1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
  4. Himalaya Krutam Shiva Stotram Lyrics in Marathi

Himalaya Krutam Shiva Stotram हिमालयकृतं शिवस्तोत्रम्

Himalaya Krutam Shiva Stotram Lyrics in Marathi
हिमालय कृतं शिव स्तोत्रम्
 
हिमालय  उवाच ॥त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः ।
त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः ॥१॥
 
त्वमीश्वरो गुणातीतो ज्योतीरूपः सनातनः
प्रकृतः प्रकृतीशश्च प्राकृतः प्रकृतेः परः ॥२॥
 
नानारूपविधाता त्वं भक्तानां ध्यानहेतवे ।
येषु रूपेपु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥३॥
 
सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम् ।
सोमस्त्वं सस्यपाता च सततं शीतरश्मिना ॥४॥
 
वायुस्त्वं वरुणस्त्वं च त्वमग्निः सर्वदाहकः ।
इन्द्रस्त्वं देवराजश्च कालो मृत्युर्यमस्तथा ॥ ५॥
 
मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः ।
वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः ॥ ६॥
 
विदुषां जनकस्त्वं च विद्वांश्च विदुषां गुरुः ।
मन्त्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः ॥ ७॥
 
वाक् त्वं रागाधिदेवी त्वं तत्कर्ता तद्गुरुः  स्वयम् ।
अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्वरः ॥ ८॥
 
इत्येवमुक्त्वाशैलेन्द्रस्तस्थौ धृत्वा पदाम्बुजम् ।
तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः ॥ ९॥
 
स्तोत्रमेतन्महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ।
मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे ॥ १०॥
 
अपुत्रो लभते पुत्रं मासमेकं पठेद्यदि ।
भार्याहीनो लभेद्भार्यां सुशीलां सुमनोहराम् ॥ ११॥
 
चिरकालगतं वस्तु लभते सहसा ध्रुवम् ।
राज्यभ्रष्टो लभेद्राज्यं शङ्करस्य प्रसादतः ॥ १२॥
 
कारागारे श्मशाने च शत्रुग्रस्तेऽतिसङ्कटे ।
गभीरेऽतिजलाकीर्णे भग्नपोते विषादने ॥ १३॥
 
रणमध्ये महाभीते हिंस्रजन्तुसमन्विते ।
सर्वतो मुच्यते स्तुत्वा शङ्करस्य प्रसादतः ॥ १४॥
 
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे हिमालयकृतं शिवस्तोत्रम् सम्पूर्णम् ॥
पुढील लेख
आरती सोमवारची