौ तत्तत्पद्यप्रपठितनिशावसानसातङ्कौ पुष्पमयानन्दतल्पोत्थितौ स्वस्वकुञ्जात्तत्कालागतश्रीमल्ललिताविशाखादिप्रियसखीवृन्दसनर्मवाग्विलासेन सान्तरानन्दौ कक्खट्य्उदितजटिलाश्रवणात्सशङ्कौ सङ्गत्यागभयम्
असहमानौ तौ भीत्योत्कण्ठाकुलौ स्वस्वगृहं गच्छतः ।
एवं क्रमेण श्रीगौरचन्द्रस्य श्रीराधाकृष्णयोर्लीलां स्मरेथ् ।
निशान्तलीलास्मरणानन्तरं गुर्व्आदीन्दण्डवत्प्रणमेत्यथा
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥१९॥
 
इति मन्त्रं पठित्वा श्रीगुरुं दण्डवत्प्रशम्य एवं परमगुरुपरात्परगुरुपरमेष्ठिगुरुगोस्वामिचरणान्क्रमेण दण्डवत्प्रणमेथ् ।
ततः श्रीगौरचन्द्रं प्रणमेत्
विश्वम्भराय गौराय चैतन्याय महात्मने ।
शचीपुत्राय मित्राय लक्ष्मीशाय नमो नमः ॥२०॥
 
नित्यानन्दं अहं वन्दे कर्णे लम्बितमौक्तिकं ।
चैतन्याग्रजरूपेण पवित्रीकृतभूतलं ॥२१॥
 
निस्तारिताशेषजनं दयालुं
प्रेमामृताब्धौ परिमग्नचित्तं ।
चैतन्यचन्द्रादृतं अर्चितं तम्
अद्वैतचन्द्रं शिरसा नमामि ॥२२॥
 
गदाधर नमस्तुभ्यं यस्य गौराङ्गो जीवनं ।
नमस्ते श्रीश्रीनिवासपण्डित प्रेमविग्रह ॥२३॥
 
एवं क्रमेण गौरभक्तगणान्दण्डवत्प्रणमेथ् ।
श्रीनवद्वीपधाम्ने नमः ।
श्रीगङ्गायै नमः ।
श्रीसङ्कीर्तनाय नमः ।
श्रीगौडमण्डलाय नमः ।
कन्दर्पकोटिरम्याय स्फुरद्इन्दीवरत्विषे ।
जगन्मोहनलीलाय नमो गोपेन्द्रसूनवे ॥२४॥
 
तप्तकाञ्चनगौराङ्गि राधे वृन्दावनेश्वरि ।
वृषभानुसुते देवि प्रणमामि हरिप्रिये ॥२५॥
 
श्रीराधिकाप्राणसमां कनीयसीं
विशाखिकाशिक्षितसौख्यसौष्ठवां ।
लीलामृतेनोच्छलिताङ्गमाधुरीं
अनङ्गपुर्वां प्रणमामि मञ्जरीं ॥२६॥
 
ललितादिपरमप्रेष्ठसखीवृन्देभ्यो नमः ।
कुसुमिकादिसखीवृन्देभ्यो नमः ।
कस्तूर्यादिनित्यसखीवृन्देभ्यो नमः ।
शशिमुख्यादिप्राणसखीवृन्देभ्यो नमः ।
कुरङ्गाक्ष्यादिप्रियसखीवृन्देभ्यो नमः ।
श्रीरूपादिमञ्जरीभ्यो नमः ।
श्रीदामादिसखिवृन्देभ्यो नमः ।
सर्वगोपगोपीभ्यो नमः ।
व्रजवासिभ्यो नमः ।
श्रीवृन्दाविपिनेभ्यो नमः ।
श्रीरासमण्डलाय नमः ।
श्रीयमुनायै नमः ।
श्रीराधाकुण्डश्यामकुण्डाभ्यां नमः ।
श्रीगोवर्धनाय नमः ।
श्रीद्वादशविपिनेभ्यो नमः ।
श्रीव्रजमण्डलाय नमः ।
श्रीमथुरामण्डलाय नमः ।
सर्वावतारेभ्यो नमः ।
अनन्तकोटिवैष्णवेभ्यो नमः ।
वाञ्छाकल्पतरुभ्यश्च कृपासिन्धुभ्य एव च ।
पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ॥२७॥
 
अथ स्नानं आचरेत्यथानद्यादौ प्रवाहाभिमुखे तडागादिषु पूर्वाभिमुखी तीर्थानि आह्वयेद्यथा
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धो कावेरि जलेऽस्मिन्सन्निधिं कुरु ॥२८॥
 
महापापभङ्गे दयालो नु गङ्गे
महेशोत्तमाङ्गे लसच्चित्तरङ्गे ।
द्रवब्रह्मधामाच्युताङ्घ्र्यब्जजे मा
पुनीहीनकन्ये प्रवाहोर्मिधन्ये ॥२९॥
 
विष्णोर्नाभ्य्अम्बुमध्याद्वरकमलं अभूत्तस्य नालीसुमेरोर्
मध्ये निःस्यन्दमाना त्वं असि भगवति ब्रह्मलोकात्प्रसूता ।
खाद्भ्रष्टा रुद्रमूर्ध्नि प्रणिपतितजला गां गतासीति गङ्गा
कस्त्वां यो नाभिवन्देन्मधुमथनहरब्रह्मसम्पर्कपूतां ॥३०॥
 
गङ्गा गङ्गेति यो ब्रूयाथ्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥३१॥
 
चिदानन्दभानोः सदा नन्दसूनोः
परप्रेमपात्री द्रवब्रह्मगात्री ।
अघानां लवित्री जगत्क्षेमधात्री
पवित्रीक्रियान्नो वपुर्मित्रपुत्री ॥३२॥
 
राधिकासमसौभाग्य सर्वतीर्थप्रवन्दित ।
प्रसीद राधिकाकुण्ड स्नामि ते सलिले शुभे ॥३३॥
 
ततः शुक्लवस्त्रे परिधाय श्रीहरिमन्दिरधारणं कृत्वा श्रीहरिनामाक्षरं अङ्कयेद्गात्रे
ललाटे केशवं ध्यायेन् नारायणं अथोदरे ।
वक्षःस्थले माधवं तु गोविन्दं कण्ठकूपके ॥३४॥
 
विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनं ।
त्रिविक्रमं कन्धरे तु वामनं वामपार्श्वके ॥३५॥
 
श्रीधरं वामबाहौ तु हृषीकेशं च कन्धरे ।
पृष्ठे तु पद्मनाभं च कट्यां दामोदरं न्यसेथ् ।
तत्प्रक्षालनतोयं तु वासुदेवेति मूर्धनि ॥३६॥
 
पूर्ववत्स्थिरासने स्थिरचित्तः तत्रादौ श्रीनवद्वीपमध्ये श्रीरत्नमन्दिरे रत्नसिंहासनोपरि भक्तवृन्दपरिसेवितं श्रीश्रीकृष्णचैतन्यदेवं गुर्वादिक्रमेण ध्यात्वा पूजयेथ् ।
तत्रादौ श्रीजगन्नाथमिश्रस्य मन्दिरं ध्यायेथ् ।
यथा चैतन्यार्चनचन्द्रिकायाम्
श्रीजगन्नाथमिश्रस्य मन्दिराङ्गनं उत्तमैः ।
नानारत्नमणियुक्तैर्विचित्रमन्दिरपुरं ॥३७॥
 
तन्मध्ये रविकान्तिनिन्दिकनकप्राकारसतोरशं
श्रीनारायणगेहं अग्रविलसत्संकीर्तनप्राङ्गणं ।
लक्ष्म्य्अन्तःपुरपाकभोगशयनश्रीचन्द्रशालं पुरं
यद्गौराङ्गहरेर्विभाति सुखदं स्वानन्दसंवृहितं ॥३८॥
 
तन्मध्ये नवचूडरत्नकलसं व्रजेन्द्ररत्नान्तरा*
मुक्तादामविचित्रहेमपटलं सद्भक्तिरत्नाचितं ।
वेदद्वारसद्अष्टमृष्टमणिरुट्शोभाकवाटान्वितं
सच्चन्द्रातपपद्मरागविधुरत्नालम्बियन्मन्दिरं ॥३९॥
 
तन्मध्ये मणिचित्रहेमरचिते मन्त्रार्णयन्त्रान्विते
षट्कोणान्तरकर्णिकारशिखरश्रीकेशरैः सन्निभे ।
कूर्माकारमहिष्ठयोगमहसि श्रीयोगपीठाम्बुजे
राकेशावलिसूर्यलक्षविमले यद्भाति सिंहासनं ॥४०॥
 
पार्श्वाधःपद्मपटिघटितहरिमणिस्तम्भवैदूर्यपृष्ठं
चित्रछादावलम्बिप्रवरमणिमहामौक्तिकं कान्तिजालं ।
तूलान्तश्चीनचेलासनम्उडुपमृदुप्रान्तपृष्ठोपधानं
स्वर्णान्तश्चित्रमन्त्रं वसुहरिचरणध्यानगम्याष्टकोशं ॥४१॥
 
तन्मध्ये श्रीगौरचन्द्रं वामे श्रीलगदाधरं ।
तद्दक्षिणेऽवधूतेन्द्रं श्रीलाद्वैतं ततः स्मरेथ् ॥४२॥
 
तद्दक्षिणे श्रीनिवासं स्मरेत्श्रीपण्डितोत्तमं ।
स्मरेत्श्रीभक्तवृन्दं च चतुर्दिक्षु सुवेष्टितं ॥४३॥
 
श्रीमद्गौरभक्तवृन्दे स्वीयस्वीयगणान्विते ।
रूपस्वरूपप्रमुखे स्वगणस्थान्गुरून्स्मरेथ् ॥४४॥
 
तत्रादौ श्रीगुरुस्मरणं यथा सनत्कुमारसंहितायाम्
शशाङ्कायुतसंकाशं वराभयलसत्करं ।
शुक्लाम्बरधरं दिव्यशुक्लमाल्यानुलेपनं ॥४५॥
 
प्रसन्नवदनं शान्तं भजनानन्दनिर्वृतं ।
दिव्यरूपधरं ध्यायेद्वरदं कमलेक्षणं ॥४६॥
 
रूपपूर्वगुरुगणान्उगतं सेवनोत्सुकं ।
एवं रूपं गुरुं ध्यायेन्मनसा साधकः शुचिः ॥४७॥
 
तत्समीपे सेवोत्सुकं आत्मानं भावयेद्यथा
दिव्यश्रीहरिमन्दिराढ्यतिलकं कण्ठं सुमालान्वितं
वक्षः श्रीहरिनामवर्णसुभगं श्रीखण्डलिप्तं पुनः ।
शुद्धं शुभ्रनवाम्बरं विमलतां नित्यं वहन्तीं तनुं
ध्यायेच्छ्रीगुरुपादपद्मनिकटे सेवोत्सुकां चात्मनः ॥४८॥
 
श्रीमन्मौक्तिकदामबद्धचिकुरं सुस्मेरचन्द्राननं
श्रीखण्डागुरुचारुचित्रवसनं स्रग्दिव्यभूषाञ्चितं ।
नृत्यावेशरसानुमोदमधुरं कन्दर्पवेशोज्ज्वलं
चैतन्यं कनकद्युतिं निजजनैः संसेव्य्मानं भजे ॥४९॥
 
कञ्जारेन्द्रविनिन्दिसुन्दरगतिं श्रीपादं इन्दीवर
श्रेणीश्यामसद्अम्बरं तनुरुचा सान्ध्येन्दुसंमर्दकं ।
प्रेमोद्घूर्णसुकञ्जखञ्जनमदाजिन्नेत्रहास्याननं
नित्यानन्दं अहं स्मरामि सततं भूषोज्ज्वलाङ्गश्रियं ॥५०॥
 
सद्भक्तालिनिषेविताङ्घ्रिकमलं कुन्देन्दुशुक्लाम्बरं
शुद्धस्वर्णरुचिं सुबाहुयुगलं स्मेराननं सुन्दरं ।
श्रीचैतन्यदृशं वराभयकरं प्रेमाङ्गभूषाञ्चित*
मद्वैतं सततं स्मरामि परमानन्दैककन्दं प्रभुं ॥५१॥
 
कारुण्यैकमरन्दपद्मचरणं चैतन्यचन्द्रद्युतिं
ताम्बूलार्पणभङ्गिदक्षिणकरं श्वेताम्बरं सद्वरं ।
प्रेमानन्दतनुं सुधास्मितमुखं श्रीगौरचन्द्रेक्षणं
ध्यायेच्छ्रीलगदाधरं द्विजवरं माधुर्यभूषोज्ज्वलं ॥५२॥
 
श्रिचैतन्यपदारविन्दमधुपाः सत्प्रेमभूषोज्ज्वलाः
शुद्धस्वर्णरुचो दृग्अम्बुपुलकस्वेदैः सद्अङ्गश्रियः ।
सेवोपायनपाणयः स्मितमुखाः शुक्लाम्बराः सद्वराः
श्रीवासादिमहाशयान्सुखमयान्ध्यायेम तान्पार्षदान् ॥५३॥
 
इति स्मरणानन्तरं श्रीगुरोराज्ञया श्रीमन्महाप्रभुं षोडशोपचारादिभिः तन्मूलमन्त्रेणैव पूजयेथ् ।
श्रीमन्महाप्रभुमन्त्रोद्धारो यथा ऊर्द्ध्वाम्नाये श्रीव्यासं प्रति श्रीनारदवाक्यं  
अहो गूढतमः प्रश्नो भवता परिकीर्तितः ।
मन्त्रं वक्ष्यामि ते ब्रह्मन्महापुण्यप्रदं शुभं ॥५४॥
 
क्लीं गौराय नम इति सर्वलोकेषु पूजितः ।
मायारमानङ्गबीजैः वाग्बीजेन च पूजितः ।
षडक्षरः कीर्तितोऽयं मन्त्रराजः सुरद्रुमः ॥५५॥
 
मन्त्रो यथाक्लिं गौराय नमः; ह्रीं, श्रीं, क्लीं, ऐं गौराय नमः ।
एतत्पाद्यम्, एतदर्घ्यम्, एतदाचमनीयम्, एष गन्धः, एतत्पुष्पम्, एष धूपः, एष दीपः, एतन्नैवेद्यम्, एतत्पानीयजलम्, इदं आचमनीयम्, एतत्ताम्बूलम्, एतद्गन्धमाल्यम्, एष पुष्पाञ्जलिरित्यादि ।
एवं श्रीनित्यानन्दप्रभुं पूजयेत्, श्रीमन्नित्यानन्दप्रभोर्मन्त्रोद्धारो यथा (ब्रह्माण्डपुराणे धरणीशेषसम्वादे)
इति नामाष्टशतकं मन्त्रं निवेदितं शृणु ।
मया त्वयि पुरा प्रोक्तं कामबीजेति संज्ञकं ॥५६॥
 
वह्निबीजेन पूतान्ते चादौ देव नमस्तथा ।
जाह्नवीपदं तत्रैव वल्लभाय ततः परं ।
इति मन्त्रो द्वादशार्णः सर्वत्रैव मनोहरः ॥५७॥
 
मन्त्रो यथाक्लिं देवजाह्नवीवल्लभाय स्वाहा ।
इति मन्त्रेणैव पूजयेथ् ।
एवं श्रीअद्वैतप्रभुं पूजयेथ् ।
अथ श्रीअद्वैतप्रभोर्मन्त्रोद्धारो यथा पाद्मे
अहो गूढतमः प्रश्नो नारद मुनिसत्तम ।
न प्रकाश्यस्त्वया ह्येतद्गुह्याद्गुह्यतरं महथ् ॥५८॥
 
कामबीजसमायुक्ता अद्वैतवह्निनायिका ।
ङेऽन्ता वै ऋषिवर्णोऽयं मन्त्रः सर्वातिदुर्लभः ॥५९॥
 
मन्त्रो यथाक्लीं अद्वैताय स्वाहा ।
तद्अनन्तरं श्रीमन्महाप्रभोः शेषनिर्माल्येन श्रीगदाधरपण्डितं पूजयेत्तन्मन्त्रेणैव, श्रीगदाधरपण्डितमन्त्रो यथाश्रीं गदाधराय स्वाहा ।
अथ तथैव श्रीश्रीवासादिभक्तान्गुरुवर्गादीन्महाप्रभुनिर्माल्यप्रसादेन पूजयेत्, स्वस्वनामचतुर्थ्यन्तेन श्रीगुरुदेवं तु तन्मूलमन्त्रेणैव पूजयेथ् ।
श्रीगुरुमन्त्रोद्धरो यथा बृहद्ब्रह्माण्डपुराणे सूतशौनकसम्वादे
श्रीं गुं इत्येव भगवद्गुरवे वह्निवल्लभा ।
दशार्णमन्त्रराजश्च सर्वकार्येषु रक्षिता ॥६०॥
 
मन्त्रो यथाश्रीं गुं भगवद्गुरवे स्वाहा ।
ततोऽवशेषनिर्माल्यादिकं गृह्णीयात्; स्थानान्तरे च संस्थाप्य प्रभुपादपद्मे पुष्पाञ्जलिं दत्त्वा आरात्रिकं कुर्याथ् ।
तद्अन्तरं चामरव्यजनादिकं कृत्वा श्रीगुरुपार्श्वे तिष्ठन्ध्यानानुक्रमेण निरीक्षणं कृत्वा ततो बहिःपूजयेथ् ।
बहिःपूजां कृत्वानन्तरं स्वस्वगायत्रीमन्त्रान्जपेत्क्रमात्
तत्रादौ श्रीगुरुगायत्री यथा पाद्मेश्रीं गुरुदेवाय विद्महे गौरप्रियाय धीमहि तन्नो गुरुः प्रचोदयाथ् ।
प्रथमं मन्त्रगुरोः पूजा पश्चाच्चैव ममार्चनं ।
कुर्वन्सिद्धिं अवाप्नोति ह्यन्यथा निष्फलं भवेथ् ॥६१॥
 
ध्यानादौ श्रीगुरोर्मूर्तिं पूजादौ च गुरोः पूजां ।
जपादौ च गुरोर्मन्त्रं ह्यन्यथा निष्फलं भवेथ् ॥६२॥
 
ततो जपलक्षणं यथा  
न कम्पयेच्छिरो ग्रीवां दन्तान्नैव प्रकाशयेथ् ।
मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनं ॥६३॥
 
मनोमध्ये स्थितो मन्त्रो मन्त्रमध्ये स्थितं मनः ।
मनोमन्त्रं समायुक्तं एतद्धि जपलक्षणं ॥६४॥
 
अथ जपाङ्गुल्यादिनियमः
तत्राङ्गुलिजपं कुर्वन्साङ्गुष्ठाङ्गुलिभिर्जपेथ् ।
अङ्गुष्ठेन विना कर्म कृतस्तदफलं भवेथ् ॥६५॥
 
कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता ।
तिस्रोऽङ्गुल्यस्त्रिपर्वा स्युर्मध्यमा चैकपर्विका ॥६६॥
 
पर्वद्वयं मध्यमाया जपकाले विवर्जयेथ् ।
एवं मेरुं विजानीयाद्ब्रह्मणा दूषितं स्वयं ॥६७॥
 
आरभ्यानामिकामध्यात्प्रदक्षिणं अनुक्रमाथ् ।
तर्जनीमूलपर्यन्तं क्रमाद्दशसु पर्वसु ॥६८॥
 
अङ्गुलिर्न वियुञ्जीत किञ्चित्सङ्कोचयेत्तलं ।
अङ्गुलीनां वियोगे तु छिद्रेषु स्रवते जपः ॥६९॥
 
मध्यमा चैकपर्विका इत्युक्तेः केचित्मध्यमामध्यपर्व गृह्णन्ति तन्न ।
अथ जपक्रमो यथा
प्रथमं गुरुदेवस्य मन्त्रगायत्रीं संस्मरेथ् ।
ततः श्रीगौरचन्द्रस्य गायत्र्युच्चारणं तथा ॥७०॥
 
श्रीलावधूतेन्द्राद्वैतमन्त्रगायत्रीं संस्मरेथ् ।
ततः श्रीगदाधरस्य श्रीवासपण्डितस्य च ॥७१॥
 
श्रीगुरुदेवस्य मन्त्रो यथाश्रीं गुं भगवद्गुरवे स्वाहा ।
अथ गायत्रीश्रीं गुरुदेवाय विद्महे, गौरप्रियाय धीमहि, तन्नो गुरुः प्रचोदयाथ् ।
इति श्रीगुरुगायत्रीस्मरणानन्तरं गुरुवर्गान्स्मरेत्; स्मरणक्रमो यथा
श्रीगुरुपरमगुरुरित्यादिक्रमेण स्वस्वप्रणाल्य्अनुसारेण स्वस्वपरिवारेश्वरपरमपरमेष्ठिगुरुपर्यन्तं ध्यानं कृत्वा स्वीयस्वीयनामानि चतुर्थ्यन्तं कृत्वा जपानन्तरं श्रीश्रीचैतन्यमहाप्रभोर्मन्त्रं गायत्रीं च स्मरेथ् ।
मन्त्रो यथा क्लीं गौराय स्वाहा ।
गायत्री यथा क्लीं चैतन्याय विद्महे विश्वम्भराय धीमहि तन्नो गौरः प्रचोदयाथ् ।
मन्त्रो यथा क्लीं देवजाह्नवीवल्लभाय स्वाहा ।
गायत्री यथा क्लीं नित्यानन्दाय विद्महे सङ्कर्षणाय धीमहि तन्नो बलः प्रचोदयाथ् ।
मन्त्रो यथा क्लीं अद्वैताय स्वाहा ।
गायत्री यथा क्लीं अद्वैताय विद्महे महाविष्णवे धीमहि तन्नो अद्वैतः प्रचोदयाथ् ।
मन्त्रो यथा श्रीं गदाधराय स्वाहा ।
गायत्री यथा गां गदाधराय विद्महे पण्डिताख्याय धीमहि तन्नो गदाधरः प्रचोदयाथ् ।
मन्त्रो यथा श्रीं श्रीवासाय स्वाहा ।
गायत्री यथा श्रीं श्रीवासाय विद्महे नारदाख्याय धीमहि तन्नो भक्तः प्रचोदयाथ् ।
श्री श्री गौरगदाधर मन्त्रो यथा क्लीं श्रीं गौरगदाधराय स्वाहा ।
अनन्तरं स्तवप्रणामादि कृत्वा श्रीगौरचन्द्राष्टकालीयसूत्रानुसरेण स्मरेत्
गौरस्य शयनोत्थानात्पुनस्तच्छयनावधि ।
नानोपकरणैः कुर्यात्सेवनं तत्र साधकः ॥७२॥
 
श्रीनवद्वीपचन्द्रस्य चरितामृतं अद्भुतं ।
चिन्त्यतां चिन्त्यतां नित्यं मानससेवनोत्सुकः ॥७३॥
 
निशान्ते गौरचन्द्रस्य शयनं च निजालये ।
प्रातःकाले कृतोत्थानं स्नानं तद्भोजनादिकं ॥७४॥
 
पूर्वाह्नसमये भक्तमन्दिरे परमोत्सुकं ।
मध्याह्ने परमाश्चर्यकेलिं सुरसरित्तटे ॥७५॥
 
अपराह्ने नवद्वीपभ्रमणं भूरिकौतुकं ।
सायाह्ने गमनं चारुशोभनं निजमन्दिरे ॥७६॥
 
प्रदोषे प्रियवर्गाढ्यं श्रीवासभवने तथा ।
निशायां स्मरेदानन्दं श्रीमत्संकीर्तनोत्सवं ॥७७॥
 
एवं श्रीचैतन्यदेवं निषेव्य सिद्धदेहेन श्रीकृष्णसेवाङ्गं विदध्याथ् ।
अत्र कारिका
तच्चिन्तनादिसमये कुर्यात्तदनुसारतः ।
चिन्तनं तु तयोस्तत्र वसन्गुरुगणान्वितः ॥७८॥
 
पुनश्चाक्षुषलीलेऽस्मिन्सिद्धदेहेन साधकः ।
मनसा मानसीं सेवां अष्टकालोचितां व्रजेथ् ॥७९॥
 
साधकः सिद्धदेहेन कुर्यात्कृष्णप्रियागृहे ।
गुरुरूपप्रियापार्श्वे ललितादि सखीगणे ॥८०॥
 
निवासं यावटे नित्यं गुरुरूपासखीयुतः ।
श्रीयावटपुरे श्रीमद्वृषभानुपुरेऽपि च ॥८१॥
 
नन्दीश्वरपुरे राधाकृष्णकुण्डतटद्वये ।
श्रीमद्वृन्दावने रम्ये श्रीमद्वृन्दावनेशयोः ॥८२॥
 
प्रातराद्यष्टसमये सेवनं तु क्रमेण च ।
नानोपकरणैर्दिव्यैर्भक्ष्यभोज्यादिभिः सदा ।
चामरव्यजनाद्यैश्च पादसंवाहनादिभिः ॥८३॥
 
किशोरी गोपवनिता सर्वालङ्कारभूषिता ।
पृथुतुङ्गकुचद्वन्द्वा चतुःषष्टिगुणान्विता ॥८४॥
 
निगूढभावा गोविन्दे मदनानन्दमोहिनी ।
नानारसकलालापशालिनी दिव्यरूपिनी ॥८५॥
 
सङ्गीतरससंजातभावोल्लासभरान्विता ।
दिवानिशं मनोमध्ये द्वयोः प्रेमाभराकुला ॥८६॥
 
सर्वलक्षनसम्पन्ना भावहावादिभूषिता ।
गुरुप्रसादजननी गुरुरूपाप्रियानुगा ।
गान्धर्विकास्वयूथस्था ललितादिगणान्विता ॥८७॥
 
स्वयूथेश्वर्य्अनुगता यावटग्रामवासिनी ।
चिन्तनीयाकृतिः सा च कामरूपानुगामिनी ॥८८॥
 
चिद्आनन्दरसमयी द्रुतहेमसमप्रभा ।
सुचीननीलवसना नानालङ्कारभूषिता ॥८९॥
 
श्रीराधाकृष्णयोः पार्श्ववर्तिनी नवयौवना ।
गुरुदत्तस्य नाम्नोऽस्या माता वर्गाद्यमञ्जरी ।
पिता वर्गतृतीयाख्यो वर्गान्ताह्वयकः पतिः ॥९०॥
 
निवासो यावटे तस्या दक्षिणा मृद्विका हि सा ।
श्रीराधावस्त्रसेवाढ्या नानालङ्कारभूषिता ॥९१॥
 
अस्यैव सिद्धदेहस्य साधनानि यथाक्रमं ।
एकादशप्रसिद्धानि लक्ष्यन्तेऽतिमनोहरं ॥९२॥
 
नाम रूपं वयो वेशः सम्बन्धो यूथ एव च ।
आज्ञा सेवा पराकाष्ठा पाल्यदासी निवासकः ॥९३॥
 
एतेषां विशेषलक्षणान्युच्यन्ते
श्रीरूपमञ्जरीत्यादिनामाख्यानानुरूपतः ।
चिन्तनीयं यथायोग्यं स्वनाम व्रजसुभ्रुवां ॥९४॥
 
रूपं यूथेश्वरीरूपं भावनीयं प्रयत्नतः ।
त्रैलोक्यमोहनं कामोद्दीपनं गोपिकापतेः ॥९५॥
 
वयो नानाविधं तत्र यत्तु त्रिदशवत्सरं ।
माधुर्याद्भुतकैशोरं विख्यातं व्रजसुभ्रुवां ॥९६॥
 
वेशो नीलपटाद्यैश्च विचित्रालङ्कृतैस्तथा ।
स्वस्य देहानुरूपेण स्वभावरससुन्दरः ॥९७॥
 
सेव्यसेवकसम्बन्धः स्वमनोवृत्तिभेदतः ।
प्राणात्ययेऽपि सम्बन्धं न कदा परिवर्तयेथ् ॥९८॥
 
यथा यूथेश्वरीयूथः सदा तिष्ठति तद्वशे ।
तथैव सर्वथा तिष्ठेद्भूत्वा तद्वशवर्तिनी ॥९९॥
 
यूथेश्वर्याः शिरस्याज्ञामादाय हरिराधयोः ।
यथोचितां च शुश्रूषां कुर्यादानन्दसंयुता ॥१००॥
 
चामरव्यजनादीनां सर्वाज्ञाप्रतिपालनं ।
इति सेवा परिज्ञेया यथामति विभागशः ॥१०१॥
 
श्रीराधाकृष्णयोर्यद्वद्रूपमञ्जरिकादयः ।
प्राप्त नित्यसखीत्वं च तथा स्यां इति भावयेथ् ॥१०२॥
 
पाल्यदासी च सा प्रोक्ता परिपाल्या प्रियंवदा ।
स्वमनोवृत्तिरूपेण या नित्यपरिचारिका ॥१०३॥
 
निवासो व्रजमध्ये तु राधाकृष्णस्थली मता ।
वंशीवटश्च श्रीनन्दीश्वरश्चाप्यतिकौतुकः ॥१०४॥
 
अनङ्गमञ्जरी प्रोक्ता विलासमञ्जरी तथा ।
अशोकमञ्जरी चेति रसमञ्जरिका तथा ॥१०५॥
 
रसालमञ्जरी नाम्ना तथा कमलमञ्जरी ।
करुणामञ्जरी ख्याता विख्याता गुणमञ्जरी ॥१०६॥
 
एवं सर्वाश्च विख्याताः स्वस्वनामाक्षरैः पराः ।
मञ्जर्यो बहुशः रूपगुणशीलवयोऽन्विताः ॥१०७॥
 
नामरूपादि तत्सर्वं गुरुदत्तं च भावयेथ् ।
तत्र तत्र स्थिता नित्यं भजेत्श्रीराधिकाहरी ॥१०८॥
 
भावयन्साधको नित्यं स्थित्वा कृष्णप्रियागृहे ।
तदाज्ञापालको भूत्वा कालेष्वष्टसु सेवते ॥१०९॥
 
सखीनां सङ्गिनीरूपां आत्मानं भावनामयीं ।
आज्ञासेवापराकाष्ठाकृपालङ्कारभूषितां ।
ततश्च मञ्जरीरूपान्गुर्वादीनपि संस्मरेथ् ॥११०॥
 
अथ प्रातःपूर्वाह्नलीलां स्मृत्वा मध्याह्ने सङ्गमितौ राधाकृष्णौ परस्परसङ्गजनितनानासात्त्विकविकारभूषितौ ललितादिप्रियसखीवृन्दसनर्मवाग्विलासेन जनितपरमानन्दौ नानारसविलासचिह्नौ सम्मग्नमानसौ विहितारण्यलीलौ वृन्दारण्ये सुमहीरुहमूले योगपीठोपरि उपविष्टौ एवम्भूतौ राधाकृष्णौ संस्मरेथ् ।
प्रथमं षड्दलं पद्मं तद्बहिर्वसुपत्रकं ।
तद्बहिर्दशपत्रं च दशोपदलसंयुतं ॥१११॥
 
श्रीमद्राधाकृष्णलीलारसपूरितविग्रहं ।
तत्तद्इच्छावशेनैवोन्मीलितं भाति मुद्रितं ॥११२॥
 
प्राकारास्तद्बहिस्तत्र दिक्षु द्वारचतुष्टयं ।
चतुष्कोणाश्च षड्दल्यां षट्पद्य्अष्टादशाक्षरी ॥११३॥
 
यथा ब्रह्मसंहितायां
सहस्रपत्रं कमलं गोकुलाख्यं महत्पदं ।
तत्कर्णिकारं तद्धाम तद्अनन्तांशसम्भवं ॥११४॥
 
कर्णिकारं महद्यन्त्रं षट्कोशं वज्रकीलकं ।
षड्अङ्गं षट्पदीस्थानं प्रकृत्या पुरुषेण च ॥११५॥
 
प्रेमानन्दमहानन्दरसेनावस्थितं हि यथ् ।
ज्योतीरूपेण मनुना कामबीजेन सङ्गतं ॥११६॥
 
तत्किञ्जल्कं तद्अंशानां तत्पत्राणि श्रियां अपि ॥११७॥
 
एवम्भूत योगपीठे श्रीश्रीराधाकृष्णौ स्मरेथ् ।
अथ श्रीकृष्णचन्द्रस्य वयोवेशादयोऽखिलाः ।
रसशास्त्रानुसारेण निरूप्यन्ते यथामति ॥११८॥
 
वयः क्ॐआरपौगण्डकैशोरं इति तत्त्रिधा ॥११९॥
 
क्ॐआरं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
आषोडशाच्च कैशोरं यौवनं स्यात्ततः परं ॥१२०॥
 
आद्यमध्यान्तभेदेन क्ॐआरादीनि च त्रिधा ।
अष्टमासाधिकं वर्षं भागत्वेन च कीर्तितं ॥१२१॥
 
तद्यथाआद्यक्ॐआरं अष्टमासाधिकं एकवर्षं एवं मध्यक्ॐआरम्, एवं च शेषक्ॐआरम्; एवं पञ्चमवर्षपर्यन्तं क्ॐआरं ज्ञेयं ।
आद्यपौगण्डं अष्टमासाधिकं एकवर्षम्; एवं मध्यपौगण्डम्; एवं च शेषपौगण्डम्; एवं च क्रमेण षष्ठवर्षं आरभ्य दशवर्षपर्यन्तं पौगण्डं ज्ञेयं ।
आद्यकैशोरं सार्धदिनद्वयोत्तरैकादशमासाधिकं एकवर्षम्; एवं मध्यकैशोरम्; एवं शेषकैशोरम्; क्रमेणैकादशवर्षं आरभ्य पञ्चदशवर्षनवमाससार्धसप्तदिनपर्यन्तं कैशोरं ज्ञेयं ।
अथ श्रीकृष्णस्य व्रजलीलातत्र श्रीकृष्णस्य व्रजलीला पञ्चदिनोत्तरषड्मासाधिकदशवर्षीया ज्ञेया  अथ च  
एकादशसमास्तत्र गूढार्चिः सबलोऽवसथ् ॥१२२॥
 
महाराजकुमारतया भोगातिशयेन समृद्ध्या वर्षमासदिनानां सार्धतया सार्धसप्तदिनोत्तरनवमासाधिकपञ्चदशवर्षपरिमितं श्रीकृष्णस्य वयो ज्ञेयं (१५९७ १ ।२) ।
अत्रैव शेषकैशोरे षोडशहायने सदा ।
व्रजे विहारं कुरुते श्रीमन्नन्दस्य नन्दनः ॥१२३॥
 
वंशीपाणिः पीतवासा इन्द्रनीलमणिद्युतिः ।
कण्ठे कौस्तुभशोभाढ्यो मयूरदलभूषणः ॥१२४॥
 
गुञ्जाहारलसद्वक्षा रत्नहारविराजितः ।
वनमालाधरो निष्क शोभोल्लसितकण्ठकः ॥१२५॥
 
वामभागस्थितस्वर्णरेखाराजद्उरःस्थलः ।
वैजयन्तीलसद्वक्षा गजमौक्तिकनासिकः ॥१२६॥
 
कर्णयोर्मकराकारकुण्डलाभ्यां विराजितः ।
रत्नकङ्कनयुग्घस्तः कौङ्कुमं तिलकं दधथ् ॥१२७॥
 
किङ्किणीयुक्तकटिको रत्ननूपुरयुक्पदः ।
मालतीमल्लिके जातियूथी केतकीचम्पके ॥१२८॥
 
नागकेशर इत्यादि पुष्पमालास्वलङ्कृतः ।
इति वेशधरः श्रीमान्ध्येयः श्रीनन्दनन्दनः ॥१२९॥
 
शृङ्गं वामोदरपरिसरे तुन्दबन्धान्तरस्थं
दक्षे तद्वन्निहितमुरलीं रत्नचित्रां दधानः ।
वामेनासौ सरललगुणं पाणिना पीतवर्णं
लीलाम्भो